Sri Chandra Stotram 2 – श्री चन्द्र स्तोत्रम् – २


श्वेताम्बरः श्वेतवपुः किरीटी
श्वेतद्युतिर्दण्डधरो द्विबाहुः ।
चन्द्रोऽमृतात्मा वरदः शशाङ्कः
श्रेयांसि मह्यं प्रददातु देवः ॥ १ ॥

दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् ।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ २ ॥

क्षीरसिन्धुसमुत्पन्नो रोहिणीसहितः प्रभुः ।
हरस्य मुकुटावासः बालचन्द्र नमोऽस्तु ते ॥ ३ ॥

सुधामया यत्किरणाः पोषयन्त्योषधीवनम् ।
सर्वान्नरसहेतुं तं नमामि सिन्धुनन्दनम् ॥ ४ ॥

राकेशं तारकेशं च रोहिणीप्रियसुन्दरम् ।
ध्यायतां सर्वदोषघ्नं नमामीन्दुं मुहुर्मुहुः ॥ ५ ॥

इति चन्द्र स्तोत्रम् ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed