Sri Batuka Bhairava Stavaraja (Ashtottara Shatanama Stotram cha) – श्री बटुकभैरव स्तवराजः (अष्टोत्तरशतनाम स्तोत्रम् च)


कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ १

श्रीपार्वत्युवाच ।
भगवन् सर्वधर्मज्ञ सर्वशास्त्रागमादिषु ।
आपदुद्धारणं मन्त्रं सर्वसिद्धिप्रदं नृणाम् ॥ २
सर्वेषां चैव भूतानां हितार्थं वाञ्छितं मया ।
विशेषतस्तु राज्ञां वै शान्तिपुष्टिप्रसाधनम् ॥ ३
अङ्गन्यास करन्यास बीजन्यास समन्वितम् ।
वक्तुमर्हसि देवेश मम हर्षविवर्धनम् ॥ ४

श्रीभगवानुवाच ।
शृणु देवि महामन्त्रमापदुद्धारहेतुकम् ।
सर्वदुःखप्रशमनं सर्वशत्रुनिबर्हणम् ॥ ५
अपस्मारादिरोगाणां ज्वरादीनां विशेषतः ।
नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये ॥ ६
ग्रहराजभयानां च नाशनं सुखवर्धनम् ।
स्नेहाद्वक्ष्यामि ते मन्त्रं सर्वसारमिमं प्रिये ॥ ७
सर्वकामार्थदं मन्त्रं राज्यभोगप्रदं नृणाम् ।
प्रणवं पूर्वमुच्चार्य देवी प्रणवमुद्धरेत् ॥ ८
बटुकायेति वै पश्चादापदुद्धारणाय च ।
कुरु द्वयं ततः पश्चाद्बटुकाय पुनः क्षिपेत् ॥ ९
देवी प्रणवमुद्धृत्य मन्त्रराजमिमं प्रिये ।
मन्त्रोद्धारमिमं देवि त्रैलोक्यस्यापि दुर्लभम् ॥ १०
अप्रकाश्यमिमं मन्त्रं सर्वशक्तिसमन्वितम् ।
स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः ॥ ११
विद्रवन्ति भयार्ता वै कालरुद्रादिव प्रजाः ।
पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ॥ १२
नाग्निचौरभयं वापि ग्रहराजभयं तथा ।
न च मारीभयं तस्य सर्वत्र सुखवान् भवेत् ॥ १३
आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिसम्पदः ।
भवन्ति सततं तस्य पुस्तकस्यापि पूजनात् ॥ १४

श्रीपार्वत्युवाच ।
य एष भैरवो नाम आपदुद्धारको मतः ।
त्वया च कथितो देव भैरवः कल्प उत्तमः ॥ १५
तस्य नामसहस्राणि अयुतान्यर्बुदानि च ।
सारमुद्धृत्य तेषां वै नामाष्टशतकं वद ॥ १६

श्रीभगवानुवाच ।
यस्तु सङ्कीर्तयेदेतत् सर्वदुष्टनिबर्हणम् ।
सर्वान् कामानवाप्नोति साधकः सिद्धिमेव च ॥ १७
शृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः ।
आपदुद्धारकस्येह नामाष्टशतमुत्तमम् ॥ १८
सर्वपापहरं पुण्यं सर्वापद्विनिवारकम् ।
सर्वकामार्थदं देवि साधकानां सुखावहम् ॥ १९
देहाङ्गन्यसनं चैव पूर्वं कुर्यात् समाहितः ।
भैरवं मूर्ध्नि विन्यस्य ललाटे भीमदर्शनम् ॥ २०
अक्ष्णोर्भूताश्रयं न्यस्य वदने तीक्ष्णदर्शनम् ।
क्षेत्रपं कर्णयोर्मध्ये क्षेत्रपालं हृदि न्यसेत् ॥ २१
क्षेत्राख्यं नाभिदेशे च कट्यां सर्वाघनाशनम् ।
त्रिनेत्रमूर्वोर्विन्यस्य जङ्घयो रक्तपाणिकम् ॥ २२
पादयोर्देवदेवेशं सर्वाङ्गे वटुकं न्यसेत् ।
एवं न्यासविधिं कृत्वा तदनन्तरमुत्तमम् ॥ २३
नामाष्टशतकस्यापि छन्दोऽनुष्टुबुदाहृतम् ।
बृहदारण्यको नाम ऋषिश्च परिकीर्तितः ॥ २४
देवता कथिता चेह सद्भिर्वटुकभैरवः ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ २५

(अष्टोत्तरशतनाम स्तोत्रम्)
ओं भैरवो भूतनाथश्च भूतात्मा भूतभावनः ।
क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् ॥ २६
श्मशानवासी मांसाशी खर्पराशी मखान्तकृत् ।
रक्तपः प्राणपः सिद्धः सिद्धिदः सिद्धसेवितः ॥ २७
करालः कालशमनः कलाकाष्ठातनुः कविः ।
त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥ २८
शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः ।
अभीरुर्भैरवो भीरुर्भूतपो योगिनीपतिः ॥ २९
धनदो धनहारी च धनपः प्रतिभाववान् ।
नागहारो नागकेशो व्योमकेशः कपालभृत् ॥ ३०
कालः कपालमाली च कमनीयः कलानिधिः ।
त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकपात् ॥ ३१
त्रिवृत्तनयनो डिम्भः शान्तः शान्तजनप्रियः ।
वटुको वटुकेशश्च खट्वाङ्गवरधारकः ॥ ३२
भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः ।
धूर्तो दिगम्बरः सौरिर्हरिणः पाण्डुलोचनः ॥ ३३
प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः ।
अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तमोमयः ॥ ३४
अष्टाधारः कलाधारः सर्पयुक्तः शशीशिखः ।
भूधरो भूधराधीशो भूपतिर्भूधरात्मकः ॥ ३५
कङ्कालधारी मुण्डी च व्यालयज्ञोपवीतवान् ।
जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥ ३६
शुद्धनीलाञ्जनप्रख्यदेहो मुण्डविभूषितः ।
बलिभुक् बलिभूतात्मा कामी कामपराक्रमः ॥ ३७
सर्वापत्तारको दुर्गो दुष्टभूतनिषेवितः ।
कामी कलानिधिः कान्तः कामिनीवशकृद्वशी ।
सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुः प्रभाववान् ॥ ३८

(फलश्रुतिः)
अष्टोत्तरशतं नाम भैरवस्य महात्मनः ।
मया ते कथितं देवि रहस्यं सर्वकामिकम् ॥ ३९
य इदं पठति स्तोत्रम् नामाष्टशतमुत्तमम् ।
न तस्य दुरितं किञ्चन्न रोगेभ्यो भयं तथा ।
न शत्रुभ्यो भयं किञ्चित् प्राप्नोति मानवः क्वचित् ॥ ४०
पातकानां भयं नैव पठेत् स्तोत्रमनन्यधीः ।
मारीभये राजभये तथा चौराग्निजे भये ॥ ४१
औत्पातिके महाघोरे यथा दुःस्वप्नदर्शने ।
बन्धने च तथा घोरे पठेत् स्तोत्रम् समाहितः ॥ ४२
सर्वे प्रशमनं यान्ति भयाद्भैरवकीर्तनात् ।
एकादशसहस्रं तु पुरश्चरणमुच्यते ॥ ४३
त्रिसन्ध्यं यः पठेद्देवि संवत्सरमतन्द्रितः ।
स सिद्धिं प्राप्नुयादिष्टां दुर्लभमपि मानुषः ॥ ४४
षण्मासान् भूमिकामस्तु स जप्त्वा लभते महीम् ।
राजा शत्रुविनाशाय जपेन्मासाष्टकं पुनः ॥ ४५
रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् ।
जपेन्मासत्रयं रात्रौ राजानं वशमानयेत् ॥ ४६
धनार्थी च सुतार्थी च दारार्थी यस्तु मानवः ।
पठेद्वारत्रयं यद्वा वारमेकं तथा निशि ॥ ४७
धनं पुत्रांस्तथा दारान् प्राप्नुयान्नात्र संशयः ।
रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ ४८
भीतो भयात् प्रमुच्येत देवि सत्यं न संशयः ।
यान् यान् समी हते कामांस्तांस्तानाप्नोति निश्चितम् ।
अप्रकाश्यमिदं गुह्यं न देयं यस्य कस्यचित् ॥ ४९
सत्कुलीनाय शान्ताय ऋजवे दम्भवर्जिते ।
दद्यात् स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम् ।
ध्यानम् वक्ष्यामि देवस्य यथा ध्यात्वा पठेन्नरः ॥ ५०

ओं शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् ।
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ॥ ५१
भुजङ्गमेखलं देवमग्निवर्णशिरोरुहम् ।
दिगम्बरं कुमारीशं वटुकाख्यं महाबलम् ॥ ५२
खट्वाङ्गमसिपाशं च शूलं चैव तथा पुनः ।
डमरुं च कपालं च वरदं भुजगं तथा ॥ ५३
नीलजीमूतसङ्काशं नीलाञ्जनचयप्रभम् ।
दंष्ट्राकरालवदनं नूपुराङ्गदभूषितम् ॥ ५४

आत्मवर्णसमोपेतसारमेयसमन्वितम् ।
ध्यात्वा जपेत् सुसंहृष्टः सर्वान् कामानवाप्नुयात् ॥ ५५

एतच्छ्रुत्वा ततो देवी नामाष्टशतमुत्तमम् ।
भैरवाय प्रहृष्टाभूत् स्वयं चैव महेश्वरी ॥ ५६

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरव स्तवराजः समाप्तः ॥


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed