Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रातस्स्मरामि फणिराजतनौ शयानं
नागामरासुरनरादिजगन्निदानं ।
वेदैस्सहागमगणैरुपगीयमानं
कां तारकेतनवतां परमं विधानम् ॥ १ ॥
प्रातर्भजामि भवसागरवारिपारं
देवर्षिसिद्धनिवहैर्विहितोपहारं ।
सन्दृप्तदानवकदम्बमदापहारं
सौन्दर्यराशि जलराशि सुताविहारम् ॥ २ ॥
प्रातर्नमामि शरदम्बरकान्तिकान्तं
पादारविन्दमकरन्दजुषां भवान्तम् ।
नानावतारहृतभूमिभरं कृतान्तं
पाथोजकम्बुरथपादकरं प्रशान्तम् ॥ ३ ॥
श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देन कीर्तितं ।
यः पठेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ ४ ॥
इति श्रीमत्परमहंसस्वामि ब्रह्मानन्दविरचितं श्रीभगवत्प्रातस्स्मरणस्तोत्रम् ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.