Sri Sudarshana Vimsathi – श्री सुदर्शन विम्शति


षट्कोणान्तर मध्यवर्ति निलयं स्वच्छेन्दु दम्ष्ट्राननं
श्रीचक्राद्यायुध चारु षोडशभुजं प्रज्वालकेशोज्ज्वलं ।
वस्त्रालेपनमाल्यविग्रह गुणैस्तं बालमित्रारुणैः
प्रत्यालीढ पदाम्बुजं त्रिनयनं चक्राधिराजं भजे ॥ १ ॥

शङ्खं शार्ङ्गं सखेटं हलपरशु गदा कुन्त पाशान् दधानं
अन्यैर्वामैश्च चक्रेष्वसि मुसललसद्वज्रशूलां कुशाग्नीन् ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
ध्याये षट्कोण संस्थं सकल रिपुजन प्राणसंहार चक्रम् ॥ २ ॥

व्याप्ति व्याप्तान्तरिक्षं क्षरदरुण निभा वासिता शान्तरालं
दम्ष्ट्रा निष्ठ्यूत वह्नि प्रविरल शबलादभ्रशुभ्राट्टहासं ।
शङ्खारि श्री गदांभोरुह मुसल धनुः पाश दीप्ताङ्कुशाड्यैः
दोर्भिः पिङ्गाक्षवेषं प्रणमत शिरसा विष्णु चक्राभिदानम् ॥ ३ ॥

ध्याये चतुर्भुजं देवं शङ्ख चक्र वराभयं ।
ध्याये सुदर्शनं वीरं सर्वकार्यार्थ सिद्धये ॥ ४ ॥

सुदर्शन नमस्तेऽस्तु नमस्ते शत्रुसंहर ।
अर्चयाम्युपचारेण विष्णुरूपाय ते नमः ॥ ५ ॥

चक्रद्वयं चाङ्कुशपाशयुक्तं
चतुर्भुजं भीकर सिंहवक्त्रं ।
नेत्रत्रयालङ्कृत निर्मलाङ्गं
नमामि सौदर्शन नारसिंहम् ॥ ६ ॥

शङ्ख चक्र धरं देवं ज्वालाचक्रमयं हरिं ।
रोगघ्नं परमानन्दं चिन्तितार्थ प्रदायकम् ॥ ७ ॥

हृत्पङ्कजे समासीनं ज्वालामय सुदर्शनं ।
शङ्ख चक्राम्बुज गदा भूषितं रोहनाशनम् ॥ ८ ॥

ध्यायेत्सौदर्शनं देवं आत्मरक्षाकरं प्रभुं ।
ज्वालामाला परीतं च ध्याये हृदयपङ्कजे ॥ ९ ॥

ध्याये सुदर्शनं देवं खेदनं परविद्ययोः ।
सूर्यकोटिप्रतीकाशं ध्याये हृदय पङ्कजे ॥ १० ॥

शङ्ख चक्र धरं देवं कोटिसूर्य समप्रभं ।
शत्रूणां मारणार्थं च अस्त्रचक्रं नमाम्यहम् ॥ ११ ॥

पाशाङ्कुशधरं देवं परिपूर्ण कृपाकरं ।
वशीकरणबाणाय सम्यक्सौदर्शनाय च ॥ १२ ॥

रक्तवस्त्रधरं देवं रक्तमाल्यानुलेपनं ।
वन्देऽहं वश्य बाणाय चक्रराजाय ते नमः ॥ १३ ॥

पाशाङ्कुशं शक्ति शूलं चतुर्बाहुं त्रिलोचनं ।
सम्मोहनकरं वीरं ध्याये सौदर्शनेश्वरम् ॥ १४ ॥

सम्मोहनास्त्रराजाय नमः सौदर्शनाय च ।
मोहनार्थं भजाम्याशु सम्मोहय जगत्रयम् ॥ १५ ॥

ज्वालामालानिभं देवं सहस्रकरसम्युतं ।
शत्रु मारण कार्येषु भजे हृच्चक्रनायकम् ॥ १६ ॥

आकर्षणकरं देवं पाशाङ्कुशधरं हरिं ।
सम्मोहाकर्षणास्त्रं च धृत नारायणं प्रभुम् ॥ १७ ॥

चक्रराज नमस्तेस्तु सर्वाकर्षण सायक ।
आकर्षय जगन्नाथ शरणं त्वां गतोस्म्यहम् ॥ १८ ॥

चक्राद्यायुध चारु षोडशभुजं स ज्वाल कौशोज्ज्वलं
चक्रं शङ्ख गदाब्ज शूल शरधीम्श्चापं च पाशाङ्कुशौ ।
कुन्तं चर्महलं भुशुण्डि परशू वज्रं तथा तर्जनीं
हेतिं षोडशधारिणं रिपुहरं श्रीचक्रराजं भजे ॥ १९ ॥

सिंहासन समासीनं देवं चक्रं सुरेश्वरं
श्रोतुं चक्रेश कवचमब्रुवन् सुरसत्तमाः ।
देव देव सहस्राक्ष दैत्यान्तक शचीपते
त्वया सौदर्शिनीं रक्षां श्रोतुमिच्छामहे वयम् ॥ २० ॥

तदनन्तरं श्री सुदर्शन कवचम् पठतु ।


ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed