Devacharya Krita Shiva Stuti – श्री शिव स्तुतिः (देवाचार्य कृतम्)


आङ्गीरस उवाच –
जय शङ्कर शान्तशशाङ्करुचे
रुचिरार्थद सर्वद सर्वशुचे ।
शुचिदत्तगृहीत महोपहृते
हृतभक्तजनोद्धततापतते ॥ १ ॥

तत सर्वहृदम्बर वरदनते
नत वृजिन महावनदाहकृते ।
कृतविविधचरित्रतनो सुतनो-
ऽतनु विशिखविशोषण धैर्यनिधे ॥ २ ॥

निधनादिविवर्जितकृतनति कृ-
त्कृति विहित मनोरथ पन्नगभृत् ।
नगभर्तृनुतार्पित वामनवपु-
स्स्ववपुःपरिपूरित सर्वजगत् ॥ ३ ॥

त्रिजगन्मयरूप विरूप सुदृ-
ग्दृगुदञ्चन कुञ्चनकृत हुतभुक् ।
भव भूतपते प्रमथैकपते
पतितेष्वपि दत्तकर प्रसृते ॥ ४ ॥

प्रसृताखिल भूतल संवरण
प्रणवध्वनिसौध सुधाम्शुधर ।
धरराज कुमारिकया परया
परितः परितुष्टनतोस्मि शिव ॥ ५ ॥

शिव देव गिरीश महेश विभो
विभवप्रद शर्व शिवेश मृड ।
मृडयोडुपतिध्रजगत्त्रितयं
कृतयन्त्रणभक्ति विघातकृताम् ॥ ६ ॥

न कृतां तत एष बिभेमि हर
प्रहराशु ममाघममोघमते ।
नमतान्तरमन्यदवैमि शिवं
शिवपादनतेः प्रणतोऽस्मिततः ॥ ७ ॥

विततेत्र जगत्यखिलाघहर
हरतोषणमेव परङ्गुणवत् ।
गुणहीनमहीनमहावलयं
लयपावकमीशनतोस्मि ततः ॥ ८ ॥

इति स्तुत्वा महादेवं विररामाङ्गिरस्सुतः ।
व्यतरच्च महादेवस्स्तुत्या तुष्टो वरान्बहून् ॥ ९ ॥

श्रीमहादेव उवाच –
बृहता तपसानेन बृहतां पतिरस्यहो ।
नाम्ना बृहस्पतिरिति ग्रहेष्वर्च्यो भव द्विज ॥ १० ॥

अस्माल्लिङ्गार्चनान्नित्यं जीवभूतोसि मे यतः ।
अतोजीव इति ख्यातिं त्रिषु लोकेषु यास्यसि ॥ ११ ॥

वाचां प्रपञ्चैश्चतुरैर्निष्प्रपञ्चं यतस्स्तुतः ।
अतो वाचां प्रपञ्चस्य पतिर्वाचस्पतिर्भव ॥ १२ ॥

अस्य स्तोत्रस्य पठनादवातिष्ठति यः पुमान् ।
तस्य स्यात्संस्कृता वाणी त्रिभिर्वर्षै-स्त्रिकालतः ॥ १३ ॥

इति श्री देवाचार्य कृत शिव स्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed