Sri Sudarshana Kavacham 1 (Bhrigu Samhita) – श्री सुदर्शन कवचम् – १ (भृगुसंहिते)


प्रसीद भगवन् ब्रह्मन् सर्वमन्त्रज्ञ नारद ।
सौदर्शनं तु कवचं पवित्रं ब्रूहि तत्वतः ॥ १ ॥

नारद उवाच ।
शृणुष्वेह द्विजश्रेष्ठ पवित्रं परमाद्भुतम् ।
सौदर्शनं तु कवचं दृष्टाऽदृष्टार्थसाधकम् ॥ २ ॥

कवचस्यास्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुप् तथा स्मृतम् ।
सुदर्शनमहाविष्णुर्देवता सम्प्रचक्षते ॥ ३ ॥

ह्रां बीजं शक्तिरत्रोक्ता ह्रीं क्रों कीलकमिष्यते ।
शिरः सुदर्शनः पातु ललाटं चक्रनायकः ॥ ४ ॥

घ्राणं पातु महादैत्यरिपुरव्याद्दृशौ मम ।
सहस्रारः शृतिं पातु कपोलं देववल्लभः ॥ ५ ॥

विश्वात्मा पातु मे वक्त्रं जिह्वां विद्यामयो हरिः ।
कण्ठं पातु महाज्वालः स्कन्धौ दिव्यायुधेश्वरः ॥ ६ ॥

भुजौ मे पातु विजयी करौ कैटभनाशनः ।
षट्कोणसंस्थितः पातु हृदयं धाम मामकम् ॥ ७ ॥

मध्यं पातु महावीर्यः त्रिनेत्रो नाभिमण्डलम् ।
सर्वयुधमयः पातु कटिं श्रोणिं महाद्युतिः ॥ ८ ॥

सोमसूर्याग्निनयनः ऊरू पातु च मामकौ ।
गुह्यं पातु महामायो जानुनी तु जगत्पतिः ॥ ९ ॥

जङ्घे पातु ममाजस्रं अहिर्बुध्न्यः सुपूजितः ।
गुल्फौ पातु विशुद्धात्मा पादौ परपुरञ्जयः ॥ १० ॥

सकलायुधसम्पूर्णो निखिलाङ्गं सुदर्शनः ।
य इदं कवचं दिव्यं परमानन्ददायिनम् ॥ ११ ॥

सौदर्शनमिदं यो वै सदा शुद्धः पठेन्नरः ।
तस्यार्थसिद्धिर्विपुला करस्था भवति ध्रुवम् ॥ १२ ॥

कूश्माण्डचण्डभूताद्याः ये च दुष्टा ग्रहाः स्मृताः ।
पलायन्तेऽनिशं भीताः वर्मणोऽस्य प्रभावतः ॥ १३ ॥

कुष्टापस्मारगुल्माद्याः व्याधयः कर्महेतुकाः ।
नश्यन्त्येतन्मन्त्रिताम्बुपानात् सप्तदिनावधि ॥ १४ ॥

अनेन मन्त्रितां मृत्स्नां तुलसीमूलसंस्थिताम् ।
ललाटे तिलकं कृत्वा मोहयेत् त्रिजगन्नरः ।
वर्मणोऽस्य प्रभावेन सर्वान्कामानवाप्नुयात् ॥ १५ ॥

इति श्रीभृगुसंहिते श्री सुदर्शन कवचम् ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed