Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीपादः पातु मे पादौ ऊरू सिद्धासनस्थितः ।
पायाद्दिगम्बरो गुह्यं नृहरिः पातु मे कटिम् ॥ १ ॥
नाभिं पातु जगत्स्रष्टोदरं पातु दलोदरः ।
कृपालुः पातु हृदयं षड्भुजः पातु मे भुजौ ॥ २ ॥
स्रक्कुण्डी शूलडमरुशङ्खचक्रधरः करान् ।
पातु कण्ठं कम्बुकण्ठः सुमुखः पातु मे मुखम् ॥ ३ ॥
जिह्वां मे वेदवाक्पातु नेत्रं मे पातु दिव्यदृक् ।
नासिकां पातु गन्धात्मा पातु पुण्यश्रवाः श्रुती ॥ ४ ॥
ललाटं पातु हंसात्मा शिरः पातु जटाधरः ।
कर्मेन्द्रियाणि पात्वीशः पातु ज्ञानेन्द्रियाण्यजः ॥ ५ ॥
सर्वान्तरोन्तःकरणं प्राणान्मे पातु योगिराट् ।
उपरिष्टादधस्ताच्च पृष्ठतः पार्श्वतोऽग्रतः ॥ ६ ॥
अन्तर्बहिश्च मां नित्यं नानारूपधरोऽवतु ।
वर्जितं कवचेनान्यात् स्थानं मे दिव्यदर्शनः ॥ ७ ॥
राजतः शत्रुतो हिंसात् दुष्प्रयोगादितो मतः ।
आधिव्याधिभयार्तिभ्यो दत्तात्रेयः सदाऽवतु ॥ ८ ॥
धनधान्यगृहक्षेत्रस्त्रीपुत्रपशुकिङ्करान् ।
ज्ञातींश्च पातु मे नित्यमनसूयानन्दवर्धनः ॥ ९ ॥
बालोन्मत्त पिशाचाभो द्युनिट् सन्धिषु पातु माम् ।
भूतभौतिकमृत्युभ्यो हरिः पातु दिगम्बरः ॥ १० ॥
य एतद्दत्तकवचं सन्नह्यात् भक्तिभावितः ।
सर्वानर्थविनिर्मुक्तो ग्रहपीडाविवर्जितः ॥ ११ ॥
भूतप्रेतपिशाचाद्यैः देवैरप्यपराजितः ।
भुक्त्वात्र दिव्यान् भोगान् सः देहाऽन्ते तत्पदं व्रजेत् ॥ १२ ॥
इति श्रीवासुदेवानन्दसरस्वती विरचितं श्री दत्तात्रेय कवचम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.