Sri Vallabha Bhavashtakam 2 – श्री वल्लभभावाष्टकम् २



तरेयुस्संसारं कथमगतपारं सुरजनाः
कथं भावात्मानं हरिमनुसरेयुश्च सरसाः ।
कथं वा माहात्म्यं निजहृदि नयेयुर्व्रजभुवां
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ १ ॥

श्रयेयुस्सन्मार्गं कथमनुभवेयुस्सुखकरं
कथं वा सर्वस्वं निजमहह कुर्युश्च सफलं ।
त्यजेयुः कर्मादेः फलमपि कथं दुःखसहिताः
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ २ ॥

वदेयुस्सद्वादं कथमपहरेयुश्च कुमतिं
कथं वा सद्बुद्धिं भगवति विदध्युः कृतिधियः ।
कथं लोकास्तापं सपदि शमयेयुश्शमयुता
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ३ ॥

व्रजेयुर्विश्वासं परमफलनिस्साधनपथे
कथं वेदालोकाज्जगति विचरेयुर्गतभयाः ।
कथं लीलास्सर्वास्सदसि कथयेयुः प्रमुदिता
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ४ ॥

स्मरेयुस्सद्भावं कथमखिललीलामुतविभो
रसं तत्वं रूपे कथमपि च जानीयुरखिलाः ।
कथं वा गायेयुर्गण गणमिहा लौकिकरसा
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ५ ॥

पठेयुः श्रीकृष्णोदितमथपुराणं नियमिताः
कथं तस्याप्यर्थं निजहृदिधरेयुर्धृतियुताः ।
कथं वा गोपीशं सदयमुपजेपुः फलतया
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ६ ॥

वहेयुस्स्वं धर्मं कथमितरसम्बन्धरहितं
सहेयुः पारुष्यं कथमसुरसम्बन्धिवचसां ।
दहेयुस्स्वान्दोषान् कथमिह विना साधनबलं
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ७ ॥

जयेयुर्दुर्जेयान् दनुजमनुजातानपि कथं
कथं वा मार्गीयं फलमुपदिशेयुश्च परमं ।
कथं वैगच्छेयुश्शरणमतिभावेन सततं
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ८ ॥

इति श्रीहरिरायाचार्य विरचितं श्रीवल्लभभावाष्टकम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed