Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
तरेयुस्संसारं कथमगतपारं सुरजनाः
कथं भावात्मानं हरिमनुसरेयुश्च सरसाः ।
कथं वा माहात्म्यं निजहृदि नयेयुर्व्रजभुवां
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ १ ॥
श्रयेयुस्सन्मार्गं कथमनुभवेयुस्सुखकरं
कथं वा सर्वस्वं निजमहह कुर्युश्च सफलं ।
त्यजेयुः कर्मादेः फलमपि कथं दुःखसहिताः
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ २ ॥
वदेयुस्सद्वादं कथमपहरेयुश्च कुमतिं
कथं वा सद्बुद्धिं भगवति विदध्युः कृतिधियः ।
कथं लोकास्तापं सपदि शमयेयुश्शमयुता
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ३ ॥
व्रजेयुर्विश्वासं परमफलनिस्साधनपथे
कथं वेदालोकाज्जगति विचरेयुर्गतभयाः ।
कथं लीलास्सर्वास्सदसि कथयेयुः प्रमुदिता
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ४ ॥
स्मरेयुस्सद्भावं कथमखिललीलामुतविभो
रसं तत्वं रूपे कथमपि च जानीयुरखिलाः ।
कथं वा गायेयुर्गण गणमिहा लौकिकरसा
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ५ ॥
पठेयुः श्रीकृष्णोदितमथपुराणं नियमिताः
कथं तस्याप्यर्थं निजहृदिधरेयुर्धृतियुताः ।
कथं वा गोपीशं सदयमुपजेपुः फलतया
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ६ ॥
वहेयुस्स्वं धर्मं कथमितरसम्बन्धरहितं
सहेयुः पारुष्यं कथमसुरसम्बन्धिवचसां ।
दहेयुस्स्वान्दोषान् कथमिह विना साधनबलं
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ७ ॥
जयेयुर्दुर्जेयान् दनुजमनुजातानपि कथं
कथं वा मार्गीयं फलमुपदिशेयुश्च परमं ।
कथं वैगच्छेयुश्शरणमतिभावेन सततं
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ८ ॥
इति श्रीहरिरायाचार्य विरचितं श्रीवल्लभभावाष्टकम् ।
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.