Ayodhya Kanda Sarga 58 – अयोध्याकाण्ड अष्टपञ्चाशः सर्गः (५८)


॥ रामसन्देशाख्यानम् ॥

प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः ।
अथाऽऽजुहाव तं सूतं रामवृत्तान्तकारणात् ॥ १ ॥

तदा सूतो महाराजं कृताञ्जलिरुपस्थितः।
राममेवानुशोचन्तं दुःखशोकसमन्वितम् ॥ २ ॥

वृद्धं परम सन्तप्तं नवग्रहमिव द्विपम् ।
विनिःश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम् ॥ ३ ॥

राजा तु रजसा धूतं ध्वस्ताङ्गं समुपस्थितम् ।
अश्रुपूर्णमुखं दीनमुवाच परमार्तवत् ॥ ४ ॥

क्व नु वत्स्यति धर्मात्मा वृक्ष मूलमुपाश्रितः ।
सोऽत्यन्तसुखितः सूत किमशिष्यति राघवः ॥ ५ ॥

दुःखस्यानुचितो दुःखं सुमन्त्र शयनोचितः ।
भूमिपालात्मजो भूमौ शेते कथमनाथवत् ॥ ६ ॥

यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः ।
स वत्स्यति कथं रामः विजनं वनमाश्रितः ॥ ७ ॥

व्यालैः मृगैः आचरितं कृष्णसर्पनिषेवितम् ।
कथं कुमारौ वैदेह्या सार्धं वनमुपस्थितौ ॥ ८ ॥

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।
राजपुत्रौ कथं पादैः अवरुह्य रथाद्गतौ ॥ ९ ॥

सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ ।
वनान्तं प्रविशन्तौ तौ अश्विनाविव मन्दरम् ॥ १० ॥

किमुवाच वचो रामः किमुवाच च लक्ष्मणः ।
सुमन्त्र वनमासाद्य किमुवाच च मैथिली ॥ ११ ॥

आसितं शयितं भुक्तं सूत रामस्य कीर्तय ।
जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥ १२ ॥

इति सूतो नरेन्द्रेण चोदितः सज्जमानया ।
उवाच वाचा राजानं सबाष्पपरिरब्धया ॥ १३ ॥

अब्रवीन्मां महाराज धर्ममेवानुपालयन् ।
अञ्जलिं राघवः कृत्वा शिरसाऽभिप्रणम्य च ॥ १४ ॥

सूत मद्वचनात्तस्य तातस्य विदितात्मनः ।
शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥ १५ ॥

सर्वमन्तः पुरं वाच्यं सूत मद्वचनात्त्वया ।
आरोग्यमविशेषेण यथाऽर्हं चाभिवादनम् ॥ १६ ॥

माता च मम कौसल्या कुशलं चाभिवादनम् ।
अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं वचः ॥ १७ ॥

धर्मनित्या यथाकालमग्न्यगारपरा भव ।
देवि देवस्य पादौ च देववत् परिपालय ॥ १८ ॥

अभिमानं च मानं च त्यक्त्वा वर्तस्व मातृषु ।
अनुराजानमार्यां च कैकेयीमम्ब कारय ॥ १९ ॥

कुमारे भरते वृत्तिर्वर्तितव्या च राजवत् ।
अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥ २० ॥

भरतः कुशलं वाच्यः वाच्यो मद्वचनेन च ।
सर्वास्वैव यथान्यायं वृत्तिं वर्तस्व मातृषु ॥ २१ ॥

वक्तव्यश्च महाबाहुरिक्ष्वाकु कुलनन्दनः ।
पितरं यौवराज्यस्थो राज्यस्थमनुपालय ॥ २२ ॥

अतिक्रान्तवया राजा मास्मैनं व्यवरोरुधः ।
कुमारराज्ये जीवत्वं तस्यैवाज्ञाप्रवर्तनात् ॥ २३ ॥

अब्रवीच्चापि मां भूयो भृशमश्रूणि वर्तयन् ।
मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥ २४ ॥

इत्येवं मां महाराज बृवन्नेव महायशाः ।
रामः राजीव ताम्राक्षो भृशमश्रूण्यवर्तयत् ॥ २५ ॥

लक्ष्मणस्तु सुसङ्क्रुद्धो निश्श्वसन् वाक्यमब्रवीत् ।
केनायमपराधेन राजपुत्रः विवासितः ॥ २६ ॥

राज्ञा तु खलु कैकेय्या लघुत्वाश्रित्य शासनम् ।
कृतं कार्यमकार्यं वा वयं येनाभिपीडिताः ॥ २७ ॥

यदि प्रव्राजितः रामः लोभकारणकारितम् ।
वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ॥ २८ ॥

इदं तावद्यथाकाममीश्वरस्य कृते कृतम् ।
रामस्य तु परित्यागे न हेतुमुपलक्षये ॥ २९ ॥

असमीक्ष्य समारब्धं विरुद्धं बुद्धि लाघवात् ।
जनयिष्यति सङ्क्रोशं राघवस्य विवासनम् ॥ ३० ॥

अहं तावन् महाराजे पितृत्वं नोपलक्षये ।
भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ॥ ३१ ॥

सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् ।
सर्वलोकोऽनुरज्येत कथं त्वाऽनेन कर्मणा ॥ ३२ ॥

सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्मिकम् ।
सर्वलोकं विरुध्येमं कथं राजा भविष्यसि ॥ ३३ ॥

जानकी तु महाराज निःश्वसन्ती मनस्विनी ।
भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता ॥ ३४ ॥

अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी ।
तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत् ॥ ३५ ॥

उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता ।
मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ॥ ३६ ॥

तथैव रामोऽश्रु मुखः कृताञ्जलिः
स्थितोऽभवल्लक्ष्मणबाहु पालितः ।
तथैव सीता रुदती तपस्विनी
निरीक्षते राजरथं तथैव माम् ॥ ३७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥

अयोध्याकाण्ड एकोनषष्ठितमः सर्गः (५९) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed
%d bloggers like this: