Tripura Sundari Pancharatna Stotram – श्री त्रिपुरसुन्दरी पञ्चरत्न स्तोत्रम्


नीलालकां शशिमुखीं नवपल्लवोष्ठीं
चाम्पेयपुष्पसुषमोज्ज्वलदिव्यनासाम् ।
पद्मेक्षणां मुकुरसुन्दरगण्डभागां
त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ १ ॥

श्रीकुन्दकुड्मलशिखोज्ज्वलदन्तबृन्द-
-मन्दस्मितद्युतितिरोहितचारुवाणीम् ।
नानामणिस्थगितहारसुचारुकण्ठीं
त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ २ ॥

पीनस्तनीं घनभुजां विपुलाब्जहस्तां
भृङ्गावलीजितसुशोभितरोमराजिम् ।
मत्तेभकुम्भकुचभारसुनम्रमध्यां
त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ ३ ॥

रम्भोज्ज्वलोरुयुगलां मृगराजपत्रा-
-मिन्द्रादिदेवमकुटोज्ज्वलपादपद्माम् ।
हेमाम्बरां घनघृताञ्चितखड्गवल्लीं
त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ ४ ॥

मत्तेभवक्त्रजननीं मृडदेहयुक्तां
शैलाग्रमध्यनिलयां वरसुन्दराङ्गीम् ।
कोटीश्वराख्यहृदिसंस्थितपादपद्मां
त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ ५ ॥

बाले त्वत्पादयुगलं ध्यात्वा सम्प्रति निर्मितम् ।
नवीनं पञ्चरत्नं च धार्यतां चरणद्वये ॥ ६ ॥

इति श्री त्रिपुरसुन्दरी पञ्चरत्न स्तोत्रम् ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed