Maha Tripura Sundari Shatkam – श्री महात्रिपुरसुन्दरी षट्कम्


मनोज्ञमणिकुण्डलां महितचक्रराजालयां
मनोऽम्बुजविहारिणीं परशिवस्य वामाङ्कगाम् ।
महाहरिमुखामरप्रणतपादपङ्केरुहां
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ १ ॥

मतङ्गमुनिपूजितां मथितपापसङ्घां जवा-
-न्मदारुणितलोचनां मदमुखारिनिर्वापिणीम् ।
मनःसु यमिनां सदा स्थितिविहारिणीं मोदतो
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ २ ॥

विचित्रकविताप्रदां नतततेर्विलम्बं विना
विधीन्द्रहरिवन्दितां विधिनिषेधसक्तार्चिताम् ।
विनायकविभावसूद्भवविभासिपार्श्वद्वयां
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ३ ॥

विनिन्दितविभावरीविटसहस्रगर्वाननां
विनिर्मितजगत्त्रयीं विधुसमानमन्दस्मिताम् ।
विबोधनपटीयसीं विनतसन्ततेः सत्वरं
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ४ ॥

विमानचरमानिनीविहितपादसेवां मुदा
विशालनयनाम्बुजां विधृतचापपाशाङ्कुशाम् ।
विशुद्धिसरसीरुहे कृतनिजासनां सर्वदा
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ५ ॥

विरागिजनसेवितां विमलबुद्धिसन्दायिनीं
विराधरिपुपूजितां विविधरत्नभूषोज्ज्वलाम् ।
विरिञ्चिहरिसुन्दरीकलितचामरावीजनां
महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ६ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह भारतीस्वामिभिः विरचितं श्री महात्रिपुरसुन्दरी षट्कम् ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed