Sri Vishnu Stavaraja 1 (Kalki Purane) – श्री विष्णु स्तवराजः – १ (कल्किपुराणे)



पद्मोवाच ।
योगेन सिद्धविबुधैः परिभाव्यमानं
लक्ष्म्यालयं तुलसिकाचितभक्तभृङ्गम् ।
प्रोत्तुङ्गरक्तनखराङ्गुलिपत्रचित्रं
गङ्गारसं हरिपदाम्बुजमाश्रयेऽहम् ॥ १ ॥

गुम्फन्मणिप्रचयघट्‍टितराजहंस-
-सिञ्जत्सुनूपुरयुतं पदपद्मवृन्दम् ।
पीताम्बराञ्चलविलोलचलत्पताकं
स्वर्णत्रिवक्रवलयं च हरेः स्मरामि ॥ २ ॥

जङ्घे सुपर्णगलनीलमणिप्रवृद्धे
शोभास्पदारुणमणिद्युतिचुञ्चुमध्ये ।
आरक्तपादतललम्बनशोभमाने
लोकेक्षणोत्सवकरे च हरेः स्मरामि ॥ ३ ॥

ते जानुनी मखपतेर्भुजमूलसङ्ग-
-रङ्गोत्सवावृततटिद्वसने विचित्रे ।
चञ्चत्पतत्रिमुखनिर्गतसामगीत-
-विस्तारितात्मयशसी च हरेः स्मरामि ॥ ४ ॥

विष्णोः कटिं विधिकृतान्तमनोजभूमिं
जीवाण्डकोशगणसङ्गदुकूलमध्याम् ।
नानागुणप्रकृतिपीतविचित्रवस्त्रां
ध्याये निबद्धवसनां खगपृष्ठसंस्थाम् ॥ ५ ॥

शातोदरं भगवतस्त्रिवलिप्रकाश-
-मावर्तनाभिविकसद्विधिजन्मपद्मम् ।
नाडीनदीगणरसोत्थसितान्त्रसिन्धुं
ध्यायेऽण्डकोशनिलयं तनुलोमरेखम् ॥ ६ ॥

वक्षः पयोधितनयाकुचकुङ्कुमेन
हारेण कौस्तुभमणिप्रभया विभातम् ।
श्रीवत्सलक्ष्म हरिचन्दनजप्रसून-
-मालोचितं भगवतः सुभगं स्मरामि ॥ ७ ॥

बाहू सुवेषसदनौ वलयाङ्गदादि-
-शोभास्पदौ दुरितदैत्यविनाशदक्षौ ।
तौ दक्षिणौ भगवतश्च गदासुनाभ-
-तेजोर्जितौ सुललितौ मनसा स्मरामि ॥ ८ ॥

वामौ भुजौ मुररिपोर्धृतपद्मशङ्खौ
श्यामौ करीन्द्रकरवन्मणिभूषणाढ्यौ ।
रक्ताङ्गुलिप्रचयचुम्बितजानुमध्यौ
पद्मालयाप्रियकरौ रुचिरौ स्मरामि ॥ ९ ॥

कण्ठं मृणालममलं मुखपङ्कजस्य
लेखात्रयेण वनमालिकया निवीतम् ।
किं वा विमुक्तिवशमन्त्रकसत्फलस्य
वृन्तं चिरं भगवतः सुभगं स्मरामि ॥ १० ॥

वक्त्राम्बुजं दशनहासविकासरम्यं
रक्ताधरोष्ठवरकोमलवाक्सुधाढ्यम् ।
सन्मानसोद्भवचलेक्षणपत्रचित्रं
लोकाभिरामममलं च हरेः स्मरामि ॥ ११ ॥

सूरात्मजावसथगन्धमिदं सुनासं
भ्रूपल्लवं स्थितिलयोदयकर्मदक्षम् ।
कामोत्सवं च कमलाहृदयप्रकाशं
सञ्चिन्तयामि हरिवक्त्रविलासदक्षम् ॥ १२ ॥

कर्णौ लसन्मकरकुण्डलगण्डलोलौ
नानादिशां च नभसश्च विकासगेहम् ।
लोलालकप्रचयचुम्बनकुञ्चिताग्रौ
लग्नौ हरेर्मणिकिरीटतटे स्मरामि ॥ १३ ॥

भालं विचित्रतिलकं प्रियचारुगन्धं
गोरोचनारचनया ललनाक्षिसख्यम् ।
ब्रह्मैकधाममणिकान्तकिरीटजुष्टं
ध्याये मनोनयनहारकमीश्वरस्य ॥ १४ ॥

श्रीवासुदेवचिकुरं कुटिलं निबद्धं
नानासुगन्धिकुसुमैः स्वजनादरेण ।
दीर्घं रमाहृदयगाशमनं धुनन्तं
ध्यायेऽम्बुवाहरुचिरं हृदयाब्जमध्ये ॥ १५ ॥

मेघाकारं सोमसूर्यप्रकाशं
सुभ्रून्नासं शक्रचापैकमानम् ।
लोकातीतं पुण्डरीकायताक्षं
विद्युच्चैलं चाश्रयेऽहं त्वपूर्वम् ॥ १६ ॥

दीनं हीनं सेवया दैवगत्या
पापैस्तापैः पूरितं मे शरीरम् ।
लोभाक्रान्तं शोकमोहादिविद्धं
कृपादृष्ट्या पाहि मां वासुदेव ॥ १७ ॥

ये भक्त्याऽद्यां ध्यायमानां मनोज्ञां
व्यक्तिं विष्णोः षोडशश्लोकपुष्पैः ।
स्तुत्वा नत्वा पूजयित्वा विधिज्ञाः
शुद्धा मुक्ता ब्रह्मसौख्यं प्रयान्ति ॥ १८ ॥

पद्मेरितमिदं पुण्यं शिवेन परिभाषितम् ।
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं परम् ॥ १९ ॥

पठन्ति ये महाभागास्ते मुच्यन्तेऽहसोऽखिलात् ।
धर्मार्थकाममोक्षाणां परत्रेह फलप्रदम् ॥ २० ॥

इति श्रीकल्किपुराणे पद्मकृत श्री विष्णु स्तवराजः ॥


इतर श्री विष्णु स्तोत्राणि पश्यतु |


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed