Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अयोध्यापुरनेतारं मिथिलापुरनायिकाम् ।
राघवाणामलङ्कारं वैदेहानामलङ्क्रियाम् ॥ १ ॥
रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।
सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥ २ ॥
पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः ।
वसिष्ठानुमताचारं शतानन्दमतानुगाम् ॥ ३ ॥
कौसल्यागर्भसम्भूतं वेदिगर्भोदितां स्वयम् ।
पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥ ४ ॥
चन्द्रकान्ताननाम्भोजं चन्द्रबिम्बोपमाननाम् ।
मत्तमातङ्गगमनं मत्तहंसवधूगताम् ॥ ५ ॥
चन्दनार्द्रभुजामध्यं कुङ्कुमार्द्रकुचस्थलीम् ।
चापालङ्कृतहस्ताब्जं पद्मालङ्कृतपाणिकाम् ॥ ६ ॥
शरणागतगोप्तारं प्रणिपादप्रसादिकाम् ।
कालमेघनिभं रामं कार्तस्वरसमप्रभाम् ॥ ७ ॥
दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् ।
अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकाङ्क्षिणौ ॥ ८ ॥
अन्योन्यसदृशाकारौ त्रैलोक्यगृहदम्पती ।
इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥ ९ ॥
अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः ।
तस्य तौ तनुतां पुण्याः सम्पदः सकलार्थदाः ॥ १० ॥
एवं श्रीरामचन्द्रस्य जानक्याश्च विशेषतः ।
कृतं हनुमता पुण्यं स्तोत्रम् सद्यो विमुक्तिदम् ।
यः पठेत्प्रातरुत्थाय सर्वान् कामानवाप्नुयात् ॥ ११ ॥
इति हनुमत्कृत सीताराम स्तोत्रम् ।
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.