Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
चन्द्रस्य शृणु नामानि शुभदानि महीपते ।
यानि शृत्वा नरो दुःखान्मुच्यते नात्र संशयः ॥ १ ॥
सुधाकरो विधुः सोमो ग्लौरब्जः कुमुदप्रियः ।
लोकप्रियः शुभ्रभानुश्चन्द्रमा रोहिणीपतिः ॥ २ ॥
शशी हिमकरो राजा द्विजराजो निशाकरः ।
आत्रेय इन्दुः शीतांशुरोषधीषः कलानिधिः ॥ ३ ॥
जैवातृको रमाभ्राता क्षीरोदार्णवसम्भवः ।
नक्षत्रनायकः शम्भुश्शिरश्चूडामणिर्विभुः ॥ ४ ॥
तापहर्ता नभोदीपो नामान्येतानि यः पठेत् ।
प्रत्यहं भक्तिसम्युक्तस्तस्य पीडा विनश्यति ॥ ५ ॥
तद्दिने च पठेद्यस्तु लभेत्सर्वं समीहितम् ।
ग्रहादीनां च सर्वेषां भवेच्चन्द्रबलं सदा ॥ ६ ॥
इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.