Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् ।
श्वेताम्बरान्विततनुं वरशुभ्रवर्णम् ।
श्वेताश्वयुक्तरथगं सुरसेविताङ्घ्रिम् ॥
दोर्भ्यां धृताभयवरं वरदं सुधांशुम् ।
श्रीवत्समौक्तिकधरं प्रणमामि नित्यम् ॥
वासुदेवस्य नयनं शङ्करस्य विभूषणम् ।
श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम् ॥
श्वेतच्छत्रधरं वन्दे सर्वाभरणभूषितम् ।
आग्नेयभागे सरथो दशाश्वश्चात्रेयजो यामुनदेशगश्च ।
प्रत्यङ्मुखस्थश्चतुरश्रपीठे गदाधरोनो वतु रोहिणीशः ॥
चन्द्रं नमामि वरदं शङ्करस्य विभूषणम् ।
कलानिधिं कान्तिरूपं केयूरमकुटोज्ज्वलम् ॥
वरदं वन्द्यचरणं वासुदेवस्य लोचनम् ।
सर्वलोकासेचनकं चन्द्रं तं प्रणतोस्म्यहम् ॥
सर्वञ्जगज्जीवयति सुधारसमयैः करैः ।
सोम देहि ममारोग्यं सुधापूरितमण्डल ।
राजा त्वं ब्राह्मणानां च रमाया अपि सोदरः ।
ओषधीनां चाऽधिपतिः रक्षमां रजनीपते ॥
कल्याणमूर्ते वरद करुणारसवारिधे ।
कलशोदधिसञ्जातकलानाथ कृपां कुरु ॥
क्षीरार्णवसमुद्भूत चिन्तामणि सहोद्भव ।
कामितार्थान् प्रदेहि त्वं कल्पद्रुम सहोदर ॥
श्वेताम्बरः श्वेतविभूषणाढ्यः ।
गदाधरः श्वेतरुचिर्द्विबाहुः ॥
चन्द्रः सुधात्मा वरदः किरीटी ।
श्रेयांसि मह्यं प्रददातु देवः ॥
क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् ।
सर्वसम्पदमाप्नोति स्तोत्रपाठान्नसंशयः ॥
इदं निशाकरस्तोत्रम् यः पठेत्सततं नरः ।
उपद्रवात्समुच्येत नात्रकार्या विचारणा ॥
इतर नवग्रह स्तोत्राणि पश्यतु ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.