Sri Shani Ashtottara Shatanama Stotram 2 – श्री शनि अष्टोत्तरशतनाम स्तोत्रम् २


सौरिः शनैश्चरः कृष्णो नीलोत्पलनिभः शनिः ।
शुष्कोदरो विशालाक्षो दुर्निरीक्ष्यो विभीषणः ॥ १ ॥

शितिकण्ठनिभो नीलश्छायाहृदयनन्दनः ।
कालदृष्टिः कोटराक्षः स्थूलरोमावलीमुखः ॥ २ ॥

दीर्घो निर्मांसगात्रस्तु शुष्को घोरो भयानकः ।
नीलांशुः क्रोधनो रौद्रो दीर्घश्मश्रुर्जटाधरः ॥ ३ ॥

मन्दो मन्दगतिः खञ्जोऽतृप्तः संवर्तको यमः ।
ग्रहराजः कराली च सूर्यपुत्रो रविः शशी ॥ ४ ॥

कुजो बुधो गुरुः काव्यो भानुजः सिंहिकासुतः ।
केतुर्देवपतिर्बाहुः कृतान्तो नैरृतस्तथा ॥ ५ ॥

शशी मरुत् कुबेरश्च ईशानः सुर आत्मभूः ।
विष्णुर्हरो गणपतिः कुमारः काम ईश्वरः ॥ ६ ॥

कर्ता हर्ता पालयिता राज्येशो राज्यदायकः ।
छायासुतः श्यामलाङ्गो धनहर्ता धनप्रदः ॥ ७ ॥

क्रूरकर्मविधाता च सर्वकर्मावरोधकः ।
तुष्टो रुष्टः कामरूपः कामदो रविनन्दनः ॥ ८ ॥

ग्रहपीडाहरः शान्तो नक्षत्रेशो ग्रहेश्वरः ।
स्थिरासनः स्थिरगतिर्महाकायो महाबलः ॥ ९ ॥

महाप्रभो महाकालः कालात्मा कालकालकः ।
आदित्यभयदाता च मृत्युरादित्यनन्दनः ॥ १० ॥

शतभिद्रुक्षदयिता त्रयोदशीतिथिप्रियः ।
तिथ्यात्मकस्तिथिगणो नक्षत्रगणनायकः ॥ ११ ॥

योगराशिर्मुहूर्तात्मा कर्ता दिनपतिः प्रभुः ।
शमीपुष्पप्रियः श्यामस्त्रैलोक्यभयदायकः ॥ १२ ॥

नीलवासाः क्रियासिन्धुर्नीलाञ्जनचयच्छविः ।
सर्वरोगहरो देवः सिद्धो देवगणस्तुतः ॥ १३ ॥

अष्टोत्तरशतं नाम्नां सौरेश्छायासुतस्य यः ।
पठेन्नित्यं तस्य पीडा समस्ता नश्यति ध्रुवम् ॥ १४ ॥

इति श्रीभविष्यपुराणे श्री शनैश्चर अष्टोत्तरशतनाम स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed