Sri Saraswati Kavacham (Variation) – श्री सरस्वती कवचम् (पाठान्तरम्)


श्रीं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः ।
श्रीं वाग्देवतायै स्वाहा फालं मे सर्वदाऽवतु ॥ १ ॥

ओं ह्रीं सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम् ।
ओं श्रीं ह्रीं भगवत्यै सरस्वत्यै स्वाहा नेत्रयुग्मं सदाऽवतु ॥ २ ॥

ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वदाऽवतु ।
ओं ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा चोष्ठं सदाऽवतु ॥ ३ ॥

ओं श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपङ्क्तिं सदाऽवतु ।
ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदाऽवतु ॥ ४ ॥

ओं श्रीं ह्रीं पातु मे ग्रीवां स्कन्धौ मे श्रीं सदाऽवतु ।
ओं ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदाऽवतु ॥ ५ ॥

ओं ह्रीं विद्याधिस्वरूपायै स्वाहा मे पातु नाभिकाम् ।
ओं ह्रीं क्लीं वाण्यै स्वाहेति मम हस्तौ सदाऽवतु ॥ ६ ॥

ओं सर्ववर्णात्मिकायै स्वाहा पादयुग्मं सदाऽवतु ।
ओं वागधिष्ठातृदेव्यै स्वाहा सर्वं सदाऽवतु ॥ ७ ॥

ओं सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदाऽवतु ।
ओं सर्वजिह्वाग्रवासिन्यै स्वाहाऽग्निदिशि रक्षतु ॥ ८ ॥

ओं ऐं ह्रीं क्लीं सरस्वत्यै बुधजनन्यै स्वाहा ।
सततं मन्त्रराजोऽयं दक्षिणे मां सदाऽवतु ॥ ९ ॥

ऐं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैरृत्यां सर्वदाऽवतु ।
ओं ऐं जिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ॥ १० ॥

ओं सर्वाम्बिकायै स्वाहा वायव्ये मां सदाऽवतु ।
ओं ऐं श्रीं क्लीं गद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥ ११ ॥

ओं ऐं सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदाऽवतु ।
ओं ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदाऽवतु ॥ १२ ॥

ओं ह्रीं पुस्तकवासिन्यै स्वाहाऽधो मां सदाऽवतु ।
ओं ग्रन्थबीजस्वरूपायै स्वाहा मां सर्वतोऽवतु ॥ १३ ॥

इति श्री सरस्वती कवचम् ।


इतर श्री सरस्वती स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed