Sri Manasa Devi Stotram (Dhanvantari Krutam) – श्री मनसा देवि स्तोत्रम् (धन्वन्तरि कृतम्)


ध्यानम् ।
चारुचम्पकवर्णाभां सर्वाङ्गसुमनोहराम् ।
ईषद्धास्यप्रसन्नास्यां शोभितां सूक्ष्मवाससा ॥ १ ॥

सुचारुकबरीशोभां रत्नाभरणभूषिताम् ।
सर्वाभयप्रदां देवीं भक्तानुग्रहकारकाम् ॥ २ ॥

सर्वविद्याप्रदां शान्तां सर्वविद्याविशारदाम् ।
नागेन्द्रवाहिनीं देवीं भजे नागेश्वरीं पराम् ॥ ३ ॥

धन्वन्तरिरुवाच ।
नमः सिद्धिस्वरूपायै सिद्धिदायै नमो नमः ।
नमः कश्यपकन्यायै वरदायै नमो नमः ॥ ४ ॥

नमः शङ्करकन्यायै शङ्करायै नमो नमः ।
नमस्ते नागवाहिन्यै नागेश्वर्यै नमो नमः ॥ ५ ॥

नम आस्तीकजनन्यै जनन्यै जगतां मम ।
नमो जगत्कारणायै जरत्कारुस्त्रियै नमः ॥ ६ ॥

नमो नागभगिन्यै च योगिन्यै च नमो नमः ।
नमश्चिरं तपस्विन्यै सुखदायै नमो नमः ॥ ७ ॥

नमस्तपस्यारूपायै फलदायै नमो नमः ।
सुशीलायै च साध्व्यै च शान्तायै च नमो नमः ॥ ८ ॥

इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ।
वंशजानां नागभयं नास्ति तस्य न संशयः ॥ ९ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे एकपञ्चाशत्तमोऽध्यायः धन्वन्तरिकृत श्री मनसादेवि स्तोत्रम् ॥


इतर नागदेवता स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed