Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सुपर्णं वैनतेयं च नागारिं नागभीषणम् ।
जितान्तकं विषारिं च अजितं विश्वरूपिणम् ॥ १
गरुत्मन्तं खगश्रेष्ठं तार्क्ष्यं कश्यपनन्दनम् ।
द्वादशैतानि नामानि गरुडस्य महात्मनः ॥ २
यः पठेत् प्रातरुत्थाय स्नाने वा शयनेऽपि वा ।
विषं नाक्रामते तस्य न च हिंसन्ति हिंसकाः ॥ ३
सङ्ग्रामे व्यवहारे च विजयस्तस्य जायते ।
बन्धनान्मुक्तिमाप्नोति यात्रायां सिद्धिरेव च ॥ ४
इति श्री गरुड द्वादशनाम स्तोत्रम् ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Facebook Comments