Sri Adisesha Stavam – श्री आदिशेष स्तवम्


श्रीमद्विष्णुपदाम्भोज पीठायुत फणातलम् ।
शेषत्वैक स्वरूपं तं आदिशेषमुपास्महे ॥ १ ॥

अनन्तां दधतं शीर्षैः अनन्तशयनायितम् ।
अनन्ते च पदे भान्तं तं अनन्तमुपास्महे ॥ २ ॥

शेषे श्रियःपतिस्तस्य शेषभूतं चराचरम् ।
प्रथमोदाहृतिं तत्र श्रीमन्तं शेषमाश्रये ॥ ३ ॥

वन्दे सहस्रस्थूणाख्य श्रीमहामणिमण्डपम् ।
फणा सहस्ररत्नौघैः दीपयन्तं फणीश्वरम् ॥ ४ ॥

शेषः सिंहासनी भूत्वा छत्रयित्वा फणावलिम् ।
वीरासनेनोपविष्टे श्रीशेऽस्मिन्नधिकं बभौ ॥ ५ ॥

पर्यङ्कीकृत्य भोगं स्वं स्वपन्तं तत्र माधवम् ।
सेवमानं सहस्राक्षं नागराजमुपास्महे ॥ ६ ॥

शरदभ्ररुचिः स्वाङ्क शयित श्यामसुन्दरा ।
शेषस्य मूर्तिराभाति चैत्रपर्व शशाङ्कवत् ॥ ७ ॥

सौमित्री भूय रामस्य गुणैर्दास्यमुपागतः ।
शेषत्वानुगुणं शेषः तस्यासीन्नित्यकिङ्करः ॥ ८ ॥

अत्त्वालोकान् लयाम्बोधौ यदा शिशयिषुर्हरिः ।
वटपत्रतनुः शेषः तल्पं तस्याभवत्तदा ॥ ९ ॥

पादुकीभूत रामस्य तदाज्ञां परिपालयन् ।
पारतन्त्र्येऽति शेषे त्वं शेष तां जानकीमपि ॥ १० ॥

चिरं विहृत्य विपिने सुखं स्वपितुमिच्छतोः ।
सीताराघवयोरासेदुपधानां फणीश्वरः ॥ ११ ॥

देवकीगर्भमाविश्य हरेस्त्रातासि शेष भोः ।
सत्सन्तानार्थिनस्तस्मात् त्वत्प्रतिष्टां वितन्वते ॥ १२ ॥

गृहीत्वा स्वशिशुं याति वसुदेवे व्रजं द्रुतम् ।
वर्ष त्री भूय शेष त्वं तं रिरक्षिषुरन्वगाः ॥ १३ ॥

प्रसूनद्भिः फणारत्नैः निकुञ्जे भूय भोगिराट् ।
राधामाधवयोरासीत् सङ्केतस्थानमुत्तमम् ॥ १४ ॥

भगवच्छेषभूतैस्त्वं अशेषैः शेष गीयसे ।
आदिशेष इति श्रीमान् सार्थकं नाम ते ततः ॥ १५ ॥

अनन्तश्चास्मि नागानां इति गीतासु सन्नुतः ।
अनन्तोऽनन्तकैङ्कर्य सम्पदाप्येत्यनन्त ताम् ॥ १६ ॥

अहो विविधरोऽप्येषः शेषः श्रीपति सेवनात् ।
सहस्रशीर्ष्योऽनन्तोऽभूत् सहस्राक्षः सहस्रपात् ॥ १७ ॥

हरेः श्रीपाद चिह्नानि धत्ते शीर्षैः फणीश्वरः ।
चिह्नानि स्वामिनो दासैः धर्तव्यानिति बोधयन् ॥ १८ ॥

अनन्त सेविनः सर्वे जीर्णां त्वचमिवोरगः ।
विमुच्य विषयासक्तिं शेषत्वे कुर्वते रतिम् ॥ १९ ॥

श्री श्रीशनाय साहस्रीं युगपत्परिकीर्तयन् ।
सहस्रवदनः शेषो नूनं द्विरसनोऽभवत् ॥ २० ॥

अन्योन्य वैरमुत्सृज्य फणीश्वर खगेश्वरौ ।
शयनं वाहनं विष्णोः अभूतां त्वत्पदाश्रयौ ॥ २१ ॥

वपुः शब्दमनोदोषान्विरस्य शृतिगोचरम् ।
दर्शयन्तं परब्रह्मं तं शेषं समुपास्महे ॥ २२ ॥

शेषतल्पेन रङ्गेशः शेषाद्रौ वेङ्कटेश्वरः ।
हस्ति कालेश्वरः शेष भूषणेन विराजते ॥ २३ ॥

भवत्पादुकात्वं ते महत्त्वा पादुको गुणः ।
शिरसा धारयन्ति त्वां भक्त्या शेषयः स मे ॥ २४ ॥

भागवत शेषतायाः महत्त्वमावेदयन्नयं शेषः ।
गुरुरस्य वामपादे विष्णोर्वाहस्य वीरकटकमाभूत् ॥ २५ ॥

शेषः पीताम्बरं विष्णोः तद्विष्णुधृतमम्बरम् ।
शेषवस्त्रमिति ख्यात्या भक्त सम्मान्यतां गतम् ॥ २६ ॥

दुर्मतिं जननीं त्यक्त्वा श्रीपतिं शरणं गतः ।
तेन दत्त्वाभयोऽनन्तः तस्यासेन्नित्यकिङ्करः ॥ २७ ॥

गर्गाय मुनये ज्योतिर्विद्यां यः समुपादिशत् ।
देवर्षिगणसम्पूज्यं तं अनन्तमुपास्महे ॥ २८ ॥

वन्देऽनन्तं मुदाभान्तं रुचा श्वेतं सुरार्चितम् ।
हरिपादाब्ज शरणं तदीयास्याब्ज तोषणम् ॥ २९ ॥

श्रीमते विष्णुभक्ताय शङ्खचक्रादिधारिणे ।
वारुणी कीर्ति सहितायानन्तायास्तु मङ्गलम् ॥ ३० ॥

इमं स्तुतिं अनन्तस्य भक्त्या नित्यं पठन्ति ये ।
सर्पबाधा न तेषां स्यात् पुत्रिणः स्युः हरेः प्रियाः ॥ ३१ ॥

इति श्रीआदिशेष स्तवम् ॥

Report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed
%d bloggers like this: