Sri Krishna Stotram (Brahma Krutam) – श्री कृष्ण स्तोत्रम् (ब्रह्म कृतम्)


ब्रह्मोवाच –
रक्ष रक्ष हरे मां च निमग्नं कामसागरे ।
दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥ १ ॥

भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे ।
अतीव निर्मलज्ञानचक्षुः प्रच्छन्नकारिणे ॥ २ ॥

जन्मोर्मिसङ्गसहिते योषिन्नक्रौघसङ्कुले ।
रतिस्रोतस्समायुक्ते गम्भीरे घोर एव च ॥ ३ ॥

प्रथमामृतरूपे च परिणामविषालये ।
यमालयप्रवेशाय मुक्तिद्वारातिविस्मृतौ ॥ ४ ॥

बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतस्स्वयम् ।
स्वयं च त्वं कर्णधारः प्रसीद मधुसूदन ॥ ५ ॥

मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि ।
सन्ति विश्वेश विधयो हे विश्वेश्वर माधव ॥ ६ ॥

न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः ।
अथापि न स्पृहा कामे त्वद्भक्तिव्यवधायके ॥ ७ ॥

हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु ।
त्वं महेश महाज्ञाता दुस्स्वप्नं मां न दर्शय ॥ ८ ॥

इत्युक्त्वा जगतां धाता विरराम सनातनः ।
ध्यायं ध्यायं मत्पदाब्जं शश्वत्सस्मार मामिति ॥ ९ ॥

ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।
स चैवाकर्मविषये न निमग्नो भवेद्ध्रुवम् ॥ १० ॥

मम मायां विनिर्जित्य सुज्ञानं लभते ध्रुवम् ।
इह लोके भक्तियुक्तो मद्भक्तप्रवरो भवेत् ॥ ११ ॥

इति श्रीब्रह्मदेवकृत श्रीकृष्णस्तोत्रम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed