Sri Ketu Shodasha Nama Stotram – श्री केतु षोडशनाम स्तोत्रम्


स्कन्द उवाच ।
मृत्युपुत्रः शिखी केतुश्चानलोत्पातरूपधृक् ।
बहुरूपश्च धूम्राभः श्वेतः कृष्णश्च पीतभृत् ॥ १ ॥

छायारूपी ध्वजः पुच्छो जगत्प्रलयकृत्सदा ।
अदृष्टरूपो दृष्टश्चेज्जन्तूनां भयकारकः ॥ २ ॥

नामान्येतानि केतोश्च नित्यं यः प्रयतः पठेत् ।
केतुपीडा न तस्यास्ति सर्पचोराग्निभिर्भयम् ॥ ३ ॥

दानं दद्याद्गृहज्ञाय वैडूर्यं केतवे तदा ।
यः पठेत् प्रयतो नित्यं पक्षं पक्षार्धमेव वा ।
मुक्तः सर्वभयेभ्योपि सर्वान् कामानवाप्नुयात् ॥ ४ ॥

इति श्रीस्कन्दपूराणे श्री केतु षोडशनाम स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed