Sri Ketu Panchavimshati Nama Stotram – श्री केतु पञ्चविंशतिनाम स्तोत्रम्


केतुः कालः कलयिता धूम्रकेतुर्विवर्णकः ।
लोककेतुर्महाकेतुः सर्वकेतुर्भयप्रदः ॥ १ ॥

रौद्रो रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धधृक् ।
पलाशधूमसङ्काशश्चित्रयज्ञोपवीतधृक् ॥ २ ॥

तारागणविमर्दी च जैमिनेयो ग्रहाधिपः ।
गणेशदेवो विघ्नेशो विषरोगार्तिनाशनः ॥ ३ ॥

प्रव्रज्यादो ज्ञानदश्च तीर्थयात्राप्रवर्तकः ।
पञ्चविंशतिनामानि केतोर्यः सततं पठेत् ॥ ४ ॥

तस्य नश्यति बाधा च सर्वाः केतुप्रसादतः ।
धनधान्यपशूनां च भवेद्वृद्धिर्न संशयः ॥ ५ ॥

इति श्रीस्कन्दपुराणे श्री केतु पञ्चविंशतिनाम स्तोत्रम् ॥


इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed