Sri Dhumavathi Stotram – श्री धूमावती स्तोत्रम्


प्रातर्या स्य़ात्कुमारी कुसुमकलिकया जापमालां जपन्ती
मध्याह्ने प्रौढरूपा विकसितवदना चारुनेत्रा निशायां ।
सन्ध्यायां वृद्धरूपा गलितकुचयुगा मुण्डमालां वहन्ती
सा देवी देवदेवी त्रिभुवनजननी कालिका पातु युष्मान् ॥ १ ॥

बध्वा खट्वाङ्गखेटौ कपिलवरजटामण्डलं पद्मयोनेः
कृत्वा दैत्योत्तमाङ्गैः स्रजमुरसि शिरश्शेखरं तार्क्ष्यपक्षैः ।
पूर्णं रक्तैः सुराणां यममहिषमहाशृङ्गमादाय पाणौ
पायाद्वो वन्द्यमान प्रलय मुदितया भैरवः कालरात्र्याम् ॥ २ ॥

चर्वन्तीमस्तिखण्डं प्रकटकटकटा शब्दसङ्घात मुग्रं
कुर्वाणा प्रेतमध्ये कहह कहकहा हास्यमुग्रं कृशाङ्गी ।
नित्यं नित्यप्रसक्ता डमरुडमडिमान् स्फारयन्ती मुखाब्जं
पायान्नश्चण्डिकेयं झझमझमझमा जल्पमाना भ्रमन्ती ॥ ३ ॥

टण्टण्टण्टण्टटण्टाप्रकर टमटमानादघण्टा वहन्ती
स्फेंस्फेंस्फेंस्फार काराटकटकितहसा नादसङ्घट्टभीमा ।
लोला मुण्डाग्रमाला लल हलहलहा लोललोलाग्र वाचं
चर्वन्ती चण्डमुण्डं मटमटमटिते चर्वयन्तीपुनातु ॥ ४ ॥

वामेकर्णे मृगाङ्कप्रलयपरिगतं दक्षिणे सूर्यबिम्बं
कण्ठेनक्षत्रहारं वरविकटजटाजूटकेमुण्डमालां ।
स्कन्धे कृत्वोरगेन्द्र ध्वजनिकरयुतं ब्रह्मकङ्कालभारं
संहारे धारयन्ती मम हरतु भयं भद्रदा भद्रकाली ॥ ५ ॥

तैलाभ्यक्तैकवेणीत्रपुमयविलसत्कर्णिकाक्रान्तकर्णा
लोहेनै केन कृत्वा चरणनलिनका मात्मनः पादशोभां ।
दिग्वासारासभेन ग्रसति जगदिदं या यवाकर्णपूरा
वर्षिण्यातिप्रबद्धा ध्वजविततभुजा भासि देवि त्वमेव ॥ ६ ॥

सङ्ग्रामे हेतिकृत्यैः सरुधिरदशनैर्यद्भटानां शिरोभिः
मालामाबद्ध्यमूर्ध्नि ध्वजविततभुजा त्वं श्मशाने प्रविष्टा ।
दृष्टा भूतप्रभूतैःपृथुतरजघना बद्धनागेन्द्रकाञ्ची
शूलाग्रव्यग्रहस्ता मधुरुधिरवसा ताम्रनेत्रा निशायाम् ॥ ७ ॥

दम्ष्ट्रारौद्रे मुखेऽस्मिं स्तव विशति जगद्देवि सर्वं क्षणार्धात्
संसारस्यान्तकाले नररुधिरवसासम्प्लवे धूमधूम्रे ।
कालि कापालिकी सा शवशयनरता योगिनी योगमुद्रा
रक्तारूक्षा सभास्था मरणभयहरा त्वं शिवा चण्डघण्टा ॥ ८ ॥

धूमावत्यष्टकं पुण्यं सर्वापद्विनिवारणं ।
यःपठेत्साधको भक्त्या सिद्धिं विन्दति वाञ्छिताम् ॥ ९ ॥

महापदि महाघोरे महारोगे महारणे ।
शत्रूच्चाटे मारणादौ जन्तूनां मोहने तथा ॥ १० ॥

पठेत् स्तोत्रमिदं देवि सर्वतः सिद्धिभाग्भवेत् ।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥ ११ ॥

सिंहव्याघ्रादिकास्सर्वे स्तोत्रस्मरणमात्रतः ।
दूराद्दूरातरं यान्ति किम्पुनर्मानुषादयः ॥ १२ ॥

स्तोत्रेणानेन देवेशि किन्न सिद्ध्यति भूतले ।
सर्वशान्तिर्भवेद्देवि अन्ते निर्वाणतां व्रजेत् ॥ १३ ॥

इति ऊर्ध्वाम्नाये श्री धूमवतीस्तोत्रं सम्पूर्णम् ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed