Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(पुस्तक: यह स्तोत्र “प्रभात स्तोत्रनिधि (देवनागरी)” पुस्तकमें मुद्रित है । Click here to buy.)
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ।
ओं स॒ह॒स्र॒शी॑र्षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वश॑म्भुवम् ।
विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प॒दम् ।
वि॒श्वत॒: पर॑मं नि॒त्य॒ वि॒श्वं ना॑राय॒णग्ं ह॑रिम् ।
विश्व॑मे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति ।
पतिं॒ विश्व॑स्या॒त्मेश्व॑र॒ग्ं॒ शाश्व॑तग्ं शि॒वम॑च्युतम् ।
ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णम् ।
ना॒राय॒णः प॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः ।
ना॒राय॒णः प॑रं ब्र॒ह्म॒ त॒त्त्वं ना॑राय॒णः प॑रः ।
ना॒राय॒णः प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः ।
यच्च॑ कि॒ञ्चिज्ज॑गत्स॒र्वं॒ दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा ॥
अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒ व्या॒प्य ना॑राय॒णः स्थि॑तः ।
अन॑न्त॒मव्य॑यं क॒विग्ं स॑मु॒द्रेऽन्तं॑ वि॒श्वश॑म्भुवम् ।
प॒द्म॒को॒श प्र॑तीका॒श॒ग्ं॒ हृ॒दयं॑ चाप्य॒धोमु॑खम् ।
अधो॑ नि॒ष्ट्या वि॑तस्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति ।
ज्वा॒ल॒मा॒लाकु॑लं भा॒ती॒ वि॒श्वस्या॑यत॒नं म॑हत् ।
सन्त॑तग्ं सि॒राभि॑स्तु॒ लम्ब॑त्याकोश॒सन्नि॑भम् ।
तस्यान्ते॑ सुषि॒रग्ं सू॒क्ष्मं तस्मिन्᳚ स॒र्वं प्रति॑ष्ठितम् ।
तस्य॒ मध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः ।
सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः ।
ति॒र्य॒गू॒र्ध्वम॑धश्शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता ।
स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒मस्त॑कः ।
तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्ध्वा व्य॒वस्थि॑ता ।
नी॒लतो॑यद॑मध्य॒स्था॒ वि॒द्युल्ले॑खेव॒ भास्व॑रा ।
नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा ।
तस्या᳚: शिखा॒या म॑ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः ।
स ब्रह्म॒ स शिव॒: (स हरि॒:) सेन्द्र॒: सोऽक्ष॑रः पर॒मः स्व॒राट् ॥
यो॑ऽपां पुष्पं॒ वेद॑ ।
पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚ ।
पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
अ॒ग्निर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यो᳚ऽग्नेरा॒यत॑नं॒ वेद॑ ॥ आ॒यत॑नवान् भवति ।
आपो॒ वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
वा॒युर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै वा॒योरा॒यत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम् ॥
आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम्। आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यस्सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै सं॑वत्स॒रस्या॒यत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ ।
प्रत्ये॒व ति॑ष्ठति ॥
किं तद्विष्णोर्बलमाहुः का दीप्तिः किं परायणं
एको यद्धारयद्देवः रेजती रोदसी उभे
वाताद्विष्णोर्बलमाहुः अक्षराद्दीप्तिरुच्यते
त्रिपदाद्धारयद्देवः यद्विष्णोरेकमुत्तमम् ।
[** पाठभेदः **
आत॑नुष्व॒ प्रत॑नुष्व ।
उ॒द्धमाऽऽध॑म॒ सन्ध॑म ।
आदित्ये चन्द्र॑वर्णा॒नाम् ।
गर्भ॒माधे॑हि॒ यः पुमान्॑ ।
इ॒तस्सि॒क्तग्ं सूर्य॑गतम् ।
च॒न्द्रम॑से॒ रस॑ङ्कृधि ।
वारादञ्जन॑याग्रे॒ऽग्निम् ।
य एको॑ रुद्र॒ उच्य॑ते ॥ **]
ओं रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने᳚ ।
नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे ।
स मे॒ कामा॒न्काम॒कामा॑य॒ मह्यम्᳚ ।
का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु ।
कु॒बे॒राय॑ वैश्रव॒णाय॑ ।
म॒हा॒रा॒जाय॒ नम॑: ॥
ओं᳚ तद्ब्र॒ह्म ओं᳚ तद्वा॒युः ओं᳚ तदा॒त्मा
ओं᳚ तत्स॒त्यं ओं᳚ तत्सर्वम्᳚ ओं᳚ तत्पुरो॒र्नम॑: ।
अन्तश्चरति॑ भूते॒षु॒ गु॒हायां वि॑श्वमू॒र्तिषु ।
त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वग्ं रुद्रस्त्वं
विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः ।
त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒
ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥
ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माऽधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥
तद्विष्णो᳚: पर॒मं प॒दग्ं सदा॑ पश्यन्ति सू॒रय॑: ।
दि॒वीव॒ चक्षु॒रात॑तम् ।
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वां स॒स्समि॑न्धते ।
विष्णो॒र्यत्प॑र॒मं प॒दम् ।
ऋ॒तग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नम॑: ।
ओं ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥
म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥
[** पाठभेदः **
ओं पुरु॑षस्य विद्म सहस्रा॒क्षस्य॑ महादे॒वस्य॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
ओं तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
ओं तत्पुरु॑षाय वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि ।
तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥
ओं तत्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि ।
तन्नो॑ नन्दिः प्रचो॒दया᳚त् ॥
ओं तत्पुरु॑षाय वि॒द्महे॑ महासे॒नाय॑ धीमहि ।
तन्नः षण्मुखः प्रचो॒दया᳚त् ॥
ओं तत्पुरु॑षाय वि॒द्महे॑ सुवर्णप॒क्षाय॑ धीमहि ।
तन्नो॑ गरुडः प्रचो॒दया᳚त् ॥
ओं वे॒दा॒त्म॒नाय॑ वि॒द्महे॑ हिरण्यग॒र्भाय॑ धीमहि ।
तन्नो॑ ब्रह्म प्रचो॒दया᳚त् ॥
ओं ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥
ओं व॒ज्र॒न॒खाय॑ वि॒द्महे॑ तीक्ष्णद॒ग्ंष्ट्राय॑ धीमहि ।
तन्नो॑ नारसिग्ंहः प्रचो॒दया᳚त् ॥
ओं भा॒स्क॒राय॑ वि॒द्महे॑ महद्द्युतिक॒राय॑ धीमहि ।
तन्नो॑ आदित्यः प्रचो॒दया᳚त् ॥
ओं वै॒श्वा॒न॒राय॑ वि॒द्महे॑ लाली॒लाय धीमहि ।
तन्नो॑ अग्निः प्रचो॒दया᳚त् ॥
ओं का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि ।
तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥
स॒ह॒स्र॒पर॑मा दे॒वी॒ श॒तमू॑ला श॒ताङ्कु॑रा ।
स॒र्वग्ंहरतु॑ मे पा॒पं॒ दू॒र्वा दु॑:स्वप्न॒नाशि॑नी ॥
काण्डा᳚त् काण्डात् प्र॒रोह॑न्ती॒ परु॑षः परुष॒: परि॑ ।
ए॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च ॥
या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि ।
तस्या᳚स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ॥
अश्वक्रा॒न्ते र॑थक्रा॒न्ते॒ वि॒ष्णुक्रा᳚न्ते व॒सुन्ध॑रा ।
शिरसा॑ धार॑यिष्या॒मि॒ र॒क्ष॒स्व मां᳚ पदे॒ पदे ॥ **]
आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेव नमस्कारः केशवं प्रतिगच्छति ॥
ओं शान्तिः शान्तिः शान्तिः ॥
टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।
प्रभात स्तोत्रनिधि
( पारायण ग्रन्थम् )
इतर श्री विष्णु स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
3 thoughts on “Mantra Pushpam – मन्त्रपुष्पम्”
Leave a Reply
You must be logged in to post a comment.



Thanks for sharing this. Do you have “Om Naryah Prajame Gopaya, amrututvaya Jeevase” in Devnagri script too? I dont know what mantra it is or part of which text, unable to find it anywhere online
That verse is from Taittiriya Brahmanam 1.2.1.25. See http://www.sanskritweb.net/yajurveda/#TB
Very nice work by Stotranidhi. Is it possible to buy from you the print versions of download on payment the various publications. I am looking for the print or downloadable version of the Mantra Pushpam