Balakanda Sarga 17 – बालकाण्ड सप्तदशः सर्गः (१७)


॥ ऋक्षवानरोत्पत्तिः ॥

पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः ।
उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥ १ ॥

सत्यसन्धस्य वीरस्य सर्वेषां नो हितैषिणः ।
विष्णोः सहायान्बलिनः सृजध्वं कामरूपिणः ॥ २ ॥

मायाविदश्च शूरांश्च वायुवेगसमाञ्जवे ।
नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥ ३ ॥

असंहार्यानुपायज्ञान् सिंहसंहननान्वितान् ।
सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ॥ ४ ॥

अप्सरःसु च मुख्यासु गन्धर्वीणां तनूषु च ।
किंनरीणां च गात्रेषु वानरीणां तनूषु च ॥ ५ ॥

यक्षपन्नगकन्यासु ऋक्षिविद्याधरीषु च ।
सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥ ६ ॥

पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः ।
जृम्भमाणस्य सहसा मम वक्रादजायत ॥ ७ ॥

ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् ।
जनयामासुरेवं ते पुत्रान्वानररूपिणः ॥ ८ ॥

ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः ।
चारणाश्च सुतान्वीरान्ससृजुर्वनचारिणः ॥ ९ ॥

वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमूर्जितम् ।
सुग्रीवं जनयामास तपनस्तपतां वरः ॥ १० ॥

बृहस्पतिस्त्वजनयत्तारं नाम महाहरिम् ।
सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥ ११ ॥

धनदस्य सुतः श्रीमान्वानरो गन्धमादनः ।
विश्वकर्मा त्वजनयन्नलं नाम महाहरिम् ॥ १२ ॥

पावकस्य सुतः श्रीमान्नीलोऽग्निसदृशप्रभः ।
तेजसा यशसा वीर्यादत्यरिच्यत वानरान् ॥ १३ ॥

रूपद्रविणसम्पन्नावश्विनौ रूपसंमतौ ।
मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥ १४ ॥

वरुणो जनयामास सुषेणं नाम वानरम् ।
शरभं जनयामास पर्जन्यस्तु महाबलम् ॥ १५ ॥

मारुतस्यात्मजः श्रीमान्हनुमान्नाम वानरः ।
वज्रसंहननोपेतो वैनतेयसमो जवे ॥ १६ ॥

सर्ववानरमुख्येषु बुद्धिमान्बलवानपि ।
ते सृष्टा बहुसाहस्रा दशग्रीववधे रताः ॥ १७ ॥

अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ।
ते गजाचलसङ्काशा वपुष्मन्तो महाबलाः ॥ १८ ॥

ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ।
यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ॥ १९ ॥

अजायत समस्तेन तस्य तस्य सुतः पृथक् ।
गोलाङ्गूलीषु चोत्पन्नाः केचित्संमतविक्रमाः ॥ २० ॥

ऋक्षीषु च तथा जाता वानराः किंनरीषु च ।
देवा महर्षिगन्धर्वास्तार्क्ष्या यक्षा यशस्विनः ॥ २१ ॥

नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः ।
बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः ॥ २२ ॥

[* अधिकपाठः –
चारणाश्च सुतान् वीरान् ससृजुः वन चारिणः ।
अप्सरस्सु च मुख्यासु तथा विद्यधरीषु च ।
नागकन्यासु च तथा गन्धर्वीणां तनूषु च ।
कामरूप बलोपेता यथा कामविचारिणः ।
*]

वानरान्सुमहाकायान्सर्वान्वै वनचारिणः ।
सिंहशार्दूलसदृशा दर्पेण च बलेन च ॥ २३ ॥

शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ।
नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ॥ २४ ॥

विचालयेयुः शैलेन्द्रान्भेदयेयुः स्थिरान् द्रुमान् ।
क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ॥ २५ ॥

दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम् ।
नभस्थलं विशेयुश्च गृह्णीयुरपि तोयदान् ॥ २६ ॥

गृह्णीयुरपि मातङ्गान्मत्तान्प्रव्रजतो वने ।
नर्दमानाश्च नादेन पातयेयुर्विहङ्गमान् ॥ २७ ॥

ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् ।
शतं शतसहस्राणि यूथपानां महात्मनाम् ॥ २८ ॥

ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ।
बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन्हरीन् ॥ २९ ॥

अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः ।
अन्ये नानाविधान् शैलान्भेजिरे काननानि च ॥ ३० ॥

सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ।
भ्रातरावुपतस्थुस्ते सर्वे एव हरीश्वराः ॥ ३१ ॥

नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ।
ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः ॥ ३२ ॥

विचरन्तोऽर्दयन्दर्पात् सिंहव्याघ्रमहोरगान् ।
तांश्च सर्वान्महाबाहुर्वाली विपुलविक्रमः ॥ ३३ ॥

जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ।
तैरियं पृथिवी शूरैः सपर्वतवनार्णवा ।
कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥ ३४ ॥

तैर्मेघबृन्दाचलकूटकल्पै-
-र्महाबलैर्वानरयूथपालैः ।
बभूव भूर्भीमशरीररूपैः
समावृता रामसहायहेतोः ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तदशः सर्गः ॥ १७ ॥

बालकाण्ड अष्टादशः सर्गः (१८) >>


सम्पूर्ण वाल्मीकि रामायणे बालकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed