Sri Pratyangira Kavacham 1 (Sarvartha Sadhanam) – श्री प्रत्यङ्गिरा कवचम् – १ (सर्वार्थसाधनम्)



देव्युवाच ।
भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ।
देव्याः प्रत्यङ्गिरायाश्च कवचं यत्प्रकाशितम् ॥ १ ॥

सर्वार्थसाधनं नाम कथयस्व मयि प्रभो ।
भैरव उवाच ।
शृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ॥ २ ॥

सर्वार्थसाधनं नाम त्रैलोक्ये चाऽतिदुर्लभम् ।
सर्वसिद्धिमयं देवि सर्वैश्वर्यप्रदायकम् ॥ ३ ॥

पठनाच्छ्रवणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् ।
सर्वार्थसाधकस्याऽस्य कवचस्य ऋषिः शिवः ॥ ४ ॥

छन्दो विराट् पराशक्तिर्जगद्धात्री च देवता ।
धर्माऽर्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ५ ॥

न्यासः –
श्रीसर्वार्थसाधककवचस्य शिव ऋषये नमः शिरसि ।
विराट् छन्दसे नमः मुखे ।
श्रीमत्प्रत्यङ्गिरा देवतायै नमः हृदये ।
ऐं बीजाय नमः गुह्ये ।
ह्रीं शक्तये नमः पादौ ।
श्रीं कीलकाय नमः नाभौ ।
धर्मार्थकाममोक्षेषु विनियोगाय नमः सर्वाङ्गे ॥

कवचम् –
प्रणवं मे शिरः पातु वाग्भवं च ललाटकम् ।
ह्रीं पातु दक्षनेत्रं मे लक्ष्मीर्वाम सुरेश्वरी ॥ ६ ॥

प्रत्यङ्गिरा दक्षकर्णं वामे कामेश्वरी तथा ।
लक्ष्मीः प्राणं सदा पातु वदनं पातु केशवः ॥ ७ ॥

गौरी तु रसनां पातु कण्ठं पातु महेश्वरः ।
स्कन्धदेशं रतिः पातु भुजौ तु मकरध्वजः ॥ ८ ॥

शङ्खनिधिः करौ पातु वक्षः पद्मनिधिस्तथा ।
ब्राह्मी मध्यं सदा पातु नाभिं पातु महेश्वरी ॥ ९ ॥

कौमारी पृष्ठदेशं तु गुह्यं रक्षतु वैष्णवी ।
वाराही च कटिं पातु चैन्द्री पातु पदद्वयम् ॥ १० ॥

भार्यां रक्षतु चामुण्डा लक्ष्मी रक्षतु पुत्रकान् ।
इन्द्रः पूर्वे सदा पातु आग्नेय्यामग्निदेवता ॥ ११ ॥

याम्ये यमः सदा पातु नैरृत्यां निरृतिस्तथा ।
पश्चिमे वरुणः पातु वायव्यां वायुदेवता ॥ १२ ॥

सौम्यां सोमः सदा पातु चैशान्यामीश्वरो विभुः ।
ऊर्ध्वं प्रजापतिः पातु ह्यधश्चाऽनन्तदेवता ॥ १३ ॥

राजद्वारे श्मशाने तु अरण्ये प्रान्तरे तथा ।
जले स्थले चाऽन्तरिक्षे शत्रूणां निवहे तथा ॥ १४ ॥

एताभिः सहिता देवी चतुर्बीजा महेश्वरी ।
प्रत्यङ्गिरा महाशक्तिः सर्वत्र मां सदाऽवतु ॥ १५ ॥

फलश्रुतिः –
इति ते कथितं देवि सारात्सारं परात्परम् ।
सर्वार्थसाधनं नाम कवचं परमाद्भुतम् ॥ १६ ॥

अस्याऽपि पठनात्सद्यः कुबेरोऽपि धनेश्वरः ।
इन्द्राद्याः सकला देवाः धारणात्पठनाद्यतः ॥ १७ ॥

सर्वसिद्धीश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः ।
पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव सकृत्पठेत् ॥ १८ ॥

संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।
प्रीतिमन्येऽन्यतः कृत्वा कमला निश्चला गृहे ॥ १९ ॥

वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः ।
यो धारयति पुण्यात्मा सर्वार्थसाधनाभिधम् ॥ २० ॥

कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः ।
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ २१ ॥

पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा ।
बहुपुत्रवती भूयाद्वन्ध्याऽपि लभते सुतम् ॥ २२ ॥

ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तत्तनुम् ।
एतत्कवचमज्ञात्वा यो जपेत्परमेश्वरीम् ।
दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ॥ २३ ॥

इति श्रीरुद्रयामलतन्त्रे पञ्चाङ्गखण्डे सर्वार्थसाधनं नाम श्री प्रत्यङ्गिरा कवचम् ।


इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed