Sri Narasimha Samstuti – श्री नृसिंह संस्तुतिः


भैरवाडम्बरं बाहुदंष्ट्रायुधं
चण्डकोपं महाज्वालमेकं प्रभुम् ।
शङ्खचक्राब्जहस्तं स्मरात्सुन्दरं
ह्युग्रमत्युष्णकान्तिं भजेऽहं मुहुः ॥ १ ॥

दिव्यसिंहं महाबाहुशौर्यान्वितं
रक्तनेत्रं महादेवमाशाम्बरम् ।
रौद्रमव्यक्तरूपं च दैत्याम्बरं
वीरमादित्यभासं भजेऽहं मुहुः ॥ २ ॥

मन्दहासं महेन्द्रेन्द्रमादिस्तुतं
हर्षदं श्मश्रुवन्तं स्थिरज्ञप्तिकम् ।
विश्वपालैर्विवन्द्यं वरेण्याग्रजं
नाशिताशेषदुःखं भजेऽहं मुहुः ॥ ३ ॥

सव्यजूटं सुरेशं वनेशायिनं
घोरमर्कप्रतापं महाभद्रकम् ।
दुर्निरीक्ष्यं सहस्राक्षमुग्रप्रभं
तेजसा सञ्ज्वलन्तं भजेऽहं मुहुः ॥ ४ ॥

सिंहवक्त्रं शरीरेण लोकाकृतिं
वारणं पीडनानां समेषां गुरुम् ।
तारणं लोकसिन्धोर्नराणां परं
मुख्यमस्वप्नकानां भजेऽहं मुहुः ॥ ५ ॥

पावनं पुण्यमूर्तिं सुसेव्यं हरिं
सर्वविज्ञं भवन्तं महावक्षसम् ।
योगिनन्दं च धीरं परं विक्रमं
देवदेवं नृसिंहं भजेऽहं मुहुः ॥ ६ ॥

सर्वमन्त्रैकरूपं सुरेशं शुभं
सिद्धिदं शाश्वतं सत्त्रिलोकेश्वरम् ।
वज्रहस्तेरुहं विश्वनिर्मापकं
भीषणं भूमिपालं भजेऽहं मुहुः ॥ ७ ॥

सर्वकारुण्यमूर्तिं शरण्यं सुरं
दिव्यतेजःसमानप्रभं दैवतम् ।
स्थूलकायं महावीरमैश्वर्यदं
भद्रमाद्यन्तवासं भजेऽहं मुहुः ॥ ८ ॥

भक्तवात्सल्यपूर्णं च सङ्कर्षणं
सर्वकामेश्वरं साधुचित्तस्थितम् ।
लोकपूज्यं स्थिरं चाच्युतं चोत्तमं
मृत्युमृत्युं विशालं भजेऽहं मुहुः ॥ ९ ॥

भक्तिपूर्णां कृपाकारणां संस्तुतिं
नित्यमेकैकवारं पठन् सज्जनः ।
सर्वदाऽऽप्नोति सिद्धिं नृसिंहात् कृपां
दीर्घमायुष्यमारोग्यमप्युत्तमम् ॥ १० ॥

इति श्री नृसिंह संस्तुतिः ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed