Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दत्तात्रेयं महात्मानं वरदं भक्तवत्सलं ।
प्रपन्नार्तिहरं वन्दे स्मर्तृगामि सनोवतु ॥ १ ॥
दीनबन्धुं कृपासिन्धुं सर्वकारणकारणं ।
सर्वरक्षाकरं वन्दे स्मर्तृगामि सनोवतु ॥ २ ॥
शरणागतदीनार्त परित्राणपरायणं ।
नारायणं विभुं वन्दे स्मर्तृगामि सनोवतु ॥ ३ ॥
सर्वानर्थहरं देवं सर्वमङ्गल मङ्गलं ।
सर्वक्लेशहरं वन्दे स्मर्तृगामि सनोवतु ॥ ४ ॥
ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनं ।
भक्ताऽभीष्टप्रदं वन्दे स्मर्तृगामि सनोवतु ॥ ५ ॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।
तापप्रशमनं वन्दे स्मर्तृगामि सनोवतु ॥ ६ ॥
सर्वरोगप्रशमनं सर्वपीडानिवारणं ।
विपदुद्धरणं वन्दे स्मर्तृगामि सनोवतु ॥ ७ ॥
जन्मसंसारबन्धघ्नं स्वरूपानन्ददायकं ।
निश्श्रेयसपदं वन्दे स्मर्तृगामि सनोवतु ॥ ८ ॥
जय लाभ यशः काम दातुर्दत्तस्य यः स्तवं ।
भोगमोक्षप्रदस्येमं प्रपठेत् सुकृती भवेत् ॥ ९ ॥
इति श्री दत्तस्तवम् ।
గమనిక: "శ్రీ లక్ష్మీ స్తోత్రనిధి" పారాయణ గ్రంథము తెలుగులో ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Report mistakes and corrections in Stotranidhi content.
स्मर्तृगामी मी