Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् ।
प्रपन्नार्तिहरं वन्दे स्मर्तृगामी स नोऽवतु ॥ १ ॥
दीनबन्धुं कृपासिन्धुं सर्वकारणकारणम् ।
सर्वरक्षाकरं वन्दे स्मर्तृगामी स नोऽवतु ॥ २ ॥
शरणागतदीनार्त परित्राणपरायणम् ।
नारायणं विभुं वन्दे स्मर्तृगामी स नोऽवतु ॥ ३ ॥
सर्वानर्थहरं देवं सर्वमङ्गलमङ्गलम् ।
सर्वक्लेशहरं वन्दे स्मर्तृगामी स नोऽवतु ॥ ४ ॥
ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् ।
भक्ताभीष्टप्रदं वन्दे स्मर्तृगामी स नोऽवतु ॥ ५ ॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।
तापप्रशमनं वन्दे स्मर्तृगामी स नोऽवतु ॥ ६ ॥
सर्वरोगप्रशमनं सर्वपीडानिवारणम् ।
विपदुद्धरणं वन्दे स्मर्तृगामी स नोऽवतु ॥ ७ ॥
जन्मसंसारबन्धघ्नं स्वरूपानन्ददायकम् ।
निःश्रेयसपदं वन्दे स्मर्तृगामी स नोऽवतु ॥ ८ ॥
जयलाभयशस्कामदातुर्दत्तस्य यः स्तवम् ।
भोगमोक्षप्रदस्येमं प्रपठेत् सुकृती भवेत् ॥ ९ ॥
इति श्री दत्त स्तवम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
स्मर्तृगामी मी