Runa Vimochana Narasimha Stotram – ऋण विमोचन नृसिंह स्तोत्रम्

देवता कार्य सिद्ध्यर्थं सभा स्तम्भ समुध्बवम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ १ ॥

लक्ष्म्यालिङ्गित वामाङ्गं भक्तानां वरदायकम्।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ २ ॥

आन्त्र मालाधरं शङ्ख चक्राब्जायुध धारिणं ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ३ ॥

स्मरणात् सर्वपापघ्नं कद्रूजविषनाशनम्।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ४ ॥

सिंहनादेन महता दिग्दन्तिभयनाशनम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ५ ॥

प्रह्लाद वरदं श्रीशं दैत्येश्वर विदारिणम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ६ ॥

क्रूरग्रहैः पीडितानां भक्तानामभयप्रदम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ७ ॥

वेद वेदान्त यज्ञेशं ब्रह्म रुद्रादि वन्दितम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ८ ॥

य इदं पठते नित्यं ऋणमोचन सञ्ज्ञितम् ।
अनृणे जायते सत्यो धनं शीघ्रमवाप्नुयात् ॥ ९ ॥

Facebook Comments

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Download Stotra Nidhi mobile app