Krimi Samhara Suktam (Atharva Veda) – क्रिमि संहार सूक्तम् (अथर्ववेदीय)


(३१-क्रिमिजम्भनम्)
[१-५ सविता। पशवः। त्रिष्टुप्, ३ उपरिष्टाद्विराड्बृहती, ४ भुरिगनुष्टुप्]

इन्द्र॑स्य॒ या म॒ही दृ॒षत् क्रिमे॒र्विश्व॑स्य॒ तर्ह॑णी ।
तया᳚ पिनष्मि॑ सं क्रिमी᳚न् दृ॒षदा॒ खल्वा᳚ƒ इव ॥ १

दृ॒ष्टम॒दृष्ट॑मतृह॒मथो᳚ कु॒रूरु॑मतृहम् ।
अ॒ल्गण्डू॒न्स्थर्वा᳚न् छ॒लुना॒न् क्रिमी॒न् वच॑सा जम्भयामसि ॥ २

अ॒ल्गण्डू᳚न् हन्मि मह॒ता व॒धेन॑ दू॒ना अदू᳚ना अर॒सा अ॑भूवन् ।
शि॒ष्टान॑शिष्टा॒न् नि ति॑रामि वा॒चा यथा॒ क्रिमी᳚णां॒ नकि॑रु॒च्छिषा᳚तै ॥ ३

अन्वा᳚न्त्र्यं शीर्ष॒ण्य॑१॒ मथो॒ पार्‍ष्टे᳚यं॒ क्रिमी᳚न् ।
अ॒व॒स्क॒वं व्य॑ध्व॒रं क्रिमी॒न् वच॑सा जम्भयामसि ॥ ४

ये क्रिम॑यः पर्व॑तेषु॒ वने॒ष्वोष॑धीषु प॒शुष्व॒प्स्व॑१॒न्तः ।
ये अ॒स्माकं᳚ त॒न्व॑माविवि॒शु स्सर्वं॒ तद्ध᳚न्मि॒ जनि॑म॒ क्रिमी᳚णाम् ॥ ५


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed