Vishnu Shodasa nama stotram – विष्णुः षोडशनाम स्तोत्रम्

:: Chant this in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST) ::

औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम् ।
शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥ १ ॥

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् ।
नारायणं तनुत्यागे श्रीधरं प्रियसङ्गमे ॥ २ ॥

दुस्स्वप्ने स्मर गोविन्दं सङ्कटे मधुसूदनम् ।
कानने नारसिंहं च पावके जलशायिनम् ॥ ३ ॥

जलमध्ये वराहं च पर्वते रघुनन्दनम् ।
गमने वामनं चैव सर्वकार्येषु माधवम् ॥ ४ ॥

षोडशैतानि नामानि प्रातरूत्थाय यः पठेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ ५ ॥

Facebook Comments

You may also like...

2 Responses

  1. Narendra Patil says:

    Nice

  2. Vasudevan says:

    Very simple but powerful sloka with profoundly deep meanings

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Not allowed
%d bloggers like this: