Sri Subrahmanya Pooja Vidhanam – श्री सुब्रह्मण्य षोडशोपचार पूजा


पूर्वाङ्गं पश्यतु ॥

श्री महागणपति पूजा (हरिद्रा गणपति पूजा) पश्यतु ॥

पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ वल्लीदेवसेनासमेत श्रीसुब्रह्मण्येश्वर प्रसादेन सर्वोपशान्ति पूर्वक दीर्घायुरारोग्य धन कलत्र पुत्र पौत्राभि वृद्ध्यर्थं स्थिरलक्ष्मी कीर्तिलाभ शत्रुपराजयादि सकलाभीष्ट सिद्ध्यर्थं श्री सुब्रह्मण्येश्वर स्वामि पूजां करिष्ये ॥

ध्यानम् –
षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं
शक्तिं वज्रमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं हस्तैर्ददानं सदा
ध्यायेदीप्सित सिद्धिदं शिवसुतं वन्दे सुराराधितम् ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्यं ध्यायामि ।

आवाहनम् –
सुब्रह्मण्य महाभाग क्रौञ्चाख्यगिरिभेदन ।
आवाहयामि देव त्वं भक्ताभीष्टप्रदो भव ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्यं आवाहयामि ।

आसनम् –
अग्निपुत्र महाभाग कार्तिकेय सुरार्चित ।
रत्नसिंहासनं देव गृहाण वरदाव्यय ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः आसनं समर्पयामि ।

पाद्यम् –
गणेशानुज देवेश वल्लीकामदविग्रह ।
पाद्यं गृहाण गाङ्गेय भक्त्या दत्तं सुरार्चित ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –
ब्रह्मादि देवबृन्दानां प्रणवार्थोपदेशक ।
अर्घ्यं गृहाण देवेश तारकान्तक षण्मुख ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः हस्तयोरर्घ्यं समर्पयामि ।

आचमनीयम् –
एलाकुङ्कुमकस्तूरीकर्पूरादिसुवासितैः ।
तीर्थैराचम्यतां देव गङ्गाधरसुताव्यय ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः आचमनीयं समर्पयामि ।

पञ्चामृत स्नानम् –
शर्करा मधु गोक्षीर फलसार घृतैर्युतम् ।
पञ्चामृतस्नानमिदं बाहुलेय गृहाण भो ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः पञ्चामृतस्नानं समर्पयामि ।

शुद्धोदक स्नानम् –
स्वामिन् शरवणोद्भूत शूरपद्मासुरान्तक ।
गङ्गादिसलिलैः स्नाहि देवसेनामनोहर ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः शुद्धोदक स्नानं समर्पयामि ।

वस्त्रम् –
दुकूलवस्त्रयुगलं मुक्ताजालसमन्वितम् ।
प्रीत्या गृहाण गाङ्गेय भक्तापद्भञ्जनक्षम ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः वस्त्रयुग्मं समर्पयामि ।

उपवीतम् –
राजतं ब्रह्मसूत्रं च काञ्चनं चोत्तरीयकम् ।
यज्ञोपवीतं देवेश गृहाण सुरनायक ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः उपवीतं समर्पयामि ।

भस्म –
नित्याग्निहोत्रसम्भूतं विरजाहोमभावितम् ।
गृहाण भस्म हे स्वामिन् भक्तानां भूतिदो भव ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः भस्म समर्पयामि ।

गन्धम् –
कस्तूरीकुङ्कुमाद्यैश्च वासितं सहिमोदकम् ।
गन्धं विलेपनार्थाय गृहाण क्रौञ्चदारण ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः गन्धान् धारयामि ।

अक्षतान् –
अक्षतान् धवलान् दिव्यान् शालेयान् तण्डुलान् शुभान् ।
काञ्चनाक्षतसम्युक्तान् कुमार प्रतिगृह्यताम् ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः अक्षतान् समर्पयामि ।

आभरणम् –
भूषणानि विचित्राणि हेमरत्नमयानि च ।
गृहाण भुवनाधार भुक्तिमुक्तिफलप्रद ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः आभरणानि समर्पयामि ।

पुष्पम् –
पुन्नग वकुलाशोक नीप पाटल जाति च ।
वासन्तिका बिल्वजाजी पुष्पाणि परिगृह्यताम् ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः पुष्पाणि समर्पयामि ।

अथाङ्ग पूज –
सुरवन्दितपादाय नमः – पादौ पूजयामि ।
मुकुराकारजानवे नमः – जानुनी पूजयामि ।
करिराजकरोरवे नमः – ऊरू पूजयामि ।
रत्नकिङ्किणिकायुक्तकटये नमः – कटिं पूजयामि ।
गुहाय नमः – गुह्यं पूजयामि ।
हेरम्बसहोदराय नमः – उदरं पूजयामि ।
सुनाभये नमः – नाभिं पूजयामि ।
सुहृदे नमः – हृदयं पूजयामि ।
विशालवक्षसे नमः – वक्षःस्थलं पूजयामि ।
कृत्तिकास्तनन्धयाय नमः – स्तनौ पूजयामि ।
शत्रुजयोर्जितबाहवे नमः – बाहून् पूजयामि ।
शक्तिहस्ताय नमः – हस्तान् पूजयामि ।
पुष्करस्रजे नमः – कण्ठं पूजयामि ।
षण्मुखाय नमः – मुखानि पूजयामि ।
सुनासाय नमः – नासिके पूजयामि ।
द्विषण्णेत्राय नमः – नेत्राणि पूजयामि ।
हिरण्यकुण्डलाय नमः – कर्णौ पूजयामि ।
फालनेत्रसुताय नमः – फालं पूजयामि ।
वेदशिरोवेद्याय नमः – शिरः पूजयामि ।
सेनापतये नमः – सर्वाण्यङ्गानि पूजयामि ।

अथ अष्टोत्तरशतनाम पूजा –

श्री सुब्रह्मण्य अष्टोत्तरशतनामावली पश्यतु ।

श्री वल्ली अष्टोत्तरशतनामावली पश्यतु ।

श्री देवसेना अष्टोत्तरशतनामावली पश्यतु ।

धूपम् –
दशाङ्गं गुग्गुलूपेतं सुगन्धं सुमनोहरम् ।
कपिलाघृतसम्युक्तं धूपं गृह्णीष्व षण्मुख ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः धूपमाघ्रापयामि ।

दीपम् –
साज्यं त्रिवर्तिसम्युक्तं वह्निना योजितं मया ।
दीपं गृहाण स्कन्देश त्रैलोक्यतिमिरापहम् ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः दीपं दर्शयामि ।
धूपदीपानन्तरं शुद्धाचमनीयं समर्पयामि ।

नैवेद्यम् –
लेह्यं चोष्यं च भोज्यं च पानीयं षड्रसान्वितम् ।
भक्ष्यशाकादिसम्युक्तं नैवेद्यं स्कन्द गृह्यताम् ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॑स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ योन॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।

ताम्बूलम् –
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचूर्णसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः ताम्बूलं समर्पयामि ।

नीराजनम् –
देवसेनापते स्कन्द संसारध्वान्तभारक ।
नीराजनमिदं देव गृह्यतां सुरसत्तम ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः कर्पूरनीराजनं दर्शयामि ।

मन्त्रपुष्पम् –
ओं तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नो स्कन्दः प्रचोदयात् ।
पुष्पाञ्जलिं प्रदास्यामि भक्ताभीष्टप्रदायक ।
गृहाणवल्लीरमण सुप्रीतेनान्तरात्मना ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः पुष्पाञ्जलिं समर्पयामि ।

प्रदक्षिण नमस्कारम् –
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहिमां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष सुरेश्वर ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः आत्मप्रदक्षिण नमस्कारं समर्पयामि ।

नमस्कारम् –
षडाननं कुङ्कुमरक्तवर्णं
द्विषड्भुजं बालकमम्बिकासुतम् ।
रुद्रस्य सूनुं सुरसैन्यनाथं
गुहं सदाऽहं शरणं प्रपद्ये ॥
वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः प्रार्थना नमस्कारान् समर्पयामि ।

राजोपचार पूजा –
ओं वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः ।
छत्रमाच्छादयामि ।
चामरैर्वीजयामि ।
गीतं श्रावयामि ।
नृत्यं दर्शयामि ।
वाद्यं घोषयामि ।
आन्दोलिकान् आरोहयामि ।
अश्वान् आरोहयामि ।
गजान् आरोहयामि ।
ओं वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ।

अर्घ्यम् –
देवसेनापते स्वामिन् सेनानीरखिलेष्टद ।
इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥
ओं वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः ।
इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ॥ १ ॥

चन्द्रात्रेय महाभाग सोम सोमविभूषण ।
इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥
ओं वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः ।
इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ॥ २ ॥

नीलकण्ठ महाभाग सुब्रह्मण्यसुवाहन ।
इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥
ओं वल्लीदेवसेना समेत श्रीसुब्रह्मण्याय नमः ।
इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ॥ ३ ॥

क्षमाप्रार्थना –
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥

अनया ध्यानावाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः वल्लीदेवसेना समेत श्रीसुब्रह्मण्य स्वामि सुप्रीतो सुप्रसन्नो वरदो भवतु ॥

ओं शान्तिः शान्तिः शान्तिः ॥


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed