Sri Dattatreya Shodasopachara Puja – श्री दत्तात्रेय षोडशोपचार पूजा



पूर्वाङ्गं पश्यतु ॥

हरिद्रा गणपति पूजा पश्यतु ॥

पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ मम सङ्कल्पित मनोवाञ्छाफल सिद्ध्यर्थं इष्टकाम्यार्थसिद्ध्यर्थं पुरुषसूक्त विधानेन श्री दत्तात्रेय स्वामि षोडशोपचार पूजां करिष्ये ॥

प्राणप्रतिष्ठा –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ।
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥

अस्मिन् बिम्बे श्रीदत्तात्रेय स्वामिनं आवाहयामि स्थापयामि पूजयामि ।
स्थिरोभव वरदोभव सुप्रसन्नो भव स्थिरासनं कुरु प्रसीद प्रसीद ।

ध्यानम् –
माला कमण्डलुरधःकरपद्मयुग्मे
मध्यस्थपाणियुगले डमरुत्रिशूले ।
यन्न्यस्त ऊर्ध्वकरयोः शुभशङ्खचक्रे
वन्दे तमत्रिवरदं भुजषट्कयुक्तम् ॥
बालार्कप्रभमिन्द्रनीलजटिलं भस्माङ्गरागोज्ज्वलं
शान्तं नादविलीनचित्तपवनं शार्दूलचर्माम्बरम् ।
ब्रह्मज्ञैः सनकादिभिः परिवृतं सिद्धैः समाराधितं
दत्तात्रेयमुपास्महे हृदि मुदा ध्येयं सदा योगिभिः ॥
ओं श्रीदत्तात्रेयाय नमः ध्यायामि ।

आवाहनम् –
स॒हस्र॑शीर्षा॒ पुरु॑षः ।
स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा ।
अत्य॑तिष्ठद्दशाङ्गु॒लम् ।
ज्योतिः शान्तिं सर्वलोकान्तरस्थं
ओङ्काराख्यं योगिहृद्ध्यानगम्यम् ।
साङ्गं शक्तिं सायुधं भक्तिसेव्यं
सर्वाकारं दत्तमावाहयामि ॥
ओं श्रीदत्तात्रेयाय नमः आवाहयामि ।

आसनम् –
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ ।
यद्भू॒तं यच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्वस्येशा॑नः ।
य॒दन्ने॑नाति॒रोह॑ति ।
नवरत्नखचितं चापि मृदुतूल परिच्छदम् ।
सिंहासनमिदं स्वामिन् स्वीकुरुष्व सुखासनम् ॥
ओं श्रीदत्तात्रेयाय नमः नवरत्नखचित सिंहासनं समर्पयामि ।

पाद्यम् –
ए॒तावा॑नस्य महि॒मा ।
अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ ।
त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।
गुरुदेव नमस्तेऽस्तु नरकार्णवतारक ।
पाद्यं गृहाण दत्तेश मम सौख्यं विवर्धय ॥
ओं श्रीदत्तात्रेयाय नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः ।
पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् ।
सा॒श॒ना॒न॒श॒ने अ॒भि ।
व्यक्ताऽव्यक्तस्वरूपाय भक्ताभीष्टप्रदायक ।
मया निवेदितं भक्त्या अर्घ्योऽयं प्रतिगृह्यताम् ॥
ओं श्रीदत्तात्रेयाय नमः हस्तयोरर्घ्यं समर्पयामि ।

आचमनीयम् –
तस्मा᳚द्वि॒राड॑जायत ।
वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत ।
प॒श्चाद्भूमि॒मथो॑ पु॒रः ।
गोदावर्यास्तु यद्वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं देव सम्यगाचम्यतां प्रभो ॥
ओं श्रीदत्तात्रेयाय नमः मुखे आचमनीयं समर्पयामि ।

पञ्चामृतस्नानम् –
स्नानं पञ्चामृतैर्देव गृहाण पुरुषोत्तम ।
अनाथनाथ सर्वज्ञ गीर्वाण प्रणति प्रिय ॥
ओं श्रीदत्तात्रेयाय नमः पञ्चामृतस्नानं समर्पयामि ।

शुद्धोदकस्नानम् –
यत्पुरु॑षेण ह॒विषा᳚ ।
दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ ।
ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ।
गङ्गादि सर्वतीर्थेभ्यः आनीतं निर्मलं जलम् ।
स्नानं कुरुष्व देवेश मया दत्तं महात्मने ॥
ओं श्रीदत्तात्रेयाय नमः शुद्धोदक स्नानं समर्पयामि ।

वस्त्रम् –
स॒प्तास्या॑सन्परि॒धय॑: ।
त्रिः स॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः ।
अब॑ध्न॒न्पुरु॑षं प॒शुम् ।
वेदसूक्तसमायुक्ते यज्ञसामसमन्विते ।
स्वर्गवर्गप्रदे देव वाससी तौ विनिर्मितौ ॥
ओं श्रीदत्तात्रेयाय नमः वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतम् –
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ ।
पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त ।
सा॒ध्या ऋष॑यश्च॒ ये ।
उपवीतं भवेन्नित्यं विधिरेष सनातनः ।
गृहाण भगवन् दत्तः सर्वेष्टफलदो भव ॥
ओं श्रीदत्तात्रेयाय नमः यज्ञोपवीतं समर्पयामि ।

गन्धम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्‍स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ ।
आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ।
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं गुरुश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥
ओं श्रीदत्तात्रेयाय नमः दिव्य श्रीचन्दनं समर्पयामि ।

आभरणम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
ऋच॒: सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् ।
यजु॒स्तस्मा॑दजायत ।
रुद्राक्षहार नागेन्द्र मणिकङ्कण मुख्यानि ।
सर्वोत्तम भूषणानि गृहाण गुरुसत्तम ॥
ओं श्रीदत्तात्रेयाय नमः नानाभरणानि समर्पयामि ।

अक्षतान् –
अक्षतान् धवलान् दिव्यान् तापसोत्तमपूजित ।
अर्पयामि महाभक्त्या प्रसीद त्वं महामुने ॥
ओं श्रीदत्तात्रेयाय नमः अक्षतान् समर्पयामि ।

पुष्पम् –
तस्मा॒दश्वा॑ अजायन्त ।
ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् ।
तस्मा᳚ज्जा॒ता अ॑जा॒वय॑: ।
मल्लिकादि सुगन्धीनि मालत्यादीनि वै प्रभो ।
सर्वं पुष्पमाल्यादिकं परात्मन् प्रतिगृह्यताम् ॥
ओं श्रीदत्तात्रेयाय नमः पुष्पं समर्पयामि ।

अथाङ्गपूज –
ओं अनसूयागर्भसम्भूताय नमः – पादौ पूजयामि ।
ओं अत्रिपुत्राय नमः – गुल्फौ पूजयामि ।
ओं त्रिमूर्त्यात्मकमूर्तये नमः – जङ्घे पूजयामि ।
ओं अनघाय नमः – जानुनी पूजयामि ।
ओं अवधूताय नमः – ऊरू पूजयामि ।
ओं सामगाय नमः – कटिं पूजयामि ।
ओं आदिमध्यान्तरहिताय नमः – उदरं पूजयामि ।
ओं महोरस्काय नमः – वक्षःस्थलं पूजयामि ।
ओं शङ्खचक्रडमरुत्रिशूलकमण्डलुधारिणे नमः – पाणिं पूजयामि ।
ओं षड्भुजाय नमः – बाहू पूजयामि ।
ओं कम्बुकण्ठाय नमः – कण्ठं पूजयामि ।
ओं सर्वतत्त्वप्रबोधकाय नमः – वक्त्राणि पूजयामि ।
ओं नित्यानुग्रहदृष्टये नमः – नेत्राणि पूजयामि ।
ओं सहस्रशिरसे नमः – शिरसां पूजयामि ।
ओं सदसत्संशयविच्छेदकाय नमः – सर्वाण्यङ्गानि पूजयामि ।

अथ अष्टोत्तरशतनाम पूजा –

श्रीदत्तात्रेय अष्टोत्तरशतनामावली पश्यतु ॥

धूपम् –
यत्पुरु॑षं॒ व्य॑दधुः ।
क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू ।
कावू॒रू पादा॑वुच्येते ।
दशाङ्गं गुग्गुलोपेतं सुगन्धं सुमनोहरम् ।
धूपमाघ्राण दत्तेश सर्वदेवनमस्कृत ॥
ओं श्रीदत्तात्रेयाय नमः धूपमाघ्रापयामि ।

दीपम् –
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् ।
बा॒हू रा॑ज॒न्य॑: कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: ।
प॒द्भ्याग्ं शू॒द्रो अ॑जायत ।
घृतत्रिवर्तिसम्युक्तं वह्निनायोजितं प्रियम् ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापह ॥
ओं श्रीदत्तात्रेयाय नमः दीपं दर्शयामि ।
धूपदीपानन्तरं शुद्धाचमनीयं समर्पयामि ।

नैवेद्यम् –
च॒न्द्रमा॒ मन॑सो जा॒तः ।
चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ ।
प्रा॒णाद्वा॒युर॑जायत ।
भवदीय कृपायुक्तं सम्भावित निवेदितम् ।
त्वमेव भोजनं भोक्ता सुरसोऽपि त्वमेव च ॥
ओं श्रीदत्तात्रेयाय नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।

ताम्बूलम् –
नाभ्या॑ आसीद॒न्तरि॑क्षम् ।
शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा᳚त् ।
तथा॑ लो॒काग्ं अ॑कल्पयन् ।
फूगीफलैश्च कर्पूरैः नागवल्लीदलैर्युतम् ।
मुक्ताचूर्णसमायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्रीदत्तात्रेयाय नमः ताम्बूलं समर्पयामि ।

नीराजनम् –
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ ।
स्वस्तिरस्तु शुभमस्तु सर्वत्र मङ्गलानि च ।
नित्यश्रीरस्तु दत्तेश नीराजनं प्रगृह्यताम् ॥
ओं श्रीदत्तात्रेयाय नमः आनन्दमङ्गल नीराजनं दर्शयामि ।

मन्त्रपुष्पम् –
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ॥
ओं दिगम्बराय विद्महे अवधूताय धीमहि तन्नो दत्तः प्रचोदयात् ॥
अनसूयासुतो दत्तो ह्यत्रिपुत्रो महामुनिः ।
इदं दिव्यं मन्त्रपुष्पं स्वीकुरुष्व नरोत्तम ॥
भुक्तिमुक्तिप्रदाता च कार्तवीर्यवरप्रदः ।
पुष्पाञ्जलिं गृहाणेदं निगमागमवन्दित ॥
ओं श्रीदत्तात्रेयाय नमः मन्त्रपुष्पाणि समर्पयामि ।

प्रदक्षिण –
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष श्रीदत्तेश ॥
ओं श्रीदत्तात्रेयाय नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

उपचार पूजा –
ओं श्रीदत्तात्रेयाय नमः ।
छत्रमाच्छादयामि । चामरैर्वीजयामि ।
नृत्यं दर्शयामि । गीतं श्रावयामि ।
वाद्यं घोषयामि । आन्दोलिकानारोहयामि ।
अश्वानारोहयामि । गजानारोहयामि ।
समस्त राजोपचार देवोपचार भक्त्युपचार शक्त्युपचार मन्त्रोपचार पूजाः समर्पयामि ॥

प्रार्थना –
दत्तात्रेयं शिवं शान्तमिन्द्रनीलनिभं प्रभुम् ।
आत्ममायारतं देवं अवधूतं दिगम्बरम् ॥
नमो नमस्ते जगदेकनाथ
नमो नमस्ते सुपवित्रगाथ ।
नमो नमस्ते जगतामधीश
नमो नमस्तेऽस्तु परावरेश ॥
जटाधरं पाण्डुरङ्गं शूलहस्तं कृपानिधिम् ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥
नमस्ते भगवन् देव दत्तात्रेय जगत्प्रभो ।
सर्वबाधाप्रशमनं कुरु शान्तिं प्रयच्छ मे ॥

क्षमा प्रार्थना –
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥

अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्रीदत्तात्रेय स्वामि सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥

तीर्थम् –
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्रीदत्तात्रेय पादोदकं पावनं शुभम् ॥
श्रीदत्तात्रेय स्वामि प्रसादं शिरसा गृह्णामि ॥

ओं शान्तिः शान्तिः शान्तिः ॥


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed