Sri Venkateshwara Puja Vidhanam – श्री वेङ्कटेश्वर षोडशोपचार पूजा


पूर्वाङ्गं पश्यतु ॥

हरिद्रा गणपति पूजा पश्यतु ॥

पुनः सङ्कल्पम्
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री वेङ्कटेश्वर स्वामिनः अनुग्रहप्रसाद सिद्ध्यर्थं श्री वेङ्कटेश्वर स्वामिनः प्रीत्यर्थं पुरुष सूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥

प्राणप्रतिष्ठा
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
श्री वेङ्कटेश्वर स्वामिने नमः आवाहयामि स्थापयामि पूजयामि ।
स्थिरोभव वरदोभव सुप्रसन्नो भव स्थिरासनं कुरु प्रसीद प्रसीद ।

ध्यानम्
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
हैमोर्ध्वपुण्ड्र मजहन्मकुटं सुनासं
मन्दस्मितं मकरकुण्डल चारुगण्डम् ।
बिम्बाधरं बहुल दीर्घ कृपाकटाक्षं
श्रीवेङ्कटेश मुखमात्मनि सन्निधत्ताम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाध्यासित वक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः ध्यायामि ॥

आवाहनम्
स॒हस्र॑शीर्षा॒ पुरु॑षः ।
स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा ।
अत्य॑तिष्ठद्दशाङ्गु॒लम् ।
आवाहयामि सर्वेश श्रीनिवास रमापते ।
कृपया देहि सान्निध्यं शरणगतवत्सल ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः आवाहयामि ॥

आसनम्
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ ।
यद्भू॒तं यच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्वस्येशा॑नः ।
य॒दन्ने॑नाति॒रोह॑ति ।
देव देव जगन्नाथ प्रणतक्लेशनाशक ।
रत्नसिंहासनं दिव्यं गृहाण मधुसूदन ॥
ओं श्री पद्मावती समेत श्री वेङ्कटेश्वर स्वामिने नमः आसनं समर्पयामि ॥

पाद्यम्
ए॒तावा॑नस्य महि॒मा ।
अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ ।
त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।
वाञ्छितं कुरु मे देव दुष्कृतं च विनाशय ।
पाद्यं गृहाण भगवान् मातुरुत्सङ्ग संस्थित ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम्
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः ।
पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् ।
सा॒श॒ना॒न॒श॒ने अ॒भि ।
कुरुष्व मे दयां देव संसारार्तिभयापह ।
कुसुमाक्षत सम्युक्तं गृहाणार्घ्यं नमोऽस्तु ते ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः हस्तयोः अर्घ्यं समर्पयामि ॥

आचमनीयम्
तस्मा᳚द्वि॒राड॑जायत ।
वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत ।
प॒श्चाद्भूमि॒मथो॑ पु॒रः ।
नमः सत्याय शुद्धाय नित्याय ज्ञानरूपिणे ।
गृहाणाचमनं देव सर्वलोकैकनायक ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः मुखे आचमनीयं समर्पयामि ॥

पञ्चामृतस्नानम्
दधि क्षीराज्य मधुभिः शर्करा फलमिश्रितम् ।
पञ्चामृतस्नानमिदं गृहाण पुरुषोत्तम ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः पञ्चामृत स्नानं समर्पयामि ॥

शुद्धोदकस्नानम्
यत्पुरु॑षेण ह॒विषा᳚ ।
दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ ।
ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ।
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
गङ्गादि सर्वतीर्थेभ्यः समाहृतमिदं जलम् ।
स्नानं स्वीकुरु देवेश भक्तचित्तस्थिरासन ॥ ।
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः शुद्धोदक स्नानं समर्पयामि ॥

वस्त्रम्
स॒प्तास्या॑सन्परि॒धय॑: ।
त्रिः स॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः ।
अब॑ध्न॒न्पुरु॑षं प॒शुम् ।
तप्तकाञ्चन सङ्काशं पीताम्बरमिदं हरे ।
गृहाण श्रीजगन्नाथ श्रीनिवास नमोऽस्तु ते ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः वस्त्रयुग्मं समर्पयामि ॥

यज्ञोपवीतम्
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ ।
पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त ।
सा॒ध्या ऋष॑यश्च॒ ये ।
वेङ्कटेश महादेव श्रियः कान्त जगद्विभो ।
ब्रह्मसूत्रोत्तरीये तु गृहाण करुणापर ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः यज्ञोपवीतं समर्पयामि ॥

गन्धम्
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्‍स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ ।
आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ।
चन्दनागरु कस्तूरी घनसारसमन्वितम् ।
गन्धं गृहाण गोविन्द परमामोदपूरितम् ॥
ओं श्री पद्मावती समेत श्री वेङ्कटेश्वर स्वामिने नमः दिव्य परिमल गन्धान् समर्पयामि ॥

आभरणम्
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
ऋच॒: सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् ।
यजु॒स्तस्मा॑दजायत ।
केयूर कटके चैव हस्ते चित्राङ्गुलीयकं
माणिक्योल्लासि मकुटं कुण्डले हारशोभितम् ।
नाभौ नायक रत्नं च नूपुरे हारपद्मयोः
अङ्गुली मुद्रिकाश्चैव गृह्यतां अस्मदर्पिताः ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः आभरणानि समर्पयामि ॥

अक्षतान्
गोविन्द परमानन्द हरिद्रा सहिताक्षतान् ।
विश्वेश्वर विशालाक्ष गृहाण परमेश्वर ॥
ओं श्री पद्मावती समेत श्री वेङ्कटेश्वर स्वामिने नमः अक्षतान् समर्पयामि ॥

पुष्पम्
तस्मा॒दश्वा॑ अजायन्त ।
ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् ।
तस्मा᳚ज्जा॒ता अ॑जा॒वय॑: ।
सुगन्धीनि सुपुष्पाणि जाजीकुन्दमुखानि च ।
मालती वकुलादीनि पूजार्थं प्रतिगृह्यताम् ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः पुष्पं समर्पयामि ॥

अथाङ्ग पूजा
ओं श्रीवेङ्कटेश्वराय नमः – पादौ पूजयामि ।
ओं श्रीवेङ्कटाचलाधीशाय नमः – गुल्फौ पूजयामि ।
ओं श्रीप्रदायकाय नमः – जङ्घे पूजयामि ।
ओं पद्मावतीपतये नमः – जानुनी पूजयामि ।
ओं ज्ञानप्रदाय नमः – ऊरुं पूजयामि ।
ओं श्रीनिवासाय नमः – कटिं पूजयामि ।
ओं महाभागाय नमः – नाभिं पूजयामि ।
ओं निर्मलाय नमः – उदरं पूजयामि ।
ओं विशालहृदयाय नमः – हृदयं पूजयामि ।
ओं परिशुद्धात्मने नमः – स्तनौ पूजयामि ।
ओं पुरुषोत्तमाय नमः – भुजौ पूजयामि ।
ओं स्वर्णहस्ताय नमः – हस्तौ पूजयामि ।
ओं वरप्रदाय नमः – कण्ठं पूजयामि ।
ओं लोकनाथाय नमः – स्कन्धौ पूजयामि ।
ओं सर्वेश्वराय नमः – मुखं पूजयामि ।
ओं रसज्ञाय नमः – नासिकां पूजयामि ।
ओं पुण्यश्रवणकीर्तनाय नमः – श्रोत्रे पूजयामि ।
ओं फुल्लाम्बुजविलोचनाय नमः – नेत्रे पूजयामि ।
ओं वर्चस्विने नमः – ललाटं पूजयामि ।
ओं सहस्रशीर्षाय नमः – शिरः पूजयामि ।
ओं रम्य विग्रहाय नमः – सर्वाण्यङ्गानि पूजयामि ।
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः दिव्यसुन्दर विग्रहं पूजयामि ॥

अथ अष्टोत्तरशतनाम पूजा

श्री वेङ्कटेश्वर अष्टोत्तरशतनामावलि पश्यतु ॥

श्री पद्मावती अष्टोत्तरशतनामावलि पश्यतु ॥

धूपम्
यत्पुरु॑षं॒ व्य॑दधुः ।
क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू ।
कावू॒रू पादा॑वुच्येते ।
दशाङ्गं गुग्गुलोपेतं गोघृतेन समन्वितम् ।
धूपं गृहाण देवेश सर्वलोकनमस्कृत ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः धूपं आघ्रापयामि ॥

दीपम्
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् ।
बा॒हू रा॑ज॒न्य॑: कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: ।
प॒द्भ्याग्ं शू॒द्रो अ॑जायत ।
त्रिलोकेश महादेव सर्वज्ञानप्रदायक ।
दीपं दास्यामि देवेश रक्ष मां भक्तवत्सल ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः दीपं दर्शयामि ॥
धूपदीपानन्तरं शुद्धाचमनीयं समर्पयामि ।

नैवेद्यम्
च॒न्द्रमा॒ मन॑सो जा॒तः ।
चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ ।
प्रा॒णाद्वा॒युर॑जायत ।
सर्वभक्षैश्च भोज्यैश्च रसैः षड्भिः समन्वितम् ।
नैवेद्यं तु मयानीतं गृहाण पुरुषोत्तम ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः नैवेद्यं समर्पयामि ॥
ओं भूर्भुव॒स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ । ओं व्या॒नाय॒ स्वाहा᳚ ।
ओं उ॒दा॒नाय॒ स्वाहा᳚ । ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि । अ॒मृ॒ता॒पि॒धा॒नम॑सि ।
उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ॥

ताम्बूलम्
नाभ्या॑ आसीद॒न्तरि॑क्षम् ।
शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा᳚त् ।
तथा॑ लो॒काग्ं अ॑कल्पयन् ।
पूगीफलैः सकर्पूरैर्नागवल्ली दलैर्युतम् ।
मुक्ताचूर्ण समायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः ताम्बूलं समर्पयामि ॥

नीराजनम्
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ ।
श्रियः कान्ताय कल्याण निधये निधयेर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः नीराजनं दर्शयामि ॥
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि ।

मन्त्रपुष्पम्
(विशेष मन्त्रपुष्पं पश्यतु ॥ )
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ।
नानासुगन्धपुष्पाणि यथा कालोद्भवानि च ।
पुष्पाञ्जलिं मया दत्तं गृहाण वेङ्कटेश्वर ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ॥

प्रदक्षिण नमस्काराः
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष जनार्दन ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ॥

उपचार पूजा
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः ।
छत्रमाच्छादयामि । चामरैर्वीजयामि ।
नृत्यं दर्शयामि । गीतं श्रावयामि ।
वाद्यं घोषयामि । आन्दोलिकानारोहयामि ।
अश्वानारोहयामि । गजानारोहयामि ।
समस्त राजोपचार देवोपचार भक्त्युपचार शक्त्युपचार मन्त्रोपचार पूजाः समर्पयामि ॥

प्रार्थना
ओं नमो देवदेवाय पूर्वदेवाय खड्गिने ।
श्रीवत्साङ्काय च नमः परस्मै परमात्मने ॥
नमः परस्मै व्यूहोपव्यूहान्तर विभूतये ।
विभवाय नमस्तस्मै विश्वान्तर्यामिणेऽणवे ॥
अर्चावताराय नमोऽजन्मने जन्मभाजिने ।
मायाविने जगत् स्रष्ट्रे लक्ष्मीनारायणात्मने ॥

क्षमा प्रार्थना
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामि सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥

तीर्थम्
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्रीश्रीनिवास पादोदकं पावनं शुभम् ॥
श्रीवेङ्कटेश्वर स्वामि प्रसादं शिरसा गृह्णामि ॥

उद्वासनम्
यज्ञेन यज्ञमयजन्त देवाः
तानि धर्माणि प्रथमा न्यासन् ।
तेहनाकं महिमानस्सचन्ते
यत्र पूर्वे साध्यास्सन्ति देवाः ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः यथास्थानं उद्वासयामि ॥

ओं शान्तिः शान्तिः शान्तिः ॥


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed