Durga Saptashati Parayana Vidhi – श्री दुर्गा सप्तशती पारायण विधि


श्रीमहागणपतये नमः । श्रीगुरुभ्यो नमः ।

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

आचम्य –
ओं ऐं आत्मतत्त्वं शोधयामि नमः स्वाहा ।
ओं ह्रीं विद्यातत्त्वं शोधयामि नमः स्वाहा ।
ओं क्लीं शिवतत्त्वं शोधयामि नमः स्वाहा ।
ओं ऐं ह्रीं क्लीं सर्वतत्त्वं शोधयामि नमः स्वाहा ।

प्राणायामम् –
मूलमन्त्रेण इडया वायुमापूर्य, कुम्भके चतुर्वारं मूलं पठित्वा, द्विवारं मूलमुच्चरन् पिङ्गलया रेचयेत् ॥

प्रार्थना –
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥
धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः ।
वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि ।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः
गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥

सङ्कल्पम् –
(देशकालौ सङ्कीर्त्य)
अस्माकं सर्वेषां सहकुटुम्बानां क्षेमस्थैर्यायुरारोग्यैश्वराभिवृद्ध्यर्थं, समस्तमङ्गलावाप्त्यर्थं, मम श्रीजगदम्बा प्रसादेन सर्वापन्निवृत्ति द्वारा सर्वाभीष्टफलावाप्त्यर्थं, ममामुकव्याधि नाशपूर्वकं क्षिप्रारोग्यप्राप्त्यर्थं, मम अमुकशत्रुबाधा निवृत्त्यर्थं, ग्रहपीडानिवारणार्थं, पिशाचोपद्रवादि सर्वारिष्टनिवारणार्थं, धर्मार्थकाममोक्ष चतुर्विध पुरुषार्थ फलसिद्धिद्वारा श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यात्मक श्रीचण्डिकापरमेश्वरी प्रीत्यर्थं कवचार्गल कीलक पठन, न्यासपूर्वक नवार्णमन्त्राष्टोत्तरशत जप, रात्रिसुक्त पठन पूर्वकं, देवीसूक्त पठन, नवार्णमन्त्राष्टोत्तरशत जप, रहस्यत्रय पठनान्तं श्रीचण्डीसप्तशत्याः पारायणं करिष्ये ॥

पुस्तकपूजा –
ओं नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥

शापोद्धारमन्त्रः –
ओं ह्रीं क्लीं श्रीं क्रां क्रीं चण्डिके देवि शापानुग्रहं कुरु कुरु स्वाहा ॥

इति सप्तवारं जपेत् ।

उत्कीलन मन्त्रः –
ओं श्रीं क्लीं ह्रीं सप्तशति चण्डिके उत्कीलनं कुरु कुरु स्वाहा ॥

इति एकविंशति वारं जपेत् ।

देवी कवचम्

अर्गला स्तोत्रम्

कीलक स्तोत्रम्

वेदोक्तं रात्रि सूक्तम् – अस्य रात्रीति सूक्तस्य कुशिक ऋषिः, रात्रिर्देवता, गायत्रीच्छन्दः, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठादौ जपे विनियोगः ।

वेदोक्त रात्रि सूक्तम् / तन्त्रोक्त रात्रि सूक्तम्

श्री चण्डी नवार्ण विधि

सप्तशती मालामन्त्रस्य पूर्वन्यासः

प्रथम चरितम्

1 – प्रथमोऽध्यायः (मधुकैटभवध)

मध्यम चरितम्

2 – द्वितीयोऽध्यायः (महिषासुरसैन्यवध)

3 – तृतीयोऽध्यायः (महिषासुरवध)

4 – चतुर्थोऽध्यायः (शक्रादिस्तुति)

उत्तर चरितम्

5 – पञ्चमोऽध्यायः (देवीदूतसंवादं)

6 – षष्ठोऽध्यायः (धूम्रलोचनवध)

7 – सप्तमोऽध्यायः (चण्डमुण्डवध)

8 – अष्टमोऽध्यायः (रक्तबीजवध)

9 – नवमोऽध्यायः (निशुम्भवध)

10 – दशमोऽध्यायः (शुम्भवध)

11 – एकादशोऽध्यायः (नारायणीस्तुति)

12 – द्वादशोऽध्यायः (भगवती वाक्यं)

13 – त्रयोदशोऽध्यायः (सुरथवैश्य वरप्रदानं)

सप्तशती मालामन्त्रस्य उत्तरन्यासः (उपसंहारः)

ततः अष्टोत्तरशतवारं (१०८) नवार्णमन्त्रं जपेत् ॥

श्री चण्डी नवार्ण विधि

ऋग्वेदोक्त देवी सूक्तम् – अहं रुद्रेभिरित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः, आदिशक्तिर्देवता, त्रिष्टुप् छन्दः, द्वितीया जगती, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठान्ते जपे विनियोगः ॥

ऋग्वेदोक्त देवी सूक्तम् / तन्त्रोक्त देवी सूक्तम्

रहस्य त्रयम्

प्राधानिक रहस्यम्

वैकृतिक रहस्यम्

मूर्ति रहस्यम्

अपराधक्षमापण स्तोत्र

अनेन पूर्वोत्तराङ्ग सहित चण्डी सप्तशती पारायणेन भगवती सर्वात्मिका श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यात्मक श्रीचण्डिकापरमेश्वरी सुप्रीता सुप्रसन्ना वरदा भवतु ॥

पुनराचामेत् –
ओं ऐं आत्मतत्त्वं शोधयामि नमः स्वाहा ।
ओं ह्रीं विद्यातत्त्वं शोधयामि नमः स्वाहा ।
ओं क्लीं शिवतत्त्वं शोधयामि नमः स्वाहा ।
ओं ऐं ह्रीं क्लीं सर्वतत्त्वं शोधयामि नमः स्वाहा ।

ओं शान्तिः शान्तिः शान्तिः ॥

॥ इति सप्तशती सम्पूर्णा ॥


सम्पूर्ण श्री दुर्गा सप्तशती पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed