Durga Saptashati Uttara Nyasa (Upasamhara) – सप्तशती मालामन्त्रस्य उत्तरन्यासः (उपसंहारः)


॥ अथ उत्तरन्यासः ॥

करन्यासः –
ओं खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डी परिघायुधा ॥
अङ्गुष्ठाभ्यां नमः ।

ओं शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥
तर्जनीभ्यां नमः ।

ओं प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥
मध्यमाभ्यां नमः ।

ओं सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् ॥
अनामिकाभ्यां नमः ।

ओं खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ॥
कनिष्ठिकाभ्यां नमः ।

ओं सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे नमोऽस्तु ते ॥
करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डी परिघायुधा ॥
हृदयाय नमः ।

ओं शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥
शिरसे स्वाहा ।

ओं प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥
शिखायै वषट् ।

ओं सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् ॥
कवचाय हुम् ।

ओं खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ॥
नेत्रत्रयाय वौषट् ।

ओं सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे नमोऽस्तु ते ॥
अस्त्राय फट् ।

भूर्भुवस्सुवरोमिति दिग्विमोकः ॥

ध्यानम् –
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥

लमित्यादि पञ्चपूजा –
लं पृथिवीतत्त्वात्मिकायै चण्डिकायै नमः गन्धं परिकल्पयामि ।
हं आकाशतत्त्वात्मिकायै चण्डिकायै नमः पुष्पं परिकल्पयामि ।
यं वायुतत्त्वात्मिकायै चण्डिकायै नमः धूपं परिकल्पयामि ।
रं तेजस्तत्त्वात्मिकायै चण्डिकायै नमः दीपं परिकल्पयामि ।
वं अमृततत्त्वात्मिकायै चण्डिकायै नमः अमृतनैवेद्यं परिकल्पयामि ।
सं सर्वतत्त्वात्मिकायै चण्डिकायै नमः सर्वोपचारान् परिकल्पयामि ।

अनेन प्रथम-मध्यम-उत्तमचरित्रस्थ मन्त्रपारयणेन भगवती सर्वात्मिका श्रीचण्डिकापरमेश्वरी प्रीयताम् ॥


सम्पूर्ण श्री दुर्गा सप्तशती पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed