Sri Chandi Navarna Mantra (Navakshari) Vidhi – श्री चण्डी नवार्ण विधि


अस्य श्रीचण्डिकानवार्णमहामन्त्रस्य ब्रह्मविष्णुरुद्राः ऋषयः, गायत्र्युष्णिगनुष्टुभश्छन्दासि, श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यात्मक श्रीचण्डिकापरमेश्वरी देवताः, नन्दा-शाकम्भरी-भीमाः शक्तयः, रक्तदन्तिका-दुर्गा-भ्रामर्यो बीजानि, अग्नि-वायु-सूर्यास्तत्त्वानि, महाकाली-महालक्ष्मी-महासरस्वत्यात्मक श्रीचण्डिकापरमेश्वरी प्रीत्यर्थे जपे विनियोगः ।

ऋष्यादिन्यासः –
ब्रह्म-विष्णु-रुद्र-ऋषिभ्यो नमः शिरसि ।
गायत्र्युष्णिगनुष्टुभश्छन्दोभ्यो नमः मुखे ।
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-देवताभ्यो नमः हृदये ।
नन्दा-शाकम्भरी-भीमाः शक्तिभ्यो नमः दक्षिणस्तने ।
रक्तदन्तिका-दुर्गा-भ्रामर्यो बीजेभ्यो नमः वामस्तने ।
अग्नि-वायु-सूर्य तत्त्वेभ्यो नमः – नाभौ ।
(मूलेन करौ संशोधयेत्)

॥ अथ एकादश न्यासः ॥

— १. मातृका न्यासः

ओं अं नमः – ललाटे ।
ओं आं नमः – मुखे ।
ओं इं नमः – दक्षिणनेत्रे ।
ओं ईं नमः – वामनेत्रे ।
ओं उं नमः – दक्षिणकर्णे ।
ओं ऊं नमः – वामकर्णे ।
ओं ऋं नमः – दक्षिणनसि ।
ओं ॠं नमः – वामनसि ।
ओं लुं* नमः – दक्षिणगण्डे ।
ओं लूं* नमः – वामगण्डे ।
ओं एं नमः – ऊर्ध्वोष्ठे ।
ओं ऐं नमः – अधरोष्ठे ।
ओं ओं नमः – ऊर्ध्वदन्तपङ्क्तौ ।
ओं औं नमः – अधोदन्तपङ्क्तौ ।
ओं अं नमः – शिरसि ।
ओं अः नमः – मुखे ।

ओं कं नमः – दक्षबाहुमूले ।
ओं खं नमः – दक्षकूर्परे ।
ओं गं नमः – दक्षमणिबन्धे ।
ओं घं नमः – दक्षकराङ्गुलिमूले ।
ओं ङं नमः – दक्षकराङ्गुल्यग्रे ।
ओं चं नमः – वामबाहुमूले ।
ओं छं नमः – वामकूर्परे ।
ओं जं नमः – वाममणिबन्धे ।
ओं झं नमः – वामकराङ्गुलिमूले ।
ओं ञं नमः – वामकराङ्गुल्यग्रे ।
ओं टं नमः – दक्षपादमूले ।
ओं ठं नमः – दक्षजानुनि ।
ओं डं नमः – दक्षगुल्फे ।
ओं ढं नमः – दक्षपादाङ्गुलिमूले ।
ओं णं नमः – दक्षपादाङ्गुल्यग्रे ।
ओं तं नमः – वामपादमूले ।
ओं थं नमः – वामजानुनि ।
ओं दं नमः – वामगुल्फे ।
ओं धं नमः – वामपादाङ्गुलिमूले ।
ओं नं नमः – वामपादाङ्गुल्यग्रे ।
ओं पं नमः – दक्षपार्श्वे ।
ओं फं नमः – वामपार्श्वे ।
ओं बं नमः – पृष्ठे ।
ओं भं नमः – नाभौ ।
ओं मं नमः – जठरे ।
ओं यं नमः – हृदि ।
ओं रं नमः – दक्षांसे ।
ओं लं नमः – ककुदि ।
ओं वं नमः – वामांसे ।
ओं शं नमः – हृदादिदक्षहस्तान्ते ।
ओं षं नमः – हृदादिवामहस्तान्ते ।
ओं सं नमः – हृदादिदक्षपादान्ते ।
ओं हं नमः – हृदादिवामपादान्ते ।
ओं लं नमः – जठरे ।
ओं क्षं नमः – मुखे ।
॥ इति मातृकान्यासो देवसारूप्यप्रदः प्रथमः ॥ १ ॥

— २. सारस्वत न्यासः

ओं ऐं ह्रीं क्लीं नमः कनिष्ठयोः ।
ओं ऐं ह्रीं क्लीं नमोऽनामिकयोः ।
ओं ऐं ह्रीं क्लीं नमो मध्यमयोः ।
ओं ऐं ह्रीं क्लीं नमस्तर्जन्योः ।
ओं ऐं ह्रीं क्लीं नमोऽङ्गुष्ठयोः ।
ओं ऐं ह्रीं क्लीं नमः करमध्ये ।
ओं ऐं ह्रीं क्लीं नमः करपृष्ठे ।
ओं ऐं ह्रीं क्लीं नमो मणिबन्धयोः ।
ओं ऐं ह्रीं क्लीं नमः कुर्परयोः ।
ओं ऐं ह्रीं क्लीं नमो हृदयाय नमः ।
ओं ऐं ह्रीं क्लीं नमः शिरसे स्वाहा ।
ओं ऐं ह्रीं क्लीं नमः शिखायै वषट् ।
ओं ऐं ह्रीं क्लीं नमः कवचाय हुम् ।
ओं ऐं ह्रीं क्लीं नमो नेत्रत्रयाय वौषट् ।
ओं ऐं ह्रीं क्लीं नमोऽस्त्राय फट् ।
॥ इति सारस्वतो जाड्यविनाशको द्वितीयः ॥ २ ॥

— ३. मातृगण न्यासः

ओं ह्रीं ब्राह्मी पूर्वस्यां मां पातु ।
ओं ह्रीं माहेश्वरी आग्नेय्यां मां पातु ।
ओं ह्रीं कौमारी दक्षिणस्यां मां पातु ।
ओं ह्रीं वैष्णवी नैरृत्यां मां पातु ।
ओं ह्रीं वाराही पश्चिमायां मां पातु ।
ओं ह्रीं इन्द्राणी वायव्यां मां पातु ।
ओं ह्रीं चामुण्डा उत्तरस्यां मां पातु ।
ओं ह्रीं महालक्ष्मीः ऐशान्यां मां पातु ।
ओं ह्रीं व्योमेश्वरी ऊर्ध्वां मां पातु ।
ओं ह्रीं सप्तद्वीपेश्वरी भूमौ मां पातु ।
ओं ह्रीं कामेश्वरी पाताले मां पातु ।
॥ इति मातृगण न्यासस्त्रैलोक्यविजयप्रदस्तृतीयः ॥ ३ ॥

— ४. नन्दजादि न्यासः

ओं कमलाङ्कुशमण्डिता नन्दजा पूर्वाङ्गं मे पातु ।
ओं खड्गपात्रधरा रक्तदन्तिका दक्षिणाङ्गं मे पातु ।
ओं पुष्पपल्लवसम्युता शाकम्भरी पश्चिमाङ्गं मे पातु ।
ओं धनुर्बाणकरा दुर्गा वामाङ्गं मे पातु ।
ओं शिरःपात्रकरा भीमा मस्तकाच्चरणावधि मां पातु ।
ओं चित्रकान्तिभृद्भ्रामरी पादादिमस्तकान्तं मे पातु ।
॥ इति जरामृत्युहरो नन्दजादि न्यासश्चतुर्थः ॥ ४ ॥

— ५. ब्रह्मादि न्यासः

ओं पादादिनाभिपर्यन्तं ब्रह्मा मां पातु ।
ओं नाभेर्विशुद्धिपर्यन्तं जनार्दनो मां पातु ।
ओं विशुद्धेर्ब्रह्मरन्ध्रातं रुद्रो मां पातु ।
ओं हंसो मे पदद्वयं मे पातु ।
ओं वैनतेयः करद्वयं मे पातु ।
ओं वृषभश्चक्षुषी मे पातु ।
ओं गजाननः सर्वाङ्गं मे पातु ।
ओं आनन्दमयो हरिः परापरौ देहभागौ मे पातु ।
॥ इति सर्वकामप्रदो ब्रह्मादिन्यासः पञ्चमः ॥ ५ ॥

— ६. महालक्ष्म्यादि न्यासः

ओं अष्टादशभुजा महालक्ष्मीर्मध्यभागं मे पातु ।
ओं अष्टभुजा महासरस्वती ऊर्ध्वभागं मे पातु ।
ओं दशभुजा महाकाली अधोभागं मे पातु ।
ओं सिंहो हस्तद्वयं मे पातु ।
ओं परहंसोऽक्षियुगं मे पातु ।
ओं महिषारूढो यमः पदद्वयं मे पातु ।
ओं महेशश्चण्डिकायुक्तः सर्वाङ्गं मे पातु ।
॥ इति महालक्ष्म्यादिन्यासः सद्गतिप्रदः षष्ठः ॥ ६ ॥

— ७. मूलाक्षर न्यासः

ओं ऐं नमो ब्रह्मरन्ध्रे ।
ओं ह्रीं नमो दक्षिणनेत्रे ।
ओं क्लीं नमो वामनेत्रे ।
ओं चां नमो दक्षिणकर्णे ।
ओं मुं नमो वामकर्णे ।
ओं डां नमो दक्षिणनासापुटे ।
ओं यैं नमो वामनासापुटे ।
ओं विं नमो मुखे ।
ओं च्चें नमो गुह्ये ।
॥ इति मूलाक्षरन्यासो रोगक्षयकरः सप्तमः ॥ ७ ॥

— ८. विलोमाक्षर न्यासः

ओं च्चें नमो गुह्ये ।
ओं विं नमो मुखे ।
ओं यैं नमो वामनासापुटे ।
ओं डां नमो दक्षिणनासापुटे ।
ओं मुं नमो वामकर्णे ।
ओं चां नमो दक्षिणकर्णे ।
ओं क्लीं नमो वामनेत्रे ।
ओं ह्रीं नमो दक्षिणनेत्रे ।
ओं ऐं नमो ब्रह्मरन्ध्रे ।
॥ इति विलोमाक्षरन्यासः सर्वदुःखनाशकोऽष्टमः ॥ ८ ॥

— ९. मूलव्यापक न्यासः

मूलमुच्चार्य । अष्टवारं व्यापकं कुर्यात् ।
(स यथा – प्रथमं पुरतो मूलेन मस्तकाच्चरणावधि । ततश्चरणान्मस्तकावधि मूलोच्चारेण व्यापकं कुर्यात् । एवं दक्षिणतः पश्चाद्वामभागे चेति प्रतिदिग्भागे अनुलोमविलोमतया द्विर्द्विरिति अष्टवारं व्यापकं भवति ।)
॥ इति देवताप्राप्तिकारो मूलव्यापको नवमः ॥ ९ ॥

— १०. मूलषडङ्गन्यासः

(मूलमन्त्रः) हृदयाय नमः ।
(मूलमन्त्रः) शिरसे स्वाहा ।
(मूलमन्त्रः) शिखायै वषट् ।
(मूलमन्त्रः) कवचाय हुम् ।
(मूलमन्त्रः) नेत्रत्रयाय वौषट् ।
(मूलमन्त्रः) अस्त्राय फट् ।
॥ इति मूलषडङ्गन्यासस्त्रैलोक्यवशकरो दशमः ॥ १० ॥

— ११. सूक्तादि बीजत्रय न्यासः

खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डी परिघायुधा ॥ १ ॥
सौम्यासौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ।
परापराणां परमा त्वमेव परमेश्वरी ॥ २ ॥
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयते मया ॥ ३ ॥
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥ ४ ॥
विष्णुः शरीरग्रहणमहमीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ ५ ॥
आद्यं वाग्बीजं कृष्णतरं ध्यात्वा सर्वाङ्गे विन्यसामि ।
ओं ऐम् । इति सर्वाङ्गे विन्यसेत् ॥

शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टा स्वनेन नः पाहि चापज्यानिःस्वनेन च ॥ १ ॥
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ २ ॥
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् ॥ ३ ॥
खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ॥ ४ ॥
द्वितीयं मायाबीजं सूर्यसदृशं ध्यात्वा सर्वाङ्गे विन्यसामि ।
ओं ह्रीम् । इति सर्वाङ्गे विन्यसेत् ॥

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ १ ॥
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।
पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते ॥ २ ॥
ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥ ३ ॥
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥ ४ ॥
असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः ।
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥ ५ ॥
तृतीयं कामबीजं स्फटिकाभं ध्यात्वा सर्वाङ्गे विन्यसामि ।
ओं क्लीम् । इति सर्वाङ्गे विन्यसेत् ॥

॥ इति सूक्तादिबीजत्रयन्यासः सर्वानिष्टहरः सर्वाभीष्टदः सर्वरक्षाकरश्चैकादशः ॥ ११ ॥

करन्यासः –
ओं ऐं अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं क्लीं मध्यमाभ्यां नमः ।
ओं चामुण्डायै अनामिकाभ्यां नमः ।
ओं विच्चे कनिष्ठिकाभ्यां नमः ।
ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं ऐं हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं क्लीं शिखायै वषट् ।
ओं चामुण्डायै कवचाय हुम् ।
ओं विच्चे नेत्रत्रयाय वौषट् ।
ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् ।

अक्षरन्यासः –
ओं ऐं नमः शिखायाम् ।
ओं ह्रीं नमः दक्षिणनेत्रे । ओं क्लीं नमः वामनेत्रे ।
ओं चां नमः दक्षिणकर्णे । ओं मुं नमः वामकर्णे ।
ओं डां नमः दक्षिणनासापुटे । ओं यैं नमः वामनासापुटे ।
ओं विं नमः मुखे । ओं च्चें नमः गुह्ये ।
एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्यात् ।

दिङ्न्यासः –
ओं ऐं प्राच्यै नमः । ओं ऐं आग्नेय्यै नमः ।
ओं ह्रीं दक्षिणायै नमः । ओं ह्रीं नैरृत्यै नमः ।
ओं क्लीं प्रतीच्यै नमः । ओं क्लीं वायव्यै नमः ।
ओं चामुण्डायै उदीच्यै नमः । ओं विच्चे ईशान्यै नमः ।
ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नमः ।
ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः ।

ध्यानम् –
खड्गं चक्रगदेषुचापपरिघान् शूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत् स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥

अक्षस्रक्परशूगदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥

घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
-पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥

लमित्यादि पञ्चपूजा –
लं पृथिवीतत्त्वात्मिकायै चण्डिकायै नमः गन्धं परिकल्पयामि ।
हं आकाशतत्त्वात्मिकायै चण्डिकायै नमः पुष्पं परिकल्पयामि ।
यं वायुतत्त्वात्मिकायै चण्डिकायै नमः धूपं परिकल्पयामि ।
रं तेजस्तत्त्वात्मिकायै चण्डिकायै नमः दीपं परिकल्पयामि ।
वं अमृततत्त्वात्मिकायै चण्डिकायै नमः अमृतनैवेद्यं परिकल्पयामि ।
सं सर्वतत्त्वात्मिकायै चण्डिकायै नमः सर्वोपचारान् परिकल्पयामि ।

माला प्रार्थना –
ऐं ह्रीं अक्षमालिकायै नमः ।
ओं मां माले महामाये सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥

अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे ।
जपकाले च सिद्ध्यर्थं प्रसीद मम सिद्धये ॥

ओं सिद्ध्यै नमः ।

मन्त्रः –
ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे । अष्टोत्तरशतवारं (१०८) जपेत् ।

उत्तरन्यासः –
ओं ऐं हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं क्लीं शिखायै वषट् ।
ओं चामुण्डायै कवचाय हुम् ।
ओं विच्चे नेत्रत्रयाय वौषट् ।
ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् ।

ध्यानम् –
खड्गं चक्रगदेषुचापपरिघान् शूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत् स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥

अक्षस्रक्परशूगदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥

घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
-पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥

लमित्यादि पञ्चपूजा –
लं पृथिवीतत्त्वात्मिकायै चण्डिकायै नमः गन्धं परिकल्पयामि ।
हं आकाशतत्त्वात्मिकायै चण्डिकायै नमः पुष्पं परिकल्पयामि ।
यं वायुतत्त्वात्मिकायै चण्डिकायै नमः धूपं परिकल्पयामि ।
रं तेजस्तत्त्वात्मिकायै चण्डिकायै नमः दीपं परिकल्पयामि ।
वं अमृततत्त्वात्मिकायै चण्डिकायै नमः अमृतनैवेद्यं परिकल्पयामि ।
सं सर्वतत्त्वात्मिकायै चण्डिकायै नमः सर्वोपचारान् परिकल्पयामि ।

जपसमर्पणम् –
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥

अनेन श्रीचण्डिका नवाक्षरी महामन्त्रजपेन भगवती सर्वात्मिका श्रीचण्डिकापरमेश्वरी प्रीयताम् ॥


सम्पूर्ण श्री दुर्गा सप्तशती पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed