Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीचण्डिकानवार्णमहामन्त्रस्य ब्रह्मविष्णुरुद्राः ऋषयः, गायत्र्युष्णिगनुष्टुभश्छन्दासि, श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यात्मक श्रीचण्डिकापरमेश्वरी देवताः, नन्दा-शाकम्भरी-भीमाः शक्तयः, रक्तदन्तिका-दुर्गा-भ्रामर्यो बीजानि, अग्नि-वायु-सूर्यास्तत्त्वानि, महाकाली-महालक्ष्मी-महासरस्वत्यात्मक श्रीचण्डिकापरमेश्वरी प्रीत्यर्थे जपे विनियोगः ।
ऋष्यादिन्यासः –
ब्रह्म-विष्णु-रुद्र-ऋषिभ्यो नमः शिरसि ।
गायत्र्युष्णिगनुष्टुभश्छन्दोभ्यो नमः मुखे ।
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-देवताभ्यो नमः हृदये ।
नन्दा-शाकम्भरी-भीमाः शक्तिभ्यो नमः दक्षिणस्तने ।
रक्तदन्तिका-दुर्गा-भ्रामर्यो बीजेभ्यो नमः वामस्तने ।
अग्नि-वायु-सूर्य तत्त्वेभ्यो नमः – नाभौ ।
(मूलेन करौ संशोधयेत्)
॥ अथ एकादश न्यासः ॥
— १. मातृका न्यासः
ओं अं नमः – ललाटे ।
ओं आं नमः – मुखे ।
ओं इं नमः – दक्षिणनेत्रे ।
ओं ईं नमः – वामनेत्रे ।
ओं उं नमः – दक्षिणकर्णे ।
ओं ऊं नमः – वामकर्णे ।
ओं ऋं नमः – दक्षिणनसि ।
ओं ॠं नमः – वामनसि ।
ओं लुं* नमः – दक्षिणगण्डे ।
ओं लूं* नमः – वामगण्डे ।
ओं एं नमः – ऊर्ध्वोष्ठे ।
ओं ऐं नमः – अधरोष्ठे ।
ओं ओं नमः – ऊर्ध्वदन्तपङ्क्तौ ।
ओं औं नमः – अधोदन्तपङ्क्तौ ।
ओं अं नमः – शिरसि ।
ओं अः नमः – मुखे ।
ओं कं नमः – दक्षबाहुमूले ।
ओं खं नमः – दक्षकूर्परे ।
ओं गं नमः – दक्षमणिबन्धे ।
ओं घं नमः – दक्षकराङ्गुलिमूले ।
ओं ङं नमः – दक्षकराङ्गुल्यग्रे ।
ओं चं नमः – वामबाहुमूले ।
ओं छं नमः – वामकूर्परे ।
ओं जं नमः – वाममणिबन्धे ।
ओं झं नमः – वामकराङ्गुलिमूले ।
ओं ञं नमः – वामकराङ्गुल्यग्रे ।
ओं टं नमः – दक्षपादमूले ।
ओं ठं नमः – दक्षजानुनि ।
ओं डं नमः – दक्षगुल्फे ।
ओं ढं नमः – दक्षपादाङ्गुलिमूले ।
ओं णं नमः – दक्षपादाङ्गुल्यग्रे ।
ओं तं नमः – वामपादमूले ।
ओं थं नमः – वामजानुनि ।
ओं दं नमः – वामगुल्फे ।
ओं धं नमः – वामपादाङ्गुलिमूले ।
ओं नं नमः – वामपादाङ्गुल्यग्रे ।
ओं पं नमः – दक्षपार्श्वे ।
ओं फं नमः – वामपार्श्वे ।
ओं बं नमः – पृष्ठे ।
ओं भं नमः – नाभौ ।
ओं मं नमः – जठरे ।
ओं यं नमः – हृदि ।
ओं रं नमः – दक्षांसे ।
ओं लं नमः – ककुदि ।
ओं वं नमः – वामांसे ।
ओं शं नमः – हृदादिदक्षहस्तान्ते ।
ओं षं नमः – हृदादिवामहस्तान्ते ।
ओं सं नमः – हृदादिदक्षपादान्ते ।
ओं हं नमः – हृदादिवामपादान्ते ।
ओं लं नमः – जठरे ।
ओं क्षं नमः – मुखे ।
॥ इति मातृकान्यासो देवसारूप्यप्रदः प्रथमः ॥ १ ॥
— २. सारस्वत न्यासः
ओं ऐं ह्रीं क्लीं नमः कनिष्ठयोः ।
ओं ऐं ह्रीं क्लीं नमोऽनामिकयोः ।
ओं ऐं ह्रीं क्लीं नमो मध्यमयोः ।
ओं ऐं ह्रीं क्लीं नमस्तर्जन्योः ।
ओं ऐं ह्रीं क्लीं नमोऽङ्गुष्ठयोः ।
ओं ऐं ह्रीं क्लीं नमः करमध्ये ।
ओं ऐं ह्रीं क्लीं नमः करपृष्ठे ।
ओं ऐं ह्रीं क्लीं नमो मणिबन्धयोः ।
ओं ऐं ह्रीं क्लीं नमः कुर्परयोः ।
ओं ऐं ह्रीं क्लीं नमो हृदयाय नमः ।
ओं ऐं ह्रीं क्लीं नमः शिरसे स्वाहा ।
ओं ऐं ह्रीं क्लीं नमः शिखायै वषट् ।
ओं ऐं ह्रीं क्लीं नमः कवचाय हुम् ।
ओं ऐं ह्रीं क्लीं नमो नेत्रत्रयाय वौषट् ।
ओं ऐं ह्रीं क्लीं नमोऽस्त्राय फट् ।
॥ इति सारस्वतो जाड्यविनाशको द्वितीयः ॥ २ ॥
— ३. मातृगण न्यासः
ओं ह्रीं ब्राह्मी पूर्वस्यां मां पातु ।
ओं ह्रीं माहेश्वरी आग्नेय्यां मां पातु ।
ओं ह्रीं कौमारी दक्षिणस्यां मां पातु ।
ओं ह्रीं वैष्णवी नैरृत्यां मां पातु ।
ओं ह्रीं वाराही पश्चिमायां मां पातु ।
ओं ह्रीं इन्द्राणी वायव्यां मां पातु ।
ओं ह्रीं चामुण्डा उत्तरस्यां मां पातु ।
ओं ह्रीं महालक्ष्मीः ऐशान्यां मां पातु ।
ओं ह्रीं व्योमेश्वरी ऊर्ध्वां मां पातु ।
ओं ह्रीं सप्तद्वीपेश्वरी भूमौ मां पातु ।
ओं ह्रीं कामेश्वरी पाताले मां पातु ।
॥ इति मातृगण न्यासस्त्रैलोक्यविजयप्रदस्तृतीयः ॥ ३ ॥
— ४. नन्दजादि न्यासः
ओं कमलाङ्कुशमण्डिता नन्दजा पूर्वाङ्गं मे पातु ।
ओं खड्गपात्रधरा रक्तदन्तिका दक्षिणाङ्गं मे पातु ।
ओं पुष्पपल्लवसम्युता शाकम्भरी पश्चिमाङ्गं मे पातु ।
ओं धनुर्बाणकरा दुर्गा वामाङ्गं मे पातु ।
ओं शिरःपात्रकरा भीमा मस्तकाच्चरणावधि मां पातु ।
ओं चित्रकान्तिभृद्भ्रामरी पादादिमस्तकान्तं मे पातु ।
॥ इति जरामृत्युहरो नन्दजादि न्यासश्चतुर्थः ॥ ४ ॥
— ५. ब्रह्मादि न्यासः
ओं पादादिनाभिपर्यन्तं ब्रह्मा मां पातु ।
ओं नाभेर्विशुद्धिपर्यन्तं जनार्दनो मां पातु ।
ओं विशुद्धेर्ब्रह्मरन्ध्रातं रुद्रो मां पातु ।
ओं हंसो मे पदद्वयं मे पातु ।
ओं वैनतेयः करद्वयं मे पातु ।
ओं वृषभश्चक्षुषी मे पातु ।
ओं गजाननः सर्वाङ्गं मे पातु ।
ओं आनन्दमयो हरिः परापरौ देहभागौ मे पातु ।
॥ इति सर्वकामप्रदो ब्रह्मादिन्यासः पञ्चमः ॥ ५ ॥
— ६. महालक्ष्म्यादि न्यासः
ओं अष्टादशभुजा महालक्ष्मीर्मध्यभागं मे पातु ।
ओं अष्टभुजा महासरस्वती ऊर्ध्वभागं मे पातु ।
ओं दशभुजा महाकाली अधोभागं मे पातु ।
ओं सिंहो हस्तद्वयं मे पातु ।
ओं परहंसोऽक्षियुगं मे पातु ।
ओं महिषारूढो यमः पदद्वयं मे पातु ।
ओं महेशश्चण्डिकायुक्तः सर्वाङ्गं मे पातु ।
॥ इति महालक्ष्म्यादिन्यासः सद्गतिप्रदः षष्ठः ॥ ६ ॥
— ७. मूलाक्षर न्यासः
ओं ऐं नमो ब्रह्मरन्ध्रे ।
ओं ह्रीं नमो दक्षिणनेत्रे ।
ओं क्लीं नमो वामनेत्रे ।
ओं चां नमो दक्षिणकर्णे ।
ओं मुं नमो वामकर्णे ।
ओं डां नमो दक्षिणनासापुटे ।
ओं यैं नमो वामनासापुटे ।
ओं विं नमो मुखे ।
ओं च्चें नमो गुह्ये ।
॥ इति मूलाक्षरन्यासो रोगक्षयकरः सप्तमः ॥ ७ ॥
— ८. विलोमाक्षर न्यासः
ओं च्चें नमो गुह्ये ।
ओं विं नमो मुखे ।
ओं यैं नमो वामनासापुटे ।
ओं डां नमो दक्षिणनासापुटे ।
ओं मुं नमो वामकर्णे ।
ओं चां नमो दक्षिणकर्णे ।
ओं क्लीं नमो वामनेत्रे ।
ओं ह्रीं नमो दक्षिणनेत्रे ।
ओं ऐं नमो ब्रह्मरन्ध्रे ।
॥ इति विलोमाक्षरन्यासः सर्वदुःखनाशकोऽष्टमः ॥ ८ ॥
— ९. मूलव्यापक न्यासः
मूलमुच्चार्य । अष्टवारं व्यापकं कुर्यात् ।
(स यथा – प्रथमं पुरतो मूलेन मस्तकाच्चरणावधि । ततश्चरणान्मस्तकावधि मूलोच्चारेण व्यापकं कुर्यात् । एवं दक्षिणतः पश्चाद्वामभागे चेति प्रतिदिग्भागे अनुलोमविलोमतया द्विर्द्विरिति अष्टवारं व्यापकं भवति ।)
॥ इति देवताप्राप्तिकारो मूलव्यापको नवमः ॥ ९ ॥
— १०. मूलषडङ्गन्यासः
(मूलमन्त्रः) हृदयाय नमः ।
(मूलमन्त्रः) शिरसे स्वाहा ।
(मूलमन्त्रः) शिखायै वषट् ।
(मूलमन्त्रः) कवचाय हुम् ।
(मूलमन्त्रः) नेत्रत्रयाय वौषट् ।
(मूलमन्त्रः) अस्त्राय फट् ।
॥ इति मूलषडङ्गन्यासस्त्रैलोक्यवशकरो दशमः ॥ १० ॥
— ११. सूक्तादि बीजत्रय न्यासः
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डी परिघायुधा ॥ १ ॥
सौम्यासौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ।
परापराणां परमा त्वमेव परमेश्वरी ॥ २ ॥
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयते मया ॥ ३ ॥
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥ ४ ॥
विष्णुः शरीरग्रहणमहमीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ ५ ॥
आद्यं वाग्बीजं कृष्णतरं ध्यात्वा सर्वाङ्गे विन्यसामि ।
ओं ऐम् । इति सर्वाङ्गे विन्यसेत् ॥
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टा स्वनेन नः पाहि चापज्यानिःस्वनेन च ॥ १ ॥
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ २ ॥
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् ॥ ३ ॥
खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ॥ ४ ॥
द्वितीयं मायाबीजं सूर्यसदृशं ध्यात्वा सर्वाङ्गे विन्यसामि ।
ओं ह्रीम् । इति सर्वाङ्गे विन्यसेत् ॥
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ १ ॥
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।
पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते ॥ २ ॥
ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥ ३ ॥
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥ ४ ॥
असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः ।
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥ ५ ॥
तृतीयं कामबीजं स्फटिकाभं ध्यात्वा सर्वाङ्गे विन्यसामि ।
ओं क्लीम् । इति सर्वाङ्गे विन्यसेत् ॥
॥ इति सूक्तादिबीजत्रयन्यासः सर्वानिष्टहरः सर्वाभीष्टदः सर्वरक्षाकरश्चैकादशः ॥ ११ ॥
करन्यासः –
ओं ऐं अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं क्लीं मध्यमाभ्यां नमः ।
ओं चामुण्डायै अनामिकाभ्यां नमः ।
ओं विच्चे कनिष्ठिकाभ्यां नमः ।
ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ओं ऐं हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं क्लीं शिखायै वषट् ।
ओं चामुण्डायै कवचाय हुम् ।
ओं विच्चे नेत्रत्रयाय वौषट् ।
ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् ।
अक्षरन्यासः –
ओं ऐं नमः शिखायाम् ।
ओं ह्रीं नमः दक्षिणनेत्रे । ओं क्लीं नमः वामनेत्रे ।
ओं चां नमः दक्षिणकर्णे । ओं मुं नमः वामकर्णे ।
ओं डां नमः दक्षिणनासापुटे । ओं यैं नमः वामनासापुटे ।
ओं विं नमः मुखे । ओं च्चें नमः गुह्ये ।
एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्यात् ।
दिङ्न्यासः –
ओं ऐं प्राच्यै नमः । ओं ऐं आग्नेय्यै नमः ।
ओं ह्रीं दक्षिणायै नमः । ओं ह्रीं नैरृत्यै नमः ।
ओं क्लीं प्रतीच्यै नमः । ओं क्लीं वायव्यै नमः ।
ओं चामुण्डायै उदीच्यै नमः । ओं विच्चे ईशान्यै नमः ।
ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नमः ।
ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः ।
ध्यानम् –
खड्गं चक्रगदेषुचापपरिघान् शूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत् स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥
अक्षस्रक्परशूगदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥
घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
-पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥
लमित्यादि पञ्चपूजा –
लं पृथिवीतत्त्वात्मिकायै चण्डिकायै नमः गन्धं परिकल्पयामि ।
हं आकाशतत्त्वात्मिकायै चण्डिकायै नमः पुष्पं परिकल्पयामि ।
यं वायुतत्त्वात्मिकायै चण्डिकायै नमः धूपं परिकल्पयामि ।
रं तेजस्तत्त्वात्मिकायै चण्डिकायै नमः दीपं परिकल्पयामि ।
वं अमृततत्त्वात्मिकायै चण्डिकायै नमः अमृतनैवेद्यं परिकल्पयामि ।
सं सर्वतत्त्वात्मिकायै चण्डिकायै नमः सर्वोपचारान् परिकल्पयामि ।
माला प्रार्थना –
ऐं ह्रीं अक्षमालिकायै नमः ।
ओं मां माले महामाये सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥
अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे ।
जपकाले च सिद्ध्यर्थं प्रसीद मम सिद्धये ॥
ओं सिद्ध्यै नमः ।
मन्त्रः –
ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे । अष्टोत्तरशतवारं (१०८) जपेत् ।
उत्तरन्यासः –
ओं ऐं हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं क्लीं शिखायै वषट् ।
ओं चामुण्डायै कवचाय हुम् ।
ओं विच्चे नेत्रत्रयाय वौषट् ।
ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् ।
ध्यानम् –
खड्गं चक्रगदेषुचापपरिघान् शूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत् स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥
अक्षस्रक्परशूगदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥
घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
-पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥
लमित्यादि पञ्चपूजा –
लं पृथिवीतत्त्वात्मिकायै चण्डिकायै नमः गन्धं परिकल्पयामि ।
हं आकाशतत्त्वात्मिकायै चण्डिकायै नमः पुष्पं परिकल्पयामि ।
यं वायुतत्त्वात्मिकायै चण्डिकायै नमः धूपं परिकल्पयामि ।
रं तेजस्तत्त्वात्मिकायै चण्डिकायै नमः दीपं परिकल्पयामि ।
वं अमृततत्त्वात्मिकायै चण्डिकायै नमः अमृतनैवेद्यं परिकल्पयामि ।
सं सर्वतत्त्वात्मिकायै चण्डिकायै नमः सर्वोपचारान् परिकल्पयामि ।
जपसमर्पणम् –
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥
अनेन श्रीचण्डिका नवाक्षरी महामन्त्रजपेन भगवती सर्वात्मिका श्रीचण्डिकापरमेश्वरी प्रीयताम् ॥
सम्पूर्ण श्री दुर्गा सप्तशती पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

