Naga Panchami Puja Vidhi – नाग पञ्चमी पूजा पद्धतिः


पूर्वाङ्गं पश्यतु ॥

श्री महागणपति पूजा (हरिद्रा गणपति पूजा) पश्यतु ॥

पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायं शुभ तिथौ मम सकुटुम्बस्य सपरिवारस्य सर्वदा सर्पभय निवृतिद्वारा सर्वाभीष्टसिद्ध्यर्थं नागदेवताप्रीत्यर्थं नागराजस्य षोडशोपचारपूजां करिष्ये ।

अस्मिन् नागप्रतिमे नागराजान् आवाहयामि स्थापयामि पूजयामि ।

ध्यानम् –
अनन्तं वासुकिं शेषं पद्मकम्बलकौ तथा ।
तथा कार्कोटकं नागं भुजङ्गाश्वतरौ तथा ॥
धृतराष्ट्रं शङ्खपालं कालीयं तक्षकं तथा ।
पिङ्गलं च महानागं सपत्नीकान्प्रपूजयेत् ॥
ब्रह्माण्डाधारभूतं च भुवनान्तरवासिनम् ।
फणयुक्तमहं ध्याये नागराजं हरिप्रियम् ॥
ओं नागराजेभ्यो नमः ध्यायामि ।

आवाहनम् –
आगच्छानन्त देवेश काल पन्नगनायक ।
अनन्तशयनीयं त्वां भक्त्या ह्यावाहयाम्यहम् ॥
ओं अनन्ताय नमः अनन्तं आवाहयामि ।
ओं वासुकये नमः वासुकीं आवाहयामि ।
ओं शेषाय नमः शेषं आवाहयामि ।
ओं पद्माय नमः पद्मं आवाहयामि ।
ओं कम्बलाय नमः कम्बलं आवाहयामि ।
ओं कार्कोटकाय नमः कार्कोटकं आवाहयामि ।
ओं भुजङ्गाय नमः भुजङ्गं आवाहयामि ।
ओं अश्वतराय नमः अश्वतरं आवाहयामि ।
ओं धृतराष्ट्राय नमः धृतराष्ट्रं आवाहयामि ।
ओं शङ्खपालाय नमः शङ्खपालं आवाहयामि ।
ओं कालियाय नमः कालियं आवाहयामि ।
ओं तक्षकाय नमः तक्षकं आवाहयामि ।
ओं पिङ्गलाय नमः पिङ्गलं आवाहयामि ।
नागपत्नीभ्यो नमः नागपत्नीः आवाहयामि ॥
ओं नागराजेभ्यो नमः आवाहयामि ।

आसनम् –
नवनागकुलाधीश शेषोद्धारक काश्यप ।
नानारत्नसमायुक्तमासनं प्रतिगृह्यताम् ॥
ओं नागराजेभ्यो नमः आसनं समर्पयामि ।

पाद्यम् –
अनन्तप्रिय शेषेश जगदाधारविग्रह ।
पाद्यं गृहाण मद्दत्तं काद्रवेय नमोऽस्तु ते ॥
ओं नागराजेभ्यो नमः पाद्यं समर्पयामि ।

अर्घ्यम् –
कश्यपानन्दजनक मुनिवन्दित भोः प्रभो ।
अर्घ्यं गृहाण सर्वज्ञ सादरं शङ्करप्रिय ॥
ओं नागराजेभ्यो नमः अर्घ्यं समर्पयामि ।

आचमनम् –
सहस्रफणिरूपेण वसुधोद्धारक प्रभो ।
गृहाणाचमनं देव पावनं च सुशीतलम् ॥
ओं नागराजेभ्यो नमः आचमनं समर्पयामि ।

मधुपर्कम् –
कुमाररूपिणे तुभ्यं दधिमध्वाज्यसम्युतम् ।
मधुपर्कं प्रदास्यामि सर्पराज नमोऽस्तु ते ॥
ओं नागराजेभ्यो नमः मधुपर्कं समर्पयामि ।

पञ्चामृतस्नानम् –
पयोदधिघृतं चैव मधुशर्करयान्वितम् ।
पञ्चामृतस्नानमिदं स्वीकुरुष्व दयानिधे ॥
ओं नागराजेभ्यो नमः पञ्चामृतस्नानं समर्पयामि ।

शुद्धोदकस्नानम् –
गङ्गादिपुण्यतीर्थैस्त्वामभिषिञ्चेयमादरात् ।
बलभद्रावतारेश नागेश श्रीपतेस्सखे ॥
ओं नागराजेभ्यो नमः स्नानं समर्पयामि ।
स्नानानन्तरं आचमनीयं समर्पयामि ।

वस्त्रम् –
कौशेययुग्मं देवेश प्रीत्या तव मयार्पितम् ।
पन्नगाधीश नागेश तार्क्ष्यशत्रो नमोऽस्तु ते ॥
ओं नागराजेभ्यो नमः वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतम् –
सुवर्णनिर्मितं सूत्रं ग्रथितकण्ठहारकम् ।
अनेकरत्नैः खचितं सर्पराज नमोऽस्तु ते ॥
ओं नागराजेभ्यो नमः यज्ञोपवीतं समर्पयामि ।

आभरणम् –
अनेकरत्नान्वितहेमकुण्डले
माणिक्यसङ्काशित कङ्कणद्वयम् ।
हैमाङ्गुलीयं कृतरत्नमुद्रिकं
हैमं किरीटं फणिराज तेऽर्पितम् ।
ओं नागराजेभ्यो नमः आभरणानि समर्पयामि ।

गन्धम् –
चन्दनागरुकस्तूरीघनसारसमन्वितम् ।
गन्धं गृहाण देवेश सर्वगन्धमनोहर ॥
ओं नागराजेभ्यो नमः गन्धं समर्पयामि ।

अक्षतान् –
अक्षतांश्च सुरश्रेष्ठ कुङ्कुमाक्तान्सुशोभितान् ।
मया निवेदितान्भक्त्या गृहाण पवनाशन ॥
ओं नागराजेभ्यो नमः अक्षतान् समर्पयामि ।
नागपत्नीभ्यो नमः हरिद्राकुङ्कुमादि दिव्यालङ्कारांश्च समर्पयामि ।

पुष्पम् –
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मया हृतानि पूजार्थं पुष्पाणि स्वीकुरुष्व भो ॥
ओं नागराजेभ्यो नमः पुष्पाणि समर्पयामि ।

अथाङ्गपूजा –
ओं सहस्रपादाय नमः पादौ पूजयामि ।
ओं गूढगुल्फाय नमः गुल्फौ पूजयामि ।
ओं हेमजङ्घाय नमः जङ्घे पूजयामि ।
ओं मन्दगतये नमः जानुनी पूजयामि ।
ओं पीताम्बरधराय नमः कटिं पूजयामि ।
ओं गम्भीरनाभये नमः नाभिं पूजयामि ।
ओं पवनाशनाय नमः उदरं पूजयामि ।
ओं उरगाय नमः हस्तौ पूजयामि ।
ओं कालियाय नमः भुजौ पूजयामि ।
ओं कम्बुकण्ठाय नमः कण्ठं पूजयामि ।
ओं विषवक्त्राय नमः वक्त्रं पूजयामि ।
ओं फणभूषणाय नमः ललाटं पूजयामि ।
ओं लक्ष्मणाय नमः शिरं पूजयामि ।
ओं नागराजाय नमः सर्वाङ्गं पूजयामि ।

अष्टोत्तरशतनाम पूजा –

श्री नागदेवता अष्टोत्तरशतनामावली पश्यतु ।

धूपम् –
दशाङ्गं गुग्गुलोपेतं सुगन्धं च मनोहरम् ।
धूपं दास्यामि नागेश कृपया त्वं गृहाण तम् ॥
ओं नागराजेभ्यो नमः धूपमाघ्रापयामि ।

दीपम् –
घृताक्तवर्तिसम्युक्तमन्धकारविनाशकम् ।
दीपं दास्यामि ते देव गृहाण मुदितो भव ॥
ओं नागराजेभ्यो नमः दीपं दर्शयामि ।

नैवेद्यम् –
नैवेद्यं षड्रसोपेतं दधिमध्वाज्यसम्युतम् ।
नानाभक्ष्यफलोपेतं गृहाणाभीष्टदायक ॥
[क्षीरदधिघृतशर्करापायसलाजन् समर्प्य]
ओं नागराजेभ्यो नमः नैवेद्यं समर्पयामि ।
घनसारसुगन्धेन मिश्रितं पुष्पवासितम् ।
पानीयं गृह्यतां देव शीतलं सुमनोहरम् ॥
मध्ये मध्ये पानीयं समर्पयामि ।
हस्तप्रक्षालनं समर्पयामि ।
मुखप्रक्षालनं समर्पयामि ।
आचमनीयं समर्पयामि ।

फलम् –
बीजपूराम्रपनसखर्जूरी कदलीफलम् ।
नारिकेलफलं दिव्यं गृहाण सुरपूजित ॥
ओं नागराजेभ्यो नमः नानाविधफलानि समर्पयामि ।

ताम्बूलम् –
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचूर्णसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं नागराजेभ्यो नमः ताम्बूलं समर्पयामि ।

दक्षिणम् –
सुवर्णं सर्वधातूनां श्रेष्ठं देयं च तत्सदा ।
भक्त्या ददामि वरद स्वर्णवृद्धिं च देहि मे ॥
ओं नागराजेभ्यो नमः सुवर्णपुष्पदक्षिणां समर्पयामि ।

नीराजनम् –
नीराजनं सुमङ्गल्यं कर्पूरेण समन्वितम् ।
वह्निचन्द्रार्कसदृशं गृहाण दुरितापह ॥
ओं नागराजेभ्यो नमः कर्पूरनीराजनं समर्पयामि ।

मन्त्रपुष्पम् –
नानाकुसुमसम्युक्तं पुष्पाञ्जलिमिमं प्रभो ।
कश्यपानन्दजनक सर्पराज गृहाण मे ॥
ओं नागराजेभ्यो नमः मन्त्रपुष्पाञ्जलिं समर्पयामि ।

छत्र-चामर-दर्पण-नृत्त-गीत-वाद्यान्दोलिकादि समस्तराजोपचारान् समर्पयामि ॥

प्रदक्षिण –
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि विनश्यन्तु प्रदक्षिण पदे पदे ॥
ओं नागराजेभ्यो नमः प्रदक्षिणनमस्कारान् समर्पयामि ।

नमस्कारम् –
नमस्ते सर्वलोकेश नमस्ते लोकवन्दित ।
नमस्तेऽस्तु सदा नाग त्राहि मां दुःखसागरात् ॥
ओं नागराजेभ्यो नमः नमस्कारान् समर्पयामि ।

प्रार्थना –
अज्ञानात् ज्ञानतो वापि यन्मया पूजनं कृतम् ।
न्यूनातिरिक्तं तत्सर्वं भो नागाः क्षन्तुमर्हथ ॥
युष्मत्प्रसादात्सफला मम सन्तु मनोरथाः ।
सर्वदा मत्कृते मास्तु भयं सर्पविषोद्भवम् ॥

समर्पणम् –
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥

अनया मया कृत षोडशोपचार पूजया नागराजाः सुप्रीतो सुप्रसन्नो वरदो भवतु ।

वायनदान मन्त्रः –
नागेशः प्रतिगृह्णाति नागेशो वै ददाति च ।
नागेशस्तारको द्वाभ्यां नागेशाय नमो नमः ॥

ओं शान्तिः शान्तिः शान्तिः ।

इति नागपञ्चमी पूजा समाप्ता ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed