Sri Varaha Kavacham – श्री वराह कवचम्



आद्यं रङ्गमिति प्रोक्तं विमानं रङ्गसञ्ज्ञितम् ।
श्रीमुष्णं वेङ्कटाद्रिं च सालग्रामं च नैमिशम् ॥

तोयाद्रिं पुष्करं चैव नरनारायणाश्रमम् ।
अष्टौ मे मूर्तयः सन्ति स्वयंव्यक्ता महीतले ॥

श्रीसूत उवाच ।
श्रीरुद्रमुखनिर्णीतमुरारिगुणसत्कथा ।
सन्तुष्टा पार्वती प्राह शङ्करं लोकशङ्करम् ॥ १ ॥

श्रीपार्वत्युवाच ।
श्रीमुष्णेशस्य माहात्म्यं वराहस्य महात्मनः ।
श्रुत्वा तृप्तिर्न मे जाता मनः कौतूहलायते ।
श्रोतुं तद्देवमाहात्म्यं तस्माद्वर्णय मे पुनः ॥ २ ॥

श्रीशङ्कर उवाच ।
शृणु देवि प्रवक्ष्यामि श्रीमुष्णेशस्य वैभवम् ।
यस्य श्रवणमात्रेण महापापैः प्रमुच्यते ।
सर्वेषामेव तीर्थानां तीर्थराजोऽभिधीयते ॥ ३ ॥

नित्यपुष्करिणी नाम्नी श्रीमुष्णे या च वर्तते ।
जाता श्रमापहा पुण्या वराहश्रमवारिणा ॥ ४ ॥

विष्णोरङ्गुष्ठसंस्पर्शात् पुण्यदा खलु जाह्नवी ।
विष्णोः सर्वाङ्गसम्भूता नित्यपुष्करिणी शुभा ॥ ५ ॥

महानदी सहस्रेण नित्यदा सङ्गता शुभा ।
सकृत् स्नात्वा विमुक्ताघः सद्यो याति हरेः पदम् ॥ ६ ॥

तस्या आग्नेयभागे तु अश्वत्थच्छाययोदके ।
स्नानं कृत्वा पिप्पलस्य कृत्वा चापि प्रदक्षिणम् ॥ ७ ॥

दृष्ट्वा श्वेतवराहं च मासमेकं नयेद्यदि ।
कालमृत्युं विनिर्जित्य श्रिया परमया युतः ॥ ८ ॥

आधिव्याधिविनिर्मुक्तो ग्रहपीडाविवर्जितः ।
भुक्त्वा भोगाननेकांश्च मोक्षमन्ते व्रजेत् ध्रुवम् ॥ ९ ॥

अश्वत्थमूलेऽर्कवारे नित्यपुष्करिणीतटे ।
वराहकवचं जप्त्वा शतवारं जितेन्द्रियः ॥ १० ॥

क्षयापस्मारकुष्ठाद्यैः महारोगैः प्रमुच्यते ।
वराहकवचं यस्तु प्रत्यहं पठते यदि ॥ ११ ॥

शत्रुपीडाविनिर्मुक्तो भूपतित्वमवाप्नुयात् ।
लिखित्वा धारयेद्यस्तु बाहुमूले गलेऽथ वा ॥ १२ ॥

भूतप्रेतपिशाचाद्याः यक्षगन्धर्वराक्षसाः ।
शत्रवो घोरकर्माणो ये चान्ये विषजन्तवः ।
नष्टदर्पा विनश्यन्ति विद्रवन्ति दिशो दश ॥ १३ ॥

श्रीपार्वत्युवाच ।
तद्ब्रूहि कवचं मह्यं येन गुप्तो जगत्त्रये ।
सञ्चरेद्देववन्मर्त्यः सर्वशत्रुविभीषणः ।
येनाप्नोति च साम्राज्यं तन्मे ब्रूहि सदाशिव ॥ १४ ॥

श्रीशङ्कर उवाच ।
शृणु कल्याणि वक्ष्यामि वाराहकवचं शुभम् ।
येन गुप्तो लभेन्मर्त्यो विजयं सर्वसम्पदम् ॥ १५ ॥

अङ्गरक्षाकरं पुण्यं महापातकनाशनम् ।
सर्वरोगप्रशमनं सर्वदुर्ग्रहनाशनम् ॥ १६ ॥

विषाभिचारकृत्यादिशत्रुपीडानिवारणम् ।
नोक्तं कस्यापि पूर्वं हि गोप्याद्गोप्यतरं यतः ॥ १७ ॥

वराहेण पुरा प्रोक्तं मह्यं च परमेष्ठिने ।
युद्धेषु जयदं देवि शत्रुपीडानिवारणम् ॥ १८ ॥

वराहकवचाद्गुप्तो नाऽशुभं लभते नरः ।
वराहकवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ १९ ॥

छन्दोऽनुष्टुप् तथा देवो वराहो भूपरिग्रहः ।
प्रक्षाल्य पादौ पाणी च सम्यगाचम्य वारिणा ॥ २० ॥

कृतस्वाङ्गकरन्यासः सपवित्र उदङ्मुखः ।
ओं भूर्भवः सुवरिति नमो भूपतयेऽपि च ॥ २१ ॥

नमो भगवते पश्चात् वराहाय नमस्तथा ।
एवं षडङ्गं न्यासं च न्यसेदङ्गुलिषु क्रमात् ॥ २२ ॥

नमः श्वेतवराहाय महाकोलाय भूपते ।
यज्ञाङ्गाय शुभाङ्गाय सर्वज्ञाय परात्मने ॥ २३ ॥

स्रवतुण्डाय धीराय परब्रह्मस्वरूपिणे ।
वक्रदंष्ट्राय नित्याय नमोऽन्तैर्नामभिः क्रमात् ॥ २४ ॥

अङ्गुलीषु न्यसेद्विद्वान् करपृष्ठतलेष्वपि ।
ध्यात्वा श्वेतवराहं च पश्चान्मन्त्रमुदीरयेत् ॥ २५ ॥

ध्यानम् –
ओम् । श्वेतं वराहवपुषं क्षितिमुद्धरन्तं
शङ्घारिसर्ववरदाऽभययुक्तबाहुम् ।
ध्यायेन्निजैश्च तनुभिः सकलैरुपेतं
पूर्णं विभुं सकलवाञ्छितसिद्धयेऽजम् ॥ २६ ॥

कवचम् –
वराहः पूर्वतः पातु दक्षिणे दण्डकान्तकः ।
हिरण्याक्षहरः पातु पश्चिमे गदया युतः ॥ २७ ॥

उत्तरे भूमिहृत् पातु अधस्ताद्वायुवाहनः ।
ऊर्ध्वं पातु हृषीकेशो दिग्विदिक्षु गदाधरः ॥ २८ ॥

प्रातः पातु प्रजानाथः कल्पकृत् सङ्गमेऽवतु ।
मध्याह्ने वज्रकेशस्तु सायाह्ने सर्वपूजितः ॥ २९ ॥

प्रदोषे पातु पद्माक्षो रात्रौ राजीवलोचनः ।
निशीन्द्रगर्वहा पातु पातूषः परमेश्वरः ॥ ३० ॥

अटव्यामग्रजः पातु गमने गरुडासनः ।
स्थले पातु महातेजाः जले पात्ववनीपतिः ॥ ३१ ॥

गृहे पातु गृहाध्यक्षः पद्मनाभः पुरोऽवतु ।
झिल्लिकावरदः पातु स्वग्रामे करुणाकरः ॥ ३२ ॥

रणाग्रे दैत्यहा पातु विषमे पातु चक्रभृत् ।
रोगेषु वैद्यराजस्तु कोलो व्याधिषु रक्षतु ॥ ३३ ॥

तापत्रयात् तपोमूर्तिः कर्मपाशाच्च विश्वकृत् ।
क्लेशकालेषु सर्वेषु पातु पद्मापतिर्विभुः ॥ ३४ ॥

हिरण्यगर्भसंस्तुत्यः पादौ पातु निरन्तरम् ।
गुल्फौ गुणाकरः पातु जङ्घे पातु जनार्दनः ॥ ३५ ॥

जानू च जयकृत् पातु पातूरू पुरुषोत्तमः ।
रक्ताक्षो जघने पातु कटिं विश्वम्भरोऽवतु ॥ ३६ ॥

पार्श्वे पातु सुराध्यक्षः पातु कुक्षिं परात्परः ।
नाभिं ब्रह्मपिता पातु हृदयं हृदयेश्वरः ॥ ३७ ॥

महादंष्ट्रः स्तनौ पातु कण्ठं पातु विमुक्तिदः ।
प्रभञ्जनपतिर्बाहू करौ कामपिताऽवतु ॥ ३८ ॥

हस्तौ हंसपतिः पातु पातु सर्वाङ्गुलीर्हरिः ।
सर्वाङ्गश्चिबुकं पातु पात्वोष्ठौ कालनेमिहा ॥ ३९ ॥

मुखं तु मधुहा पातु दन्तान् दामोदरोऽवतु ।
नासिकामव्ययः पातु नेत्रे सूर्येन्दुलोचनः ॥ ४० ॥

फालं कर्मफलाध्यक्षः पातु कर्णौ महारथः ।
शेषशायी शिरः पातु केशान् पातु निरामयः ॥ ४१ ॥

सर्वाङ्गं पातु सर्वेशः सदा पातु सतीश्वरः ।
इतीदं कवचं पुण्यं वराहस्य महात्मनः ॥ ४२ ॥

यः पठेत् शृणुयाद्वापि तस्य मृत्युर्विनश्यति ।
तं नमस्यन्ति भूतानि भीताः साञ्जलिपाणयः ॥ ४३ ॥

राजदस्युभयं नास्ति राज्यभ्रंशो न जायते ।
यन्नामस्मरणाद्भीताः भूतवेतालराक्षसाः ॥ ४४ ॥

महारोगाश्च नश्यन्ति सत्यं सत्यं वदाम्यहम् ।
कण्ठे तु कवचं बद्ध्वा वन्ध्या पुत्रवती भवेत् ॥ ४५ ॥

शत्रुसैन्यक्षयप्राप्तिः दुःखप्रशमनं तथा ।
उत्पातदुर्निमित्तादिसूचितारिष्टनाशनम् ॥ ४६ ॥

ब्रह्मविद्याप्रबोधं च लभते नात्र संशयः ।
धृत्वेदं कवचं पुण्यं मान्धाता परवीरहा ॥ ४७ ॥

जित्वा तु शाम्बरीं मायां दैत्येन्द्रानवधीत् क्षणात् ।
कवचेनावृतो भूत्वा देवेन्द्रोऽपि सुरारिहा ॥ ४८ ॥

भूम्योपदिष्टकवचधारणान्नरकोऽपि च ।
सर्वावध्यो जयी भूत्वा महतीं कीर्तिमाप्तवान् ॥ ४९ ॥

अश्वत्थमूलेऽर्कवारे नित्य पुष्करिणीतटे ।
वराहकवचं जप्त्वा शतवारं पठेद्यदि ॥ ५० ॥

अपूर्वराज्यसम्प्राप्तिं नष्टस्य पुनरागमम् ।
लभते नात्र सन्देहः सत्यमेतन्मयोदितम् ॥ ५१ ॥

जप्त्वा वराहमन्त्रं तु लक्षमेकं निरन्तरम् ।
दशांशं तर्पणं होमं पायसेन घृतेन च ॥ ५२ ॥

कुर्वन् त्रिकालसन्ध्यासु कवचेनावृतो यदि ।
भूमण्डलाधिपत्यं च लभते नात्र संशयः ॥ ५३ ॥

इदमुक्तं मया देवि गोपनीयं दुरात्मनाम् ।
वराहकवचं पुण्यं संसारार्णवतारकम् ॥ ५४ ॥

महापातककोटिघ्नं भुक्तिमुक्तिफलप्रदम् ।
वाच्यं पुत्राय शिष्याय सद्वृताय सुधीमते ॥ ५५ ॥

श्रीसूत उवाच ।
इति पत्युर्वचः श्रुत्वा देवी सन्तुष्टमानसा ।
विनायकगुहौ पुत्रौ प्रपेदे द्वौ सुरार्चितौ ॥ ५६ ॥

कवचस्य प्रभावेन लोकमाता च पार्वती ।
य इदं शृणुयान्नित्यं यो वा पठति नित्यशः ।
स मुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ॥ ५७ ॥

इति श्री वराह कवचम् ।


इतर  श्री विष्णु स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Varaha Kavacham – श्री वराह कवचम्



  1. Today (21 April,2022 ) being SriVaraha Jayanthi Day as per Vakya Panchangam , thanks to Sri Stothranidhi, I performed
    Sri Varaha Swamy Puja and recited Sri Varaha Ashtothra Namavali,Sri Varaha Sthuthi and Sri Varaha Kavacham . This gives me total satisfaction. May the good work of Stothranidhi continue

Leave a Reply

error: Not allowed