Sri Varaha Kavacham – श्री वराह कवचम्

आद्यं रङ्गमिति प्रोक्तं विमानं रङ्ग सञ्ज्ञितम् ।
श्रीमुष्णं वेङ्कटाद्रिं च सालग्रामं च नैमिशम् ॥

तोताद्रिं पुष्करं चैव नरनारायणाश्रमम् ।
अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले ॥

श्री सूत उवाच ।
श्रीरुद्रमुख निर्णीत मुरारि गुणसत्कथा ।
सन्तुष्टा पार्वती प्राह शङ्करं लोकशङ्करम् ॥ १ ॥

श्री पार्वती उवाच ।
श्रीमुष्णेशस्य माहात्म्यं वराहस्य महात्मनः ।
श्रुत्वा तृप्तिर्न मे जाता मनः कौतूहलायते ।
श्रोतुं तद्देव माहात्म्यं तस्माद्वर्णय मे पुनः ॥ २ ॥

श्री शङ्कर उवाच ।
शृणु देवि प्रवक्ष्यामि श्रीमुष्णेशस्य वैभवम् ।
यस्य श्रवणमात्रेण महापापैः प्रमुच्यते ।
सर्वेषामेव तीर्थानां तीर्थ राजोऽभिधीयते ॥ ३ ॥

नित्य पुष्करिणी नाम्नी श्रीमुष्णे या च वर्तते ।
जाता श्रमापहा पुण्या वराह श्रमवारिणा ॥ ४ ॥

विष्णोरङ्गुष्ठ संस्पर्शात्पुण्यदा खलु जाह्नवी ।
विष्णोः सर्वाङ्गसम्भूता नित्यपुष्करिणी शुभा ॥ ५ ॥

महानदी सहस्त्रेण नित्यदा सङ्गता शुभा ।
सकृत्स्नात्वा विमुक्ताघः सद्यो याति हरेः पदम् ॥ ६ ॥

तस्या आग्नेय भागे तु अश्वत्थच्छाययोदके ।
स्नानं कृत्वा पिप्पलस्य कृत्वा चापि प्रदक्षिणम् ॥ ७ ॥

दृष्ट्वा श्वेतवराहं च मासमेकं नयेद्यदि ।
कालमृत्युं विनिर्जित्य श्रिया परमया युतः ॥ ८ ॥

आधिव्याधि विनिर्मुक्तो ग्रहपीडाविवर्जितः ।
भुक्त्वा भोगाननेकांश्च मोक्षमन्ते व्रजेत् ध्रुवम् ॥ ९ ॥

अश्वत्थमूलेऽर्कवारे नित्य पुष्करिणी तटे ।
वराहकवचं जप्त्वा शतवारं जितेन्द्रियः ॥ १० ॥

क्षयापस्मारकुष्ठाद्यैः महारोगैः प्रमुच्यते ।
वराहकवचं यस्तु प्रत्यहं पठते यदि ॥ ११ ॥

शत्रु पीडाविनिर्मुक्तो भूपतित्वमवाप्नुयात् ।
लिखित्वा धारयेद्यस्तु बाहुमूले गलेऽथ वा ॥ १२ ॥

भूतप्रेतपिशाचाद्याः यक्षगन्धर्वराक्षसाः ।
शत्रवो घोरकर्माणो ये चान्ये विषजन्तवः ।
नष्ट दर्पा विनश्यन्ति विद्रवन्ति दिशो दश ॥ १३ ॥

श्रीपार्वती उवाच ।
तद्ब्रूहि कवचं मह्यं येन गुप्तो जगत्त्रये ।
सञ्चरेद्देववन्मर्त्यः सर्वशत्रुविभीषणः ।
येनाप्नोति च साम्राज्यं तन्मे ब्रूहि सदाशिव ॥ १४ ॥

श्रीशङ्कर उवाच ।
शृणु कल्याणि वक्ष्यामि वाराहकवचं शुभम् ।
येन गुप्तो लभेन्मर्त्यो विजयं सर्वसम्पदम् ॥ १५ ॥

अङ्गरक्षाकरं पुण्यं महापातकनाशनम् ।
सर्वरोगप्रशमनं सर्वदुर्ग्रहनाशनम् ॥ १६ ॥

विषाभिचार कृत्यादि शत्रुपीडानिवारणम् ।
नोक्तं कस्यापि पूर्वं हि गोप्यात्गोप्यतरं यतः ॥ १७ ॥

वराहेण पुरा प्रोक्तं मह्यं च परमेष्ठिने ।
युद्धेषु जयदं देवि शत्रुपीडानिवारणम् ॥ १८ ॥

वराहकवचात् गुप्तो नाशुभं लभते नरः ।
वराहकवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ १९ ॥

छन्दोऽनुष्टुप् तथा देवो वराहो भूपरिग्रहः ।
प्रक्षाल्य पादौ पाणी च सम्यगाचम्य वारिणा ॥ २० ॥

कृत स्वाङ्ग करन्यासः सपवित्र उदंमुखः ।
ओं भूर्भवस्सुवरिति नमो भूपतयेऽपि च ॥ २१ ॥

नमो भगवते पश्चात्वराहाय नमस्तथा ।
एवं षडङ्गं न्यासं च न्यसेदङ्गुलिषु क्रमात् ॥ २२ ॥

नमः श्वेतवराहाय महाकोलाय भूपते ।
यज्ञाङ्गाय शुभाङ्गाय सर्वज्ञाय परात्मने ॥ २३ ॥

स्रव तुण्डाय धीराय परब्रह्मस्वरूपिणे ।
वक्रदंष्ट्राय नित्याय नमोऽन्तैर्नामभिः क्रमात् ॥ २४ ॥

अङ्गुलीषु न्यसेद्विद्वान् करपृष्ठतलेष्वपि ।
ध्यात्वा श्वेतवराहं च पश्चान्मन्त्रमुदीरयेत् ॥ २५ ॥

ध्यानम् ।
ओं श्वेतं वराहवपुषं क्षितिमुद्धरन्तं
शङ्घारिसर्व वरदाभय युक्त बाहुम् ।
ध्यायेन्निजैश्च तनुभिः सकलैरुपेतं
पूर्णं विभुं सकलवाञ्छितसिद्धयेऽजम् ॥ २६ ॥

कवचम् ।
वराहः पूर्वतः पातु दक्षिणे दण्डकान्तकः ।
हिरण्याक्षहरः पातु पश्चिमे गदया युतः ॥ २७ ॥

उत्तरे भूमिहृत्पातु अधस्ताद्वायुवाहनः ।
ऊर्ध्वं पातु हृषीकेशो दिग्विदिक्षु गदाधरः ॥ २८ ॥

प्रातः पातु प्रजानाथः कल्पकृत्सङ्गमेऽवतु ।
मध्याह्ने वज्रकेशस्तु सायाह्ने सर्वपूजितः ॥ २९ ॥

प्रदोषे पातु पद्माक्षो रात्रौ राजीवलोचनः ।
निशीन्द्र गर्वहा पातु पातूषः परमेश्वरः ॥ ३० ॥

अटव्यामग्रजः पातु गमने गरुडासनः ।
स्थले पातु महातेजाः जले पात्ववनीपतिः ॥ ३१ ॥

गृहे पातु गृहाध्यक्षः पद्मनाभः पुरोऽवतु ।
झिल्लिका वरदः पातु स्वग्रामे करुणाकरः ॥ ३२ ॥

रणाग्रे दैत्यहा पातु विषमे पातु चक्रभृत् ।
रोगेषु वैद्यराजस्तु कोलो व्याधिषु रक्षतु ॥ ३३ ॥

तापत्रयात्तपोमूर्तिः कर्मपाशाच्च विश्वकृत् ।
क्लेशकालेषु सर्वेषु पातु पद्मापतिर्विभुः ॥ ३४ ॥

हिरण्यगर्भसंस्तुत्यः पादौ पातु निरन्तरम् ।
गुल्फौ गुणाकरः पातु जङ्घे पातु जनार्दनः ॥ ३५ ॥

जानू च जयकृत्पातु पातूरू पुरुषोत्तमः ।
रक्ताक्षो जघने पातु कटिं विश्वम्भरोऽवतु ॥ ३६ ॥

पार्श्वे पातु सुराध्यक्षः पातु कुक्षिं परात्परः ।
नाभिं ब्रह्मपिता पातु हृदयं हृदयेश्वरः ॥ ३७ ॥

महादंष्ट्रः स्तनौ पातु कण्ठं पातु विमुक्तिदः ।
प्रभञ्जन पतिर्बाहू करौ कामपिताऽवतु ॥ ३८ ॥

हस्तौ हंसपतिः पातु पातु सर्वाङ्गुलीर्हरिः ।
सर्वाङ्गश्चिबुकं पातु पात्वोष्ठौ कालनेमिहा ॥ ३९ ॥

मुखं तु मधुहा पातु दन्तान् दामोदरोऽवतु ।
नासिकामव्ययः पातु नेत्रे सूर्येन्दुलोचनः ॥ ४० ॥

फालं कर्मफलाध्यक्षः पातु कर्णौ महारथः ।
शेषशायी शिरः पातु केशान् पातु निरामयः ॥ ४१ ॥

सर्वाङ्गं पातु सर्वेशः सदा पातु सतीश्वरः ।
इतीदं कवचं पुण्यं वराहस्य महात्मनः ॥ ४२ ॥

यः पठेत् शृणुयाद्वापि तस्य मृत्युर्विनश्यति ।
तं नमस्यन्ति भूतानि भीताः साञ्जलिपाणयः ॥ ४३ ॥

राजदस्युभयं नास्ति राज्यभ्रंशो न जायते ।
यन्नाम स्मरणात्भीताः भूतवेतालराक्षसाः ॥ ४४ ॥

महारोगाश्च नश्यन्ति सत्यं सत्यं वदाम्यहम् ।
कण्ठे तु कवचं बद्ध्वा वन्ध्या पुत्रवती भवेत् ॥ ४५ ॥

शत्रुसैन्य क्षय प्राप्तिः दुःखप्रशमनं तथा ।
उत्पात दुर्निमित्तादि सूचितारिष्टनाशनम् ॥ ४६ ॥

ब्रह्मविद्याप्रबोधं च लभते नात्र संशयः ।
धृत्वेदं कवचं पुण्यं मान्धाता परवीरहा ॥ ४७ ॥

जित्वा तु शाम्बरीं मायां दैत्येन्द्रानवधीत्क्षणात् ।
कवचेनावृतो भूत्वा देवेन्द्रोऽपि सुरारिहा ॥ ४८ ॥

भूम्योपदिष्टकवच धारणान्नरकोऽपि च ।
सर्वावध्यो जयी भूत्वा महतीं कीर्तिमाप्तवान् ॥ ४९ ॥

अश्वत्थमूलेऽर्कवारे नित्य पुष्करिणीतटे ।
वराहकवचं जप्त्वा शतवारं पठेद्यदि ॥ ५० ॥

अपूर्वराज्य सम्प्राप्तिं नष्टस्य पुनरागमम् ।
लभते नात्र सन्देहः सत्यमेतन्मयोदितम् ॥ ५१ ॥

जप्त्वा वराहमन्त्रं तु लक्षमेकं निरन्तरम् ।
दशांशं तर्पणं होमं पायसेन घृतेन च ॥ ५२ ॥

कुर्वन् त्रिकालसन्ध्यासु कवचेनावृतो यदि ।
भूमण्डलाधिपत्यं च लभते नात्र संशयः ॥ ५३ ॥

इदमुक्तं मया देवि गोपनीयं दुरात्मनाम् ।
वराहकवचं पुण्यं संसारार्णवतारकम् ॥ ५४ ॥

महापातककोटिघ्नं भुक्तिमुक्तिफलप्रदम् ।
वाच्यं पुत्राय शिष्याय सद्वृत्ताय सुधीमते ॥ ५५ ॥

श्री सूतः –
इति पत्युर्वचः श्रुत्वा देवी सन्तुष्टमानसा ।
विनायक गुहौ पुत्रौ प्रपेदे द्वौ सुरार्चितौ ॥ ५६ ॥

कवचस्य प्रभावेन लोकमाता च पार्वती ।
य इदं शृणुयान्नित्यं यो वा पठति नित्यशः ।
स मुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ॥ ५७ ॥

इति श्रीवराह कवचं सम्पूर्णम् ।

Facebook Comments

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Not allowed
%d bloggers like this: