Devi Narayaniyam Dasakam 15 – पञ्चदश दशकम् (१५) – सुदर्शनकथा-देवीदर्शनम्


एवं तवैव कृपया मुनिवर्यशीत-
-च्छायाश्रितो हतभयः स सुदर्शनोऽयम् ।
वेदध्वनिश्रवणपूतहृदाश्रमान्ते
सम्मोदयन् मुनिजनान् ववृधे कुमारः ॥ १५-१ ॥

आबाल्यमेष मुनिबालकसङ्गमेन
क्लीं क्लीमितीश्वरि सदा तव बीजमन्त्रम् ।
तत्रोच्चचार कृपयाऽस्य पुरः कदाचि-
-दाविर्बभूविथ नतं तमभाषथाश्च ॥ १५-२ ॥

प्रीताऽस्मि ते सुत जगज्जननीमवेहि
मां सर्वकामवरदां तव भद्रमस्तु ।
चन्द्राननां शशिकलां विमलां सुबाहोः
काशीश्वरस्य तनयां विधिनोद्वह त्वम् ॥ १५-३ ॥

नष्टा भवेयुरचिरेण तवारिवर्गा
राज्यं च यैरपहृतं पुनरेष्यसि त्वम् ।
मातृद्वयेन सचिवैश्च समं स्वधर्मान्
कुर्याः सदेति समुदीर्य तिरोदधाथ ॥ १५-४ ॥

स्वप्ने त्वया शशिकला कथिताऽस्ति भार-
-द्वाजाश्रमे प्रथितकोसलवंशजातः ।
धीमान् सुदर्शन इति ध्रुवसन्धिपुत्र
एनं पतिं वृणु तवास्तु शुभं सदेति ॥ १५-५ ॥

स्वप्नानुभूतमनृतं किमृतं न वेति
सुप्तोत्थिता तु मतिमत्यपि न व्यजानात् ।
पृष्टात्सुदर्शनकथां सुमुखी द्विजात्सा
श्रुत्वाऽनुरक्तहृदयैव बभूव देवि ॥ १५-६ ॥

ज्ञात्वा सुबाहुरिदमाकुलमानसस्ता-
-मस्मान्निवर्तयितुमाशु सहेष्टपत्न्या ।
कृत्वा प्रयत्नमखिलं विफलं च पश्य-
-न्निच्छास्वयंवरविधिं हितमेव मेने ॥ १५-७ ॥

कश्चित्कदाचन सुदर्शनमेत्य विप्रः
प्राहागतः शशिकलावचसाऽहमत्र ।
सा त्वां ब्रवीति नृपपुत्र जगज्जनन्या
वाचा वृतोऽसि पतिरस्मि तवैव दासी ॥ १५-८ ॥

अत्राऽऽगता नृपतयो बहवस्त्वमेत्य
तेषां सुधीर मिषतां नय मां प्रियां ते ।
एवं वधूवचनमानय तां सुशीलां
भद्रं तवास्त्विदमुदीर्य जगाम विप्रः ॥ १५-९ ॥

स्वप्ने च जाग्रति च पश्यति भक्तवर्य-
-स्त्वां सन्ततं तव वचो मधुरं शृणोति ।
ऐश्वर्यमाशु लभतेऽपि च मुक्तिमेति
त्वद्भक्तिमेव मम देहि नमो जनन्यै ॥ १५-१० ॥

षोडश दशकम् (१६) – सुदर्शनविवाहम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed