Devi Narayaniyam Dasakam 14 – चतुर्दश दशकम् (१४) – सुदर्शनकथा-भरद्वाजाश्रम प्रवेशम्


राजा पुराऽऽसीत्किल कोसलेषु
धर्मैकनिष्ठो ध्रुवसन्धिनामा ।
आस्तां प्रिये अस्य मनोरमा च
लीलावती चेति दृढानुरक्ते ॥ १४-१ ॥

मनोरमाऽसूत सुदर्शनाख्यं
कुमारकं शत्रुजितं च साऽन्या ।
संवर्धयंस्तौ मृगयाविहारी
वने नृपो हा हरिणा हतोऽभूत् ॥ १४-२ ॥

विचिन्तयन् राजकुलस्य वृत्तं
तज्ज्येष्ठपुत्रस्य सुदर्शनस्य ।
राज्याभिषेकाय गुरुर्वसिष्ठ-
-श्चकार मन्त्रं सचिवैः समेतः ॥ १४-३ ॥

मातामहः शत्रुजितो युधाजि-
-दभ्येत्य सद्योऽमितवीर्यशाली ।
राज्ये स्वदौहित्रमिहाभिषिक्तं
कर्तुं कुबुद्धिः कुरुते स्म यत्नम् ॥ १४-४ ॥

मनोरमाया अपि वीरसेनः
पिताऽभ्युपेत्याशु रुरोध तस्य ।
यत्नं बली स्वस्वसुतासुताभि-
-षेकैकबुद्धी खलु तावभूताम् ॥ १४-५ ॥

कृत्वा विवादं च ततो नृपौ द्वौ
घोरं रणं चक्रतुरिद्धरोषौ ।
युधाजिता तत्र तु वीरसेनो
दैवाद्धतोऽभूद्धरिणा करीव ॥ १४-६ ॥

राज्येऽभिषिक्तः खलु शत्रुजित्स
बालस्ततोऽयं रिपुभिद्युधाजित् ।
दौहित्रराज्यं सुखमेकनाथः
शशास वज्रीव दिवं महेशि ॥ १४-७ ॥

पत्युः पितुश्चापि मृतेरनाथा
भीता विदल्लाभिधमन्त्रियुक्ता ।
मनोरमा बालसुता त्वरण्ये
ययौ भरद्वाजमुनिं शरण्यम् ॥ १४-८ ॥

तपोनिधिर्दीनजनानुकम्पी
ज्ञात्वा मुनिस्तां ध्रुवसन्धिपत्नीम् ।
उवाच वत्से वस निर्भयैव
तपोवनेऽत्रास्तु शुभं तवेति ॥ १४-९ ॥

अल्पोऽप्युपेक्ष्यो न रिपुर्न रोगो-
-ऽप्येवं स्मरन्नाशु नृपो युधाजित् ।
तां हर्तुकामः ससुतां महर्षेः
प्रापाश्रमं मन्त्रिवरेण साकम् ॥ १४-१० ॥

न मानितस्तेन तपस्विना स
मनोरमां नैव सुतं च लेभे ।
प्रहर्तुकामोऽपि मुनिं स मन्त्रि-
-वाचा निवृत्तः श्रुतकौशिकोऽभूत् ॥ १४-११ ॥

एवं मुनिस्तां ससुतां ररक्ष
भीतोऽस्मि संसारयुधाजितोऽहम् ।
न मे सहायोऽस्ति विना त्वयैष
सनूपुरं ते चरणं नमामि ॥ १४-१२ ॥

पञ्चदश दशकम् (१५) – सुदर्शनकथा-देवीदर्शनम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed