Devi Narayaniyam Dasakam 13 – त्रयोदश दशकम् (१३) – उतथ्य महिमा


अथाऽऽगतः कश्चिदधिज्यधन्वा
मुनिं निषादः सहसा जगाद ।
त्वं सत्यवाग्ब्रूहि मुने त्वया किं
दृष्टः किटिः सायकविद्धदेहः ॥ १३-१ ॥

दृष्टस्त्वया चेद्वद सूकरः क्व
गतो न वाऽदृश्यत किं मुनीन्द्र ।
अहं निषादः खलु वन्यवृत्ति-
-र्ममास्ति दारादिकपोष्यवर्गः ॥ १३-२ ॥

श्रुत्वा निषादस्य वचो मुनिः स
तूष्णीं स्थितश्चिन्तयति स्म गाढम् ।
वदामि किं दृष्ट इतीर्यते चे-
-द्धन्यादयं तं मम चाप्यघं स्यात् ॥ १३-३ ॥

सत्यं नरं रक्षति रक्षितं चे-
-दसत्यवक्ता नरकं व्रजेच्च ।
सत्यं हि सत्यं सदयं न किञ्चि-
-त्सत्यं कृपाशून्यमिदं मतं मे ॥ १३-४ ॥

एवं मुनेश्चिन्तयतः स्वकार्य-
-व्यग्रो निषादः पुनरेवमूचे ।
दृष्टस्त्वया किं स किटिर्न किं वा
दृष्टः स शीघ्रं कथयात्र सत्यम् ॥ १३-५ ॥

मुनिस्तमाहात्र पुनः पुनः किं
निषाद मां पृच्छसि मोहमग्नः ।
पश्यन् न भाषेत न च ब्रुवाणः
पश्येदलं वाग्भिरवेहि सत्यम् ॥ १३-६ ॥

उन्मादिनो जल्पनमेतदेवं
मत्वा निषादः सहसा जगाम ।
न सत्यमुक्तं मुनिना न कोलो
हतश्च सर्वं तव देवि लीलाः ॥ १३-७ ॥

द्रष्टा परं ब्रह्म तदेव च स्या-
-दिति श्रुतिः प्राह न भाषते सः ।
सदा ब्रुवाणस्तु न पश्यतीद-
-मयं हि सत्यव्रतवाक्यसारः ॥ १३-८ ॥

भूयः स सारस्वतबीजमन्त्रं
चिरं जपन् ज्ञाननिधिः कविश्च ।
वाल्मीकिवत्सर्वदिशि प्रसिद्धो
बभूव बन्धून् समतर्पयच्च ॥ १३-९ ॥

स्मृता नता देवि सुपूजिता वा
श्रुता नुता वा खलु वन्दिता वा ।
ददासि नित्यं हितमाश्रितेभ्यः
कृपार्द्रचित्ते सततं नमस्ते ॥ १३-१० ॥

चतुर्दश दशकम् (१४) – सुदर्शनकथा-भरद्वाजाश्रम प्रवेशम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed