Devi Narayaniyam Dasakam 12 – द्वादश दशकम् (१२) – उतथ्य जननम्


पुरा द्विजः कश्चन देवदत्तो
नाम प्रजार्थं तमसासमीपे ।
कुर्वन् मखं गोभिलशापवाचा
लेभे सुतं मूढमनन्तदुःखः ॥ १२-१ ॥

उतथ्यनामा ववृधे स बालो
मूढस्तु दृष्टं न ददर्श किञ्चित् ।
श्रुतं न शुश्राव जगाद नैव
पृष्टो न च स्नानजपादि चक्रे ॥ १२-२ ॥

इतस्ततोऽटन् समवाप्तगङ्गो
जले निमज्जन् प्रपिबंस्तदेव ।
वसन् मुनीनामुटजेषु वेद-
-मन्त्रांश्च शृण्वन् स दिनानि निन्ये ॥ १२-३ ॥

क्रमेण सत्सङ्गविवृद्धसत्वः
सत्यव्रतः सत्यतपाश्च भूत्वा ।
नासत्यवाक् त्वत्कृपया स मूढो-
-ऽप्युन्मीलितान्तर्नयनो बभूव ॥ १२-४ ॥

कुलं पवित्रं जननी विशुद्धा
पिता च सत्कर्मरतः सदा मे ।
मया कृतं नैव निषिद्धकर्म
तथाऽपि मूढोऽस्मि जनैश्च निन्द्यः ॥ १२-५ ॥

जन्मान्तरे किं नु कृतं मयाऽघं
किं वा न विद्याऽर्थि जनस्य दत्ता ।
ग्रन्थोऽप्यदत्तः किमु पूज्यपूजा
कृता न किं वा विधिवन्न जाने ॥ १२-६ ॥

नाकारणं कार्यमितीर्यते हि
दैवं बलिष्ठं दुरतिक्रमं च ।
ततोऽत्र मूढो विफलीकृतोऽस्मि
वन्ध्यद्रुवन्निर्जलमेघवच्च ॥ १२-७ ॥

इत्यादि सञ्चिन्त्य वने स्थितः स
कदाचिदेकं रुधिराप्लुताङ्गम् ।
बीभत्सरूपं किटिमेष पश्य-
-न्नय्यय्य इत्युत्स्वनमुच्चचार ॥ १२-८ ॥

शरेण विद्धः स किरिर्भयार्तः
प्रवेपमानो मुनिवासदेशे ।
अन्तर्निकुञ्जस्य गतश्च दैवा-
-ददृश्यतामाप भयार्तिहन्त्रि ॥ १२-९ ॥

विना मकारं च विना च भक्ति-
-मुच्चार्य वाग्बीजमनुं पवित्रम् ।
प्रसन्नबुद्धिः कृपया तवैष
बभूव दूरीकृतसर्वपापः ॥ १२-१० ॥

नाहं कविर्गानविचक्षणो न
नटो न शिल्पादिषु न प्रवीणः ।
पश्यात्र मां मूढमनन्यबन्धुं
प्रसन्नबुद्धिं कुरु मां नमस्ते ॥ १२-११ ॥

त्रयोदश दशकम् (१३) – उतथ्य महिमा >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed