Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रुत्वा वधूवाक्यमरं कुमारो
हृष्टो भरद्वाजमुनिं प्रणम्य ।
आपृछ्य मात्रा सह देवि स त्वां
स्मरन् रथेनाऽऽप पुरं सुबाहोः ॥ १६-१ ॥
स्वयंवराहूतमहीभुजां स
सभां प्रविष्टो हतभीर्निषण्णः ।
कन्या कला पूर्णशशी त्वसावि-
-त्याहुर्जनास्तामभिवीक्षमाणाः ॥ १६-२ ॥
वधूश्च तद्दर्शन वर्धितानु-
-रागा स्मरन्ती तव वाक्यसारम् ।
सभां नृपाणामजितेन्द्रियाणां
न प्राविशत्सा पितृचोदिताऽपि ॥ १६-३ ॥
शङ्काकुलास्ते नृवरा बभूवु-
-रुच्चैर्युधाजित्कुपितो जगाद ।
मा दीयतां लोकहितानभिज्ञा
वधूरशक्ताय सुदर्शनाय ॥ १६-४ ॥
बालोऽयमित्येष मयाऽऽश्रमे प्रा-
-गुपेक्षितः सोऽत्र रिपुत्वमेति ।
माऽयं च वध्वा व्रियतां वृतश्चे-
-द्धन्यामिमं तां च हरेयमाशु ॥ १६-५ ॥
श्रुत्वा युधाजिद्वचनं नृपाला
हितैषिणः केचिदुपेत्य सर्वम् ।
सुदर्शनं प्रोचुरथापि धीरः
स निर्भयो नैव चचाल देवि ॥ १६-६ ॥
एकत्र पुत्री च सुदर्शनश्च
युधाजिदन्यत्र बली सकोपः ।
तन्मध्यगो मङ्क्षु नृपः सुबाहु-
-र्बद्धाञ्जलिः प्राह नृपान् विनम्रः ॥ १६-७ ॥
नृपा वचो मे शृणुतेह बाला
नाऽऽयाति पुत्री मम मण्डपेऽत्र ।
तत् क्षम्यतां श्वोऽत्र नयाम्यहं तां
याताद्य वो विश्रममन्दिराणि ॥ १६-८ ॥
गतेषु सर्वेषु सुदर्शनस्तु
त्वां संस्मरन् मातृहितानुसारी ।
सुबाहुना तन्निशि तेन दत्तां
वधूं यथाविध्युदुवाह देवि ॥ १६-९ ॥
प्रातर्युधाजित्प्रबलो विवाह-
-वार्तां निशम्यात्तरुषा ससैन्यः ।
सुदर्शनं मातृवधूसमेतं
यात्रोन्मुखं भीमरवो रुरोध ॥ १६-१० ॥
ततो रणे घोरतरे सुबाहुः
क्लीं क्लीमितीशानि समुच्चचार ।
तत्राविरासीः समराङ्गणे त्वं
सिंहाधिरूढा स्वजनार्तिहन्त्री ॥ १६-११ ॥
त्वन्नाम गायन् कथयन् गुणांस्ते
त्वां पूजयंश्चात्र नयामि कालम् ।
स्वप्नेऽपि दृष्टा न मया त्वमम्बे
कृपां कुरु त्वं मयि ते नमोऽस्तु ॥ १६-१२ ॥
सप्तदश दशकम् (१७) – सुदर्शन कोसलप्राप्तिः >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.