Devi Narayaniyam Dasakam 17 – सप्तदश दशकम् (१७) – सुदर्शन कोसलप्राप्तिः


युधाजितं शत्रुजितं च हत्वा
रणाङ्गणस्था नुतिभिः प्रसन्ना ।
सुबाहुमुख्याननुगृह्य भक्तान्
सर्वेषु पश्यत्सु तिरोदधाथ ॥ १७-१ ॥

पृष्टो नृपान् प्राह सुदर्शनस्तान्
दृष्टा भवद्भिः खलु सर्वशक्ता ।
या निर्गुणा योगिभिरप्यदृश्या
दृश्या च भक्तैः सगुणा विनीतैः ॥ १७-२ ॥

या राजसीदं सृजतीव शक्ति-
-र्या सात्विकी पालयतीव विश्वम् ।
या तामसी संहरतीव सर्वं
सद्वस्तु सैवान्यदसत्समस्तम् ॥ १७-३ ॥

भक्तार्तिहन्त्री करुणामयी सा
भक्तद्रुहां भीतिकरी प्रकामम् ।
वसन् भरद्वाजतपोवनान्ते
चिराय मात्रा सह तां भजेऽहम् ॥ १७-४ ॥

तामेव भक्त्या भजतेह भुक्ति-
-मुक्तिप्रदामस्तु शुभं सदा वः ।
श्रुत्वेदमानम्रमुखास्तथेति
सम्मन्त्र्य भूपाश्च ततो निवृत्ताः ॥ १७-५ ॥

सुदर्शनो मातृवधूसमेतः
सुबाहुमापृछ्य रथाधिरूढः ।
पुरीमयोध्यां प्रविशन् पुरेव
सीतापतिस्तोषयति स्म सर्वान् ॥ १७-६ ॥

लीलावतीं प्राप्य विमातरं च
नत्वा विषण्णां हतपुत्रताताम् ।
सदुक्तिभिः कर्मगतीः प्रबोध्य
स सान्त्वयामास महेशि भक्तः ॥ १७-७ ॥

जनेषु पश्यत्सु सुदर्शनोऽत्र
त्वां पूजयित्वा गुरुणाऽभिषिक्तः ।
राज्ये त्वदीयं गृहमाशु कृत्वा
पूजाविधानादि च संवृधत्त ॥ १७-८ ॥

तस्मिन् नृपे त्वत्सदनानि कृत्वा
जनाः प्रतिग्राममपूजयंस्त्वाम् ।
काश्यां सुबाहुश्च तथाऽकरोत्ते
सर्वत्र पेतुः करुणाकटाक्षाः ॥ १७-९ ॥

न कर्मणा न प्रजया धनेन
न योगसाङ्ख्यादिविचिन्तया च ।
न च व्रतेनापि सुखानुभूति-
-र्भक्त्यैव मर्त्यः सुखमेति मातः ॥ १७-१० ॥

नाहं सुबाहुश्च सुदर्शनश्च
न मे भरद्वाजमुनिः शरण्यः ।
गुरुः सुहृद्बन्धुरपि त्वमेव
महेश्वरि त्वां सततं नमामि ॥ १७-११ ॥

सप्तदश दशकम् (१७) – सुदर्शन कोसलप्राप्तिः >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed