Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रह्लाद प्रभुरस्ति चेत्तव हरिः सर्वत्र मे दर्शय
स्तम्भे चैनमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः ।
वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमावेदय-
-न्नार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १ ॥
श्रीरामात्र विभीषणोऽयमधुना त्वार्तो भयादागतः
सुग्रीवानय पालयेऽहमधुना पौलस्त्यमेवागतम् ।
एवं योऽभयमस्य सर्वविदितं लङ्काधिपत्यं ददा-
-वार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ २ ॥
नक्रग्रस्तपदं समुद्यतकरं ब्रह्मेश देवेश मां
पाहीति प्रचुरार्तरावकरिणं देवेश शक्तीश च ।
मा शोचेति ररक्ष नक्रवदनाञ्चक्रश्रिया तत्क्षणा-
-दार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ३ ॥
हा कृष्णाच्युत हा कृपाजलनिधे हा पाण्डवानां गते
क्वासि क्वासि सुयोधनादवगतां हा रक्ष मां द्रौपदीम् ।
इत्युक्तोऽक्षयवस्त्ररक्षिततनुं योरक्षदापद्गणा-
-दार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ४ ॥
यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वसनं
यन्नामामृतपूरणं च पिबतां सन्तापसंहारकम् ।
पाषाणश्च यदङ्घ्रितो निजवधूरूपं मुनेराप्तवा-
-नार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ५ ॥
यन्नामश्रुतिमात्रतोऽपरिमितं संसारवारान्निधिं
त्यक्त्वा गच्छति दुर्जनोऽपि परमं विष्णोः पदं शाश्वतम् ।
तन्नैवाद्भुतकारणं त्रिजगतां नाथस्य दासोऽस्म्यह-
-मार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ६ ॥
पित्रा भ्रातरमुत्तमाङ्कगमितं भक्तोत्तमं यो ध्रुवं
दृष्ट्वा तत्सममारुरुक्षुमुदितं मात्रावमानं गतम् ।
योऽदात् तं शरणागतं तु तपसा हेमाद्रिसिंहासनं
ह्यार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ७ ॥
नाथेति श्रुतयो न तत्त्वमतयो घोषस्थिता गोपिका
जारिण्यः कुलजातिधर्मविमुखा अध्यात्मभावं ययुः ।
भक्तिर्यस्य ददाति मुक्तिमतुलां जारस्य यः सद्गति-
-र्ह्यार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ८ ॥
क्षुत्तृष्णार्तसहस्रशिष्यसहितं दुर्वाससं क्षोभितं
द्रौपद्या भयभक्तियुक्तमनसा शाकं स्वहस्तार्पितम् ।
भुक्त्वा तर्पयदात्मवृत्तिमखिलामावेदयन् यः पुमा-
-नार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ९ ॥
येनाराक्षि रघूत्तमेन जलधेस्तीरे दशास्यानुज-
-स्त्वायातं शरणं रघूत्तम विभो रक्षातुरं मामिति ।
पौलस्त्येन निराकृतोऽथ सदसि भ्रात्रा च लङ्कापुरे
ह्यार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १० ॥
येनावाहि महाहवे वसुमती संवर्तकाले महा-
-लीलाक्रोडवपुर्धरेण हरिणा नारायणेन स्वयम् ।
यः पापिद्रुमसम्प्रवर्तमचिराद्धत्त्वा च योऽगात् प्रिया-
-मार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ११ ॥
योद्धासौ भुवनत्रये मधुपतिर्भर्ता नराणां बले
राधाया अकरोद्रते रतिमनःपूर्तिं सुरेन्द्रानुजः ।
यो वा रक्षति दीनपाण्डुतनयान्नाथेति भीतिं गता-
-नार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १२ ॥
यः सान्दीपिनिदेशतश्च तनयं लोकान्तरात् सन्नतं
चानीय प्रतिपाद्य पुत्रमरणादुज्जृम्भमाणार्तये ।
सन्तोषं जनयन्नमेयमहिमा पुत्रार्थसम्पादना-
-दार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १३ ॥
यन्नामस्मरणादघौघसहितो विप्रः पुराऽजामिलः
प्राणान्मुक्तिमशेषितामनु च यः पापौघतापार्तियुक् ।
सद्यो भागवतोत्तमात्मनि मतिं प्रापाम्बरीषाभिध-
-श्चार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १४ ॥
योरक्षद्वसनादिनित्यरहितं विप्रं कुचैलाभिधं
दीनादीनचकोरपालनपरः श्रीशङ्खचक्रोज्ज्वलः ।
तज्जीर्णाम्बरमुष्टिपात्रपृथुकानादाय भुक्त्वा क्षणा-
-दार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १५ ॥
यत्कल्याणगुणाभिरामममलं मन्त्राणि संशिक्षते
यत्संशेतिपतिप्रतिष्ठितमिदं विश्वं वदत्यागमः ।
यो योगीन्द्रमनःसरोरुहतमःप्रध्वंसविद्भानुमा-
-नार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १६ ॥
कालिन्दीहृदयाभिरामपुलिने पुण्ये जगन्मङ्गले
चन्द्राम्भोजवटे पुटे परिसरे धात्रा समाराधिते ।
श्रीरङ्गे भुजगेन्द्रभोगशयने शेते सदा यः पुमा-
-नार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १७ ॥
वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणा-
-दौदार्यादघशोषणादगणितश्रेयः पदप्रापणात् ।
सेव्यःश्रीपतिरेव सर्वजगतामेते हि तत्साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्याध्रुवः ॥ १८ ॥
इति श्रीमच्छङ्कराचार्य विरचितं श्री आर्तत्राणपरायण नारायण स्तोत्रम् ॥
इतर श्री विष्णु स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

