Chatusloki Stotram – चतुःश्लोकी स्तोत्रम्
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
सर्वदा सर्वभावेन भजनीयो व्रजाधिपः ।
स्वस्यायमेव धर्मो हि नान्यः क्वापि कदाचन ॥ १ ॥
एवं सदास्मत्कर्तव्यं स्वयमेव करिष्यति ।
प्रभुस्सर्वसमर्थो हि ततो निश्चिंततां व्रजेत् ॥ २ ॥
यदि श्रीगोकुलाधीशो धृतस्सर्वात्मना हृदि ।
ततः किमपरं ब्रूहि लौकिकैर्वैदिकैरपि ॥ ३ ॥
अतस्सर्वात्मना शश्वद्गोकुलेश्वरपादयोः ।
स्मरणं भजनं चापि न त्याज्यमिति मे मतिः ॥ ४ ॥
इति श्रीमद्वल्लभाचार्यविरचितं चतुःश्लोकी स्तोत्रम् ।
గమనిక: శ్రీరామచంద్రమూర్తి మరియు ఆంజనేయస్వామి వార్ల స్తోత్రములతో "శ్రీరామ స్తోత్రనిధి" అనే పుస్తకము ప్రచురించుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras from home page of తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.