Bala Graha Raksha Stotram – बाल ग्रहरक्षा स्तोत्रम्


आदाय कृष्णं सन्त्रस्ता यशोदापि द्विजोत्तम ।
गोपुच्छं भ्राम्य हस्तेन बालदोषमपाकरोत् ॥ १ ॥

गोकरीषमुपादाय नन्दगोपोऽपि मस्तके ।
कृष्णस्य प्रददौ रक्षां कुर्वित्येतदुदीरयन् ॥ २ ॥

नन्दगोप उवच –
रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः ।
यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥ ३ ॥

येन दम्ष्ट्राग्रविधृता धारयत्यवनी जगत् ।
वराहरूपदृग्देवस्सत्त्वां रक्षतु केशवः ॥ ४ ॥

नखाङ्कुरविनिर्भिन्न वैरिवक्षःस्थलो विभुः ।
नृसिंहरूपी सर्वत्र रक्षतु त्वां जनार्दनः ॥ ५ ॥

वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् ।
त्रिविक्रमः क्रमाक्रान्तत्रैलोक्यस्स्फुरदायुधः ॥ ६ ॥

शिरस्ते पातु गोविन्दः कठं रक्षतु केशवः ।
गुह्यं सजठरं विष्णुर्जङ्घे पादौ जनार्दनः ॥ ७ ॥

मुखं बाहू प्रबाहू च मनस्सर्वेन्द्रियाणि च ।
रक्षत्वव्याहतैश्वर्यस्तव नारायणोऽव्ययः ॥ ८ ॥

शङ्खचक्रगदापाणेश्शङ्खनादहताः क्षयम् ।
गच्छन्तु प्रेतकूष्माण्डराक्षसा ये तवाहिताः ॥ ९ ॥

त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः ।
हृषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥ १० ॥

श्रीपराशर उवाच –
एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः ।
शायितश्शकटस्याधो बालपर्यङ्किकातले ॥ ११ ॥

वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १२ ॥

श्रीश्रीश्शुभं भूयात् ।

इति बालग्रहरक्षा स्तोत्रम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed